श्रीगायत्रीसहस्रनामावली
श्रीगणेशाय नमः ।
ध्यानम्
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां
रक्तारक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
गायत्री कमलासनां करतलव्यानद्धकुण्डाम्बुजां
पद्माक्षीं च वरस्रजञ्च दधतीं हंसाधिरूढां भजे ॥
ॐ तत्काररूपायै नमः ।
ॐ तत्त्वज्ञायै नमः ।
ॐ तत्पदार्थस्वरूपिण्यै नमः ।
ॐ तपस्स्वाध्यायनिरतायै नमः ।
ॐ तपस्विजनसन्नुतायै नमः ।
ॐ तत्कीर्तिगुणसम्पन्नायै नमः ।
ॐ तथ्यवाचे नमः ।
ॐ तपोनिधये नमः ।
ॐ तत्त्वोपदेशसम्बन्धायै नमः ।
ॐ तपोलोकनिवासिन्यै नमः ॥ १०॥
ॐ तरुणादित्यसङ्काशायै नमः ।
ॐ तप्तकाञ्चनभूषणायै नमः ।
ॐ तमोपहारिण्यै नमः ।
ॐ तन्त्र्यै नमः ।
ॐ तारिण्यै नमः ।
ॐ ताररूपिण्यै नमः ।
ॐ तलादिभुवनान्तस्थायै नमः ।
ॐ तर्कशास्त्रविधायिन्यै नमः ।
ॐ तन्त्रसारायै नमः ।
ॐ तन्त्रमात्रे नमः ॥२०॥
ॐ तन्त्रमार्गप्रदर्शिन्यै नमः ।
ॐ तत्त्वायै नमः ।
ॐ तन्त्रविधानज्ञायै नमः ।
ॐ तन्त्रस्थायै नमः ।
ॐ तन्त्रसाक्षिण्यै नमः ।
ॐ तदेकध्याननिरतायै नमः ।
ॐ तत्त्वज्ञानप्रबोधिन्यै नमः ।
ॐ तन्नाममन्त्रसुप्रीतायै नमः ।
ॐ तपस्वीजनसेवितायै नमः ।
ॐ सकाररूपायै नमः ॥ ३०॥
ॐ सावित्र्यै नमः ।
ॐ सर्वरूपायै नमः ।
ॐ सनातन्यै नमः ।
ॐ संसारदुःखशमन्यै नमः ।
ॐ सर्वयागफलप्रदायै नमः ।
ॐ सकलायै नमः ।
ॐ सत्यसङ्कल्पायै नमः ।
ॐ सत्यायै नमः ।
ॐ सत्यप्रदायिन्यै नमः ।
ॐ सन्तोषजनन्यै नमः ॥ ४०॥
ॐ सारायै नमः ।
ॐ सत्यलोकनिवासिन्यै नमः ।
ॐ समुद्रतनयाराध्यायै नमः ।
ॐ सामगानप्रियायै नमः ।
ॐ सत्यै नमः ।
ॐ समान्यै नमः ।
ॐ सामदेव्यै नमः ।
ॐ समस्तसुरसेवितायै नमः ।
ॐ सर्वसम्पत्तिजनन्यै नमः ।
ॐ सद्गुणायै नमः ॥ ५०॥
ॐ सकलेष्टदायै नमः ।
ॐ सनकादिमुनिध्येयायै नमः ।
ॐ समानाधिकवर्जितायै नमः ।
ॐ साध्यायै नमः ।
ॐ सिद्धायै नमः ।
ॐ सुधावासायै नमः ।
ॐ सिद्ध्यै नमः ।
ॐ साध्यप्रदायिन्यै नमः ।
ॐ सद्युगाराध्यनिलयायै नमः ।
ॐ समुत्तीर्णायै नमः ॥ ६०॥
ॐ सदाशिवायै नमः ।
ॐ सर्ववेदान्तनिलयायै नमः ।
ॐ सर्वशास्त्रार्थगोचरायै नमः ।
ॐ सहस्रदलपद्मस्थायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सर्वतोमुख्यै नमः ।
ॐ समयायै नमः ।
ॐ समयाचारायै नमः ।
ॐ सद्सद्ग्रन्थिभेदिन्यै नमः ।
ॐ सप्तकोटिमहामन्त्रमात्रे नमः ॥ ७०॥
ॐ सर्वप्रदायिन्यै नमः ।
ॐ सगुणायै नमः ।
ॐ सम्भ्रमायै नमः ।
ॐ साक्षिण्यै नमः ।
ॐ सर्वचैतन्यरूपिण्यै नमः ।
ॐ सत्कीर्तये नमः ।
ॐ सात्विकायै नमः ।
ॐ साध्व्यै नमः ।
ॐ सच्चिदानन्दस्वरूपिण्यै नमः ।
ॐ सङ्कल्परूपिण्यै नमः ॥ ८०॥
ॐ सन्ध्यायै नमः ।
ॐ सालग्रामनिवासिन्यै नमः ।
ॐ सर्वोपाधिविनिर्मुक्तायै नमः ।
ॐ सत्यज्ञानप्रबोधिन्यै नमः ।
ॐ विकाररूपायै नमः ।
ॐ विप्रश्रियै नमः ।
ॐ विप्राराधनतत्परायै नमः ।
ॐ विप्रप्रियायै नमः ।
ॐ विप्रकल्याण्यै नमः ।
ॐ विप्रवाक्यस्वरूपिण्यै नमः ॥ ९०॥
ॐ विप्रमन्दिरमध्यस्थायै नमः ।
ॐ विप्रवादविनोदिन्यै नमः ।
ॐ विप्रोपाधिविनिर्भेत्रे नमः ।
ॐ विप्रहत्याविमोचन्यै नमः ।
ॐ विप्रत्रात्रे नमः ।
ॐ विप्रगात्रायै नमः ।
ॐ विप्रगोत्रविवर्धिन्यै नमः ।
ॐ विप्रभोजनसन्तुष्टायै नमः ।
ॐ विष्णुरूपायै नमः ।
ॐ विनोदिन्यै नमः ॥ १००॥
ॐ विष्णुमायायै नमः ।
ॐ विष्णुवन्द्यायै नमः ।
ॐ विष्णुगर्भायै नमः ।
ॐ विचित्रिण्यै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ विष्णुभगिन्यै नमः ।
ॐ विष्णुमायाविलासिन्यै नमः ।
ॐ विकाररहितायै नमः ।
ॐ विश्वविज्ञानघनरूपिण्यै नमः ।
ॐ विबुधायै नमः ॥ ११०॥
ॐ विष्णुसङ्कल्पायै नमः ।
ॐ विश्वामित्रप्रसादिन्यै नमः ।
ॐ विष्णुचैतन्यनिलयायै नमः ।
ॐ विष्णुस्वायै नमः ।
ॐ विश्वसाक्षिण्यै नमः ।
ॐ विवेकिन्यै नमः ।
ॐ वियद्रूपायै नमः ।
ॐ विजयायै नमः ।
ॐ विश्वमोहिन्यै नमः ।
ॐ विद्याधर्यै नमः ॥ १२०॥
ॐ विधानज्ञायै नमः ।
ॐ वेदतत्त्वार्थरूपिण्यै नमः ।
ॐ विरूपाक्ष्यै नमः ।
ॐ विराड्रूपायै नमः ।
ॐ विक्रमायै नमः ।
ॐ विश्वमङ्गलायै नमः ।
ॐ विश्वम्भरासमाराध्यायै नमः ।
ॐ विश्वभ्रमणकारिण्यै नमः ।
ॐ विनायक्यै नमः ।
ॐ विनोदस्थायै नमः ॥ १३०॥
ॐ वीरगोष्ठीविवर्धिन्यै नमः ।
ॐ विवाहरहितायै नमः ।
ॐ विन्ध्यायै नमः ।
ॐ विन्ध्याचलनिवासिन्यै नमः ।
ॐ विद्याविद्याकर्यै नमः ।
ॐ विद्यायै नमः ।
ॐ विद्याविद्याप्रबोधिन्यै नमः ।
ॐ विमलायै नमः ।
ॐ विभवायै नमः ।
ॐ वेद्यायै नमः ॥ १४०॥
ॐ विश्वस्थायै नमः ।
ॐ विविधोज्ज्वलायै नमः ।
ॐ वीरमध्यायै नमः ।
ॐ वरारोहायै नमः ।
ॐ वितन्त्रायै नमः ।
ॐ विश्वनायिकायै नमः ।
ॐ वीरहत्याप्रशमन्यै नमः ।
ॐ विनम्रजनपालिन्यै नमः ।
ॐ वीरधिये नमः ।
ॐ विविधाकारायै नमः ॥ १५०॥
ॐ विरोधिजननाशिन्यै नमः ।
ॐ तुकाररूपायै नमः ।
ॐ तुर्यश्रियै नमः ।
ॐ तुलसीवनवासिन्यै नमः ।
ॐ तुरङ्ग्यै नमः ।
ॐ तुरङ्गारूढायै नमः ।
ॐ तुलादानफलप्रदायै नमः ।
ॐ तुलामाघस्नानतुष्टायै नमः ।
ॐ तुष्टिपुष्टिप्रदायिन्यै नमः ।
ॐ तुरङ्गमप्रसन्तुष्टायै नमः ॥ १६०॥
ॐ तुलितायै नमः ।
ॐ तुल्यमध्यगायै नमः ।
ॐ तुङ्गोत्तुङ्गायै नमः ।
ॐ तुङ्गकुचायै नमः ।
ॐ तुहिनाचलसंस्थितायै नमः ।
ॐ तुम्बुरादिस्तुतिप्रीतायै नमः ।
ॐ तुषारशिखरीश्वर्यै नमः ।
ॐ तुष्टायै नमः ।
ॐ तुष्टिजनन्यै नमः ।
ॐ तुष्टलोकनिवासिन्यै नमः ॥ १७०॥
ॐ तुलाधारायै नमः ।
ॐ तुलामध्यायै नमः ।
ॐ तुलस्थायै नमः ।
ॐ तुर्यरूपिण्यै नमः ।
ॐ तुरीयगुणगम्भीरायै नमः ।
ॐ तुर्यनादस्वरूपिण्यै नमः ।
ॐ तुर्यविद्यालास्यतुष्टायै नमः ।
ॐ तुर्यशास्त्रार्थवादिन्यै नमः ।
ॐ तुरीयशास्त्रतत्त्वज्ञायै नमः ।
ॐ तूर्यवादविनोदिन्यै नमः ॥ १८०॥
ॐ तूर्यनादान्तनिलयायै नमः ।
ॐ तूर्यानन्दस्वरूपिण्यै नमः ।
ॐ तुरीयभक्तिजनन्यै नमः ।
ॐ तुर्यमार्गप्रदर्शिन्यै नमः ।
ॐ वकाररूपायै नमः ।
ॐ वागीश्यै नमः ।
ॐ वरेण्यायै नमः ।
ॐ वरसंविधायै नमः ।
ॐ वरायै नमः ।
ॐ वरिष्ठायै नमः ॥ १९०॥
ॐ वैदेह्यै नमः ।
ॐ वेदशास्त्रप्रदर्शिन्यै नमः ।
ॐ विकल्पशमन्यै नमः ।
ॐ वाण्यै नमः ।
ॐ वाञ्छितार्थफलप्रदायै नमः ।
ॐ वयस्थायै नमः ।
ॐ वयोमध्यायै नमः ।
ॐ वयोवस्थावर्जितायै नमः ।
ॐ वन्दिन्यै नमः ।
ॐ वादिन्यै नमः ॥ २००॥
ॐ वर्यायै नमः ।
ॐ वाङ्मय्यै नमः ।
ॐ वीरवन्दितायै नमः ।
ॐ वानप्रस्थाश्रमस्थायै नमः ।
ॐ वनदुर्गायै नमः ।
ॐ वनालयायै नमः ।
ॐ वनजाक्ष्यै नमः ।
ॐ वनचर्यै नमः ।
ॐ वनितायै नमः ।
ॐ विश्वमोहिन्यै नमः ॥ २१०॥
ॐ वशिष्ठवामदेवादिवन्द्यायै नमः ।
ॐ वन्द्यस्वरूपिण्यै नमः ।
ॐ वैद्यायै नमः ।
ॐ वैद्यचिकित्सायै नमः ।
ॐ वसुन्धरायै नमः ।
ॐ वषट्कार्यै नमः ।
ॐ वसुत्रात्रे नमः ।
ॐ वसुमात्रे नमः ।
ॐ वसुजन्मविमोचन्यै नमः ।
ॐ वसुप्रदायै नमः ॥ २२०॥
ॐ वासुदेव्यै नमः ।
ॐ वासुदेवमनोहर्यै नमः ।
ॐ वासवार्चितपादश्रियै नमः ।
ॐ वासवारिविनाशिन्यै नमः ।
ॐ वागीश्यै नमः ।
ॐ वाङ्मनस्थायिन्यै नमः ।
ॐ वशिन्यै नमः ।
ॐ वनवासभुवे नमः ।
ॐ वामदेव्यै नमः ।
ॐ वरारोहायै नमः ॥ २३०॥
ॐ वाद्यघोषणतत्परायै नमः ।
ॐ वाचस्पतिसमाराध्यायै नमः ।
ॐ वेदमात्रे नमः ।
ॐ विनोदिन्यै नमः ।
ॐ रेकाररूपायै नमः ।
ॐ रेवायै नमः ।
ॐ रेवातीरनिवासिन्यै नमः ।
ॐ राजीवलोचनायै नमः ।
ॐ रामायै नमः ।
ॐ रागिण्यै नमः ॥ २४०॥
ॐ रतिवन्दिताय नमः ।
ॐ रमण्यै नमः ।
ॐ रामजप्त्र्यै नमः ।
ॐ राज्यपायै नमः ।
ॐ रजिताद्रिगायै नमः ।
ॐ राकिण्यै नमः ।
ॐ रेवत्यै नमः ।
ॐ रक्षायै नमः ।
ॐ रुद्रजन्मायै नमः ।
ॐ रजस्वलायै नमः ॥ २५०॥
ॐ रेणुकारमण्यै नमः ।
ॐ रम्यायै नमः ।
ॐ रतिवृद्धायै नमः ।
ॐ रतायै नमः ।
ॐ रत्यै नमः ।
ॐ रावणानन्दसन्धायिन्यै नमः ।
ॐ राजश्रियै नमः ।
ॐ राजशेखर्यै नमः ।
ॐ रणमध्यायै नमः ।
ॐ रधारूढायै नमः ॥ २६०॥
ॐ रविकोटिअसमप्रभायै नमः ।
ॐ रविमण्डलमध्यस्थायै नमः ।
ॐ रजन्यै नमः ।
ॐ रविलोचनायै नमः ।
ॐ रथाङ्गपाण्यै नमः ।
ॐ रक्षोघ्न्यै नमः ।
ॐ रागिण्यै नमः ।
ॐ रावणार्चितायै नमः ।
ॐ रम्भादिकन्यकाराध्यायै नमः ।
ॐ राज्यदायै नमः ॥ २७०॥
ॐ रम्यायै नमः ।
ॐ राजवर्धिन्यै नमः ।
ॐ रजताद्रीशसक्थिस्थायै नमः ।
ॐ राजीवलोचनायै नमः ।
ॐ रम्यवाणै नमः ।
ॐ रमाराध्यायै नमः ।
ॐ राज्यधात्र्यै नमः ।
ॐ रतोत्सवायै नमः ।
ॐ रेवत्यै नमः ।
ॐ रतोत्साहायै नमः ॥ २८०॥
ॐ राजहृद्रोगहारिण्यै नमः ।
ॐ रङ्गप्रवृद्धमधुरायै नमः ।
ॐ रङ्गमण्डपमध्यगायै नमः ।
ॐ रञ्जितायै नमः ।
ॐ राजजनन्यै नमः ।
ॐ रम्यायै नमः ।
ॐ राकेन्दुमध्यगायै नमः ।
ॐ राविण्यै नमः ।
ॐ रागिण्यै नमः ।
ॐ रञ्ज्यायै नमः ॥ २९०॥
ॐ राजराजेश्वरार्चितायै नमः ।
ॐ राजन्वत्यै नमः ।
ॐ राजनीत्यै नमः ।
ॐ रजताचलवासिन्यै नमः ।
ॐ राघवार्चितपादश्रियै नमः ।
ॐ राघवायै नमः ।
ॐ राघवप्रियायै नमः ।
ॐ रत्ननूपुरमध्याढ्यायै नमः ।
ॐ रत्नद्वीपनिवासिन्यै नमः ।
ॐ रत्नप्राकारमद्यस्थायै नमः ॥ ३००॥
ॐ रत्नमण्डपमध्यगायै नमः ।
ॐ रत्नाभिषेकसन्तुष्टायै नमः ।
ॐ रत्नाङ्ग्यै नमः ।
ॐ रत्नदायिन्यै नमः ।
ॐ णिकाररूपिण्यै नमः ।
ॐ नित्यायै नमः ।
ॐ नित्यतृप्तायै नमः ।
ॐ निरञ्जनायै नमः ।
ॐ निद्रात्ययविशेषज्ञायै नमः ।
ॐ नीलजीमूतसन्निभायै नमः ॥ ३१०॥
ॐ नीवारशुकवत्तन्व्यै नमः ।
ॐ नित्यकल्याणरूपिण्यै नमः ।
ॐ नित्योत्सवायै नमः ।
ॐ नित्यपूज्यायै नमः ।
ॐ नित्यानन्दस्वरूपिण्यै नमः ।
ॐ निर्विकल्पायै नमः ।
ॐ निर्गुणस्थायै नमः ।
ॐ निश्चिन्तायै नमः ।
ॐ निरुपद्रवायै नमः ।
ॐ निस्संशयायै नमः ॥ ३२०॥
ॐ निरीहायै नमः ।
ॐ निर्लोभायै नमः ।
ॐ नीलमूर्धजायै नमः ।
ॐ निखिलागममध्यस्थायै नमः ।
ॐ निखिलागमसंस्थितायै नमः ।
ॐ नित्योपाधिविनिर्मुक्तायै नमः ।
ॐ नित्यकर्मफलप्रदायै नमः ।
ॐ नीलग्रीवायै नमः ।
ॐ निराहारायै नमः ।
ॐ निरञ्जनवरप्रदायै नमः ॥ ३३०॥
ॐ नवनीतप्रियायै नमः ।
ॐ नार्यै नमः ।
ॐ नरकार्णवतारिण्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ निरीहायै नमः ।
ॐ निर्मलायै नमः ।
ॐ निर्गुणप्रियायै नमः ।
ॐ निश्चिन्तायै नमः ।
ॐ निगमाचारनिखिलागमवेदिन्यै नमः ।
ॐ निमेषायै नमः ॥ ३४०॥
ॐ निमिषोत्पन्नायै नमः ।
ॐ निमेषाण्डविधायिन्यै नमः ।
ॐ निर्विघ्नायै नमः ।
ॐ निवातदीपमध्यस्थायै नमः ।
ॐ नीचनाशिन्यै नमः ।
ॐ नीचवेण्यै नमः ।
ॐ नीलखण्डायै नमः ।
ॐ निर्विषायै नमः ।
ॐ निष्कशोभितायै नमः ।
ॐ नीलांशुकपरीधानायै नमः ॥
ॐ निन्दघ्न्यै नमः ।
ॐ निरीश्वर्यै नमः ।
ॐ निश्वासोच्छ्वासमध्यस्थायै नमः ।
ॐ नित्ययानविलासिन्यै नमः ।
ॐ यङ्काररूपायै नमः ।
ॐ यन्त्रेश्यै नमः ।
ॐ यन्त्र्यै नमः ।
ॐ यन्त्रयशस्विन्यै नमः ।
ॐ यन्त्राराधनसन्तुष्टायै नमः ।
ॐ यजमानस्वरूपिण्यै नमः ॥ ३६०॥
ॐ योगिपूज्यायै नमः ।
ॐ यकारस्थायै नमः ।
ॐ यूपस्तम्भनिवासिन्यै नमः ।
ॐ यमग्नयै नमः ।
ॐ यमकल्पायै नमः ।
ॐ यशःकामायै नमः ।
ॐ यतीश्वर्यै नमः ।
ॐ यमादियोगनिरतायै नमः ।
ॐ यतिदुःखापहारिण्यै नमः ।
ॐ यज्ञायै नमः ॥ ३७०॥
ॐ यज्वने नमः ।
ॐ यजुर्गेयायै नमः ।
ॐ यज्ञेश्वरपतीव्रतायै नमः ।
ॐ यज्ञसूत्रप्रदायै नमः ।
ॐ यष्ट्र्यै नमः ।
ॐ यज्ञकर्मफलप्रदायै नमः ।
ॐ यवाङ्कुरप्रियायै नमः ।
ॐ यन्त्र्यै नमः ।
ॐ यवदघ्न्यै नमः ।
ॐ यवार्चितायै नमः ॥ ३८०॥
ॐ यज्ञकर्त्र्यै नमः ।
ॐ यज्ञभोक्त्र्यै नमः ।
ॐ यज्ञाङ्ग्यै नमः ।
ॐ यज्ञवाहिन्यै नमः ।
ॐ यज्ञसाक्षिण्यै नमः ।
ॐ यज्ञमुख्यै नमः ।
ॐ यजुष्यै नमः ।
ॐ यज्ञरक्षण्यै नमः ।
ॐ भकाररूपायै नमः ।
ॐ भद्रेश्यै नमः ॥ ३९०॥
ॐ भद्रकल्याणदायिन्यै नमः ।
ॐ भक्तप्रियायै नमः ।
ॐ भक्तसखायै नमः ।
ॐ भक्ताभीष्टस्वरूपिण्यै नमः ।
ॐ भगिन्यै नमः ।
ॐ भक्तसुलभायै नमः ।
ॐ भक्तिदायै नमः ।
ॐ भक्तवत्सलायै नमः ।
ॐ भक्तचैतन्यनिलयायै नमः ।
ॐ भक्तबन्धविमोचिन्यै नमः ॥ ४००॥
ॐ भक्तस्वरूपिण्यै नमः ।
ॐ भाग्यायै नमः ।
ॐ भक्तारोग्यप्रदायिन्यै नमः ।
ॐ भक्तमात्रे नमः ।
ॐ भक्तगम्यायै नमः ।
ॐ भक्ताभीष्टप्रदायिन्यै नमः ।
ॐ भास्कर्यै नमः ।
ॐ भैरव्यै नमः ।
ॐ भोग्यायै नमः ।
ॐ भवान्यै नमः ॥ ४१०॥
ॐ भयनाशिन्यै नमः ।
ॐ भद्रात्मिकायै नमः ।
ॐ भद्रदायिन्यै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ भयङ्कर्यै नमः ।
ॐ भगनिष्यन्दिन्यै नमः ।
ॐ भूम्न्यै नमः ।
ॐ भवबन्धविमोचिन्यै नमः ।
ॐ भीमायै नमः ।
ॐ भवसखायै नमः ॥ ४२०॥
ॐ भङ्ग्यै नमः ।
ॐ भङ्गुरायै नमः ।
ॐ भीमदर्शिन्यै नमः ।
ॐ भल्लयै नमः ।
ॐ भल्लीधरायै नमः ।
ॐ भीरवे नमः ।
ॐ भेरुण्डायै नमः ।
ॐ भीमपापघ्न्यै नमः ।
ॐ भावज्ञायै नमः ।
ॐ भोगदात्र्यै नमः ॥ ४३०॥
ॐ भवघ्नयै नमः ।
ॐ भूतिभूषणायै नमः ।
ॐ भूतिदायै नमः ।
ॐ भूमिदात्र्यै नमः ।
ॐ भूपतित्वप्रदायिन्यै नमः ।
ॐ भ्रामर्यै नमः ।
ॐ भ्रमर्यै नमः ।
ॐ भार्यै नमः ।
ॐ भवसागरतारिण्यै नमः ।
ॐ भण्डासुरवधोत्साहायै नमः ॥ ४४०॥
ॐ भाग्यदायै नमः ।
ॐ भावमोदिन्यै नमः ।
ॐ गोकाररूपायै नमः ।
ॐ गोमात्रे नमः ।
ॐ गुरुपत्न्यै नमः ।
ॐ गुरुप्रियायै नमः ।
ॐ गोरोचनप्रियायै नमः ।
ॐ गौर्यै नमः ।
ॐ गोविन्दगुणवर्धिन्यै नमः ।
ॐ गोपालचेष्टासन्तुष्टायै नमः ॥ ४५०॥
ॐ गोवर्धनविवर्धिन्यै नमः ।
ॐ गोविन्दरूपिण्यै नमः ।
ॐ गोप्त्र्यै नमः ।
ॐ गोकुलविवर्धिन्यै नमः ।
ॐ गीतायै नमः ।
ॐ गीताप्रियायै नमः ।
ॐ गेयायै नमः ।
ॐ गोदायै नमः ।
ॐ गोरूपधारिण्यै नमः ।
ॐ गोप्यै नमः ॥ ४६०॥
ॐ गोहत्याशमन्यै नमः ।
ॐ गुणिन्यै नमः ।
ॐ गुणिविग्रहायै नमः ।
ॐ गोविन्दजनन्यै नमः ।
ॐ गोष्ठायै नमः ।
ॐ गोप्रदायै नमः ।
ॐ गोकुलोत्सवायै नमः ।
ॐ गोचर्यै नमः ।
ॐ गौतम्यै नमः ।
ॐ गङ्गायै नमः ॥ ४७०॥
ॐ गोमुख्यै नमः ।
ॐ गुरुवासिन्यै नमः ।
ॐ गोपाल्यै नमः ।
ॐ गोमय्यै नमः ।
ॐ गुम्भायै नमः ।
ॐ गोष्ठ्यै नमः ।
ॐ गोपुरवासिन्यै नमः ।
ॐ गरुडायै नमः ।
ॐ गमनश्रेष्ठायै नमः ।
ॐ गारुडायै नमः ॥ ४८०॥
ॐ गरुडध्वजायै नमः ।
ॐ गम्भीरायै नमः ।
ॐ गण्डक्यै नमः ।
ॐ गुम्भायै नमः ।
ॐ गरुडध्वजवल्लभायै नमः ।
ॐ गगनस्थायै नमः ।
ॐ गयावासायै नमः ।
ॐ गुणवृत्त्यै नमः ।
ॐ गुणोद्भवायै नमः ।
ॐ देकाररूपायै नमः ॥ ४९०॥
ॐ देवेश्यै नमः ।
ॐ दृग्रूपायै नमः ।
ॐ देवतार्चितायै नमः ।
ॐ देवराजेश्वरार्धाङ्ग्यै नमः ।
ॐ दीनदैन्यविमोचन्यै नमः ।
ॐ देशकालपरिज्ञानायै नमः ।
ॐ देशोपद्रवनाशिन्यै नमः ।
ॐ देवमात्रे नमः ।
ॐ देवमोहायै नमः ।
ॐ देवदानवमोहिन्यै नमः ॥ ५००॥
ॐ देवेन्द्रार्चितपादश्रियै नमः ।
ॐ देवदेवप्रसादिन्यै नमः ।
ॐ देशान्तर्यै नमः ।
ॐ देवालयनिवासिन्यै नमः ।
ॐ देशरूपायै नमः ।
ॐ देशभ्रमणसन्तुष्टायै नमः ।
ॐ देशस्वास्थ्यप्रदायिन्यै नमः ।
ॐ देवयानायै नमः ।
ॐ देवतायै नमः ।
ॐ देवसैन्यप्रपालिन्यै नमः ॥ ५१०॥
ॐ वकाररूपायै नमः ।
ॐ वाग्देव्यै नमः ।
ॐ वेदमानसगोचरायै नमः ।
ॐ वैकुण्ठदेशिकायै नमः ।
ॐ वेद्यायै नमः ।
ॐ वायुरूपायै नमः ।
ॐ वरप्रदायै नमः ।
ॐ वक्रतुण्डार्चितपदायै नमः ।
ॐ वक्रतुण्डप्रसादिन्यै नमः ।
ॐ वैचित्ररूपायै नमः ॥ ५२०॥
ॐ वसुधायै नमः ।
ॐ वसुस्थानायै नमः ।
ॐ वसुप्रियायै नमः ।
ॐ वषट्कारस्वरूपायै नमः ।
ॐ वरारोहायै नमः ।
ॐ वरासनायै नमः ।
ॐ वैदेहीजनन्यै नमः ।
ॐ वेद्यायै नमः ।
ॐ वैदेहीशोकनाशिन्यै नमः ।
ॐ वेदमात्रे नमः ॥ ५३०॥
ॐ वेदकन्यायै नमः ।
ॐ वेदरूपायै नमः ।
ॐ विनोदिन्यै नमः ।
ॐ वेदान्तवादिन्यै नमः ।
ॐ वेदान्तनिलयप्रियायै नमः ।
ॐ वेदश्रवायै नमः ।
ॐ वेदघोषायै नमः ।
ॐ वेदगीतविनोदिन्यै नमः ।
ॐ वेदशास्त्रार्थतत्त्वज्ञायै नमः ।
ॐ वेदमार्गप्रदर्शन्यै नमः ॥ ५४०॥
ॐ वैदिकीकर्मफलदायै नमः ।
ॐ वेदसागरवाडवायै नमः ।
ॐ वेदवन्द्यायै नमः ।
ॐ वेदगुह्यायै नमः ।
ॐ वेदाश्वरथवाहिन्यै नमः ।
ॐ वेदचक्रायै नमः ।
ॐ वेदवन्द्यायै नमः ।
ॐ वेदाङ्ग्यै नमः ।
ॐ वेदवित्कवयै नमः ।
ॐ सकाररूपायै नमः ॥ ५५०॥
ॐ सामन्तायै नमः ।
ॐ सामगानविचक्षणायै नमः ।
ॐ साम्राज्ञै नमः ।
ॐ सामरूपायै नमः ।
ॐ सदानन्दप्रदायिन्यै नमः ।
ॐ सर्वदृक्सन्निविष्टायै नमः ।
ॐ सर्वसम्प्रेषिण्यै नमः ।
ॐ सहायै नमः ।
ॐ सव्यापसव्यदायै नमः ।
ॐ सव्यसध्रीच्यै नमः ॥ ५६०॥
ॐ सहायिन्यै नमः ।
ॐ सकलायै नमः ।
ॐ सागरायै नमः ।
ॐ सारायै नमः ।
ॐ सार्वभौमस्वरूपिण्यै नमः ।
ॐ सन्तोषजनन्यै नमः ।
ॐ सेव्यायै नमः ।
ॐ सर्वेश्यै नमः ।
ॐ सर्वरञ्जन्यै नमः ।
ॐ सरस्वत्यै नमः ॥ ५७०॥
ॐ समाराध्यायै नमः ।
ॐ सामदायै नमः ।
ॐ सिन्धुसेवितायै नमः ।
ॐ सम्मोहिन्यै नमः ।
ॐ सदामोहायै नमः ।
ॐ सर्वमाङ्गल्यदायिन्यै नमः ।
ॐ समस्तभुवनेशान्यै नमः ।
ॐ सर्वकामफलप्रदायै नमः ।
ॐ सर्वसिद्धिप्रदायै नमः ।
ॐ साध्व्यै नमः ॥ ५८०॥
ॐ सर्वज्ञानप्रदायिन्यै नमः ।
ॐ सर्वदारिद्र्यशमन्यै नमः ।
ॐ सर्वदुःखविमोचन्यै नमः ।
ॐ सर्वरोगप्रशमन्यै नमः ।
ॐ सर्वपापविमोचन्यै नमः ।
ॐ समदृष्ट्यै नमः ।
ॐ समगुणाय नमः ।
ॐ सर्वगोप्त्र्यै नमः ।
ॐ सहायिन्यै नमः ।
ॐ सामर्थ्यवाहिन्यै नमः ॥ ५९०॥
ॐ सङ्ख्यायै नमः ।
ॐ सान्द्रानन्दपयोधरायै नमः ।
ॐ सङ्कीर्णमन्दिरस्थानायै नमः ।
ॐ साकेतकुलपालिन्यै नमः ।
ॐ संहारिण्यै नमः ।
ॐ सुधारूपायै नमः ।
ॐ साकेतपुरवासिन्यै नमः ।
ॐ सम्बोधिन्यै नमः ।
ॐ समस्तेश्यै नमः ।
ॐ सत्यज्ञानस्वरूपिण्यै नमः ॥ ६००॥
ॐ सम्पत्कर्यै नमः ।
ॐ समानाङ्ग्यै नमः ।
ॐ सर्वभावसुसंस्थितायै नमः ।
ॐ सन्ध्यावन्दनसुप्रीतायै नमः ।
ॐ सन्मार्गकुलपालिन्यै नमः ।
ॐ सञ्जीवन्यै नमः ।
ॐ सर्वमेधायै नमः ।
ॐ सभ्यायै नमः ।
ॐ साधुपूजितायै नमः ।
ॐ समिद्धायै नमः ॥ ६१०॥
ॐ सामिधेन्यै नमः ।
ॐ सामान्यायै नमः ।
ॐ सामवेदिन्यै नमः ।
ॐ समुत्तीर्णायै नमः ।
ॐ सदाचारायै नमः ।
ॐ संहारायै नमः ।
ॐ सर्वपावन्यै नमः ।
ॐ सर्पिण्यै नमः ।
ॐ सर्पमात्रे नमः ।
ॐ सामगानसुखप्रदायै नमः ॥ ६२०॥
ॐ सर्वरोगप्रशमन्यै नमः ।
ॐ सर्वज्ञत्वफलप्रदायै नमः ।
ॐ सङ्क्रमायै नमः ।
ॐ समदायै नमः ।
ॐ सिन्धवे नमः ।
ॐ सर्गादिकरणक्षमायै नमः ।
ॐ सङ्कटायै नमः ।
ॐ सङ्कटहरायै नमः ।
ॐ सकुङ्कुमविलेपनायै नमः ।
ॐ सुमुखायै नमः ॥ ६३०॥
ॐ सुमुखप्रीतायै नमः ।
ॐ समानाधिकवर्जितायै नमः ।
ॐ संस्तुतायै नमः ।
ॐ स्तुतिसुप्रीतायै नमः ।
ॐ सत्यवादिन्यै नमः ।
ॐ सदास्पदायै नमः ।
ॐ धिकाररूपायै नमः ।
ॐ धीमात्रे नमः ।
ॐ धीरायै नमः ।
ॐ धीरप्रसादिन्यै नमः ॥ ६४०॥
ॐ धीरोत्तमायै नमः ।
ॐ धीरधीरायै नमः ।
ॐ धीरस्थायै नमः ।
ॐ धीरशेखरायै नमः ।
ॐ धृतिरूपायै नमः ।
ॐ धनाढ्यायै नमः ।
ॐ धनपायै नमः ।
ॐ धनदायिन्यै नमः ।
ॐ धीरूपायै नमः ।
ॐ धिरवन्द्यायै नमः ॥ ६५०॥
ॐ धीप्रभायै नमः ।
ॐ धीरमानसायै नमः ।
ॐ धीगेयायै नमः ।
ॐ धीपदस्थायै नमः ।
ॐ धीशानायै नमः ।
ॐ धीप्रसादिन्यै नमः ।
ॐ मकररूपायै नमः ।
ॐ मैत्रेयायै नमः ।
ॐ महामङ्गलदेवतायै नमः ।
ॐ मनोवैकल्यशमन्यै नमः ॥ ६६०॥
ॐ मलयाचलवासिन्यै नमः ।
ॐ मलयध्वजराजश्रियै नमः ।
ॐ मायायै नमः ।
ॐ मोहविभेदिन्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ महारूपायै नमः ।
ॐ महाभैरवपूजितायै नमः ।
ॐ मनुप्रीतायै नमः ।
ॐ मन्त्रमूर्त्यै नमः ।
ॐ मन्त्रवश्यायै नमः ॥ ६७०॥
ॐ महेश्वर्यै नमः ।
ॐ मत्तमातङ्गगमनायै नमः ।
ॐ मधुरायै नमः ।
ॐ मेरुमण्टपायै नमः ।
ॐ महागुप्तायै नमः ।
ॐ महाभूतमहाभयविनाशिन्यै नमः ।
ॐ महाशौर्यायै नमः ।
ॐ मन्त्रिण्यै नमः ।
ॐ महावैरिविनाशिन्यै नमः ।
ॐ महालक्ष्म्यै नमः ॥ ६८०॥
ॐ महागौर्यै नमः ।
ॐ महिषासुरमर्दिन्यै नमः ।
ॐ मह्यै नमः ।
ॐ मण्डलस्थायै नमः ।
ॐ मधुरागमपूजितायै नमः ।
ॐ मेधायै नमः ।
ॐ मेधाकर्यै नमः ।
ॐ मेध्यायै नमः ।
ॐ माधव्यै नमः ।
ॐ मधुमर्दिन्यै नमः ॥ ६९०॥
ॐ मन्त्रायै नमः ।
ॐ मन्त्रमय्यै नमः ।
ॐ मान्यायै नमः ।
ॐ मायायै नमः ।
ॐ माधवमन्त्रिण्यै नमः ।
ॐ मायादूरायै नमः ।
ॐ मायाव्यै नमः ।
ॐ मायाज्ञायै नमः ।
ॐ मानदायिन्यै नमः ।
ॐ मायासङ्कल्पजनन्यै नमः ॥ ७००॥
ॐ मायामयाविनोदिन्यै नमः ।
ॐ मायाप्रपञ्चशमन्यै नमः ।
ॐ मायासंहाररूपिण्यै नमः ।
ॐ मायामन्त्रप्रसादायै नमः ।
ॐ मायाजनविमोहिन्यै नमः ।
ॐ महापथायै नमः ।
ॐ महाभोगायै नमः ।
ॐ महाविघ्नविनाशिन्यै नमः ।
ॐ महानुभावायै नमः ।
ॐ मन्त्रढ्यायै नमः ॥ ७१०॥
ॐ महामङ्गलदेवतायै नमः ।
ॐ ह्रींकाररूपायै नमः ।
ॐ हृद्यायै नमः ।
ॐ हितकार्यप्रवर्धिन्यै नमः ।
ॐ हेयोपाधिविनिर्मुक्तायै नमः ।
ॐ हीनलोकविनाशिन्यै नमः ।
ॐ ह्रींकार्यै नमः ।
ॐ ह्रींमत्यै नमः ।
ॐ हृद्यायै नमः ।
ॐ ह्रींदेव्यै नमः ॥ ७२०॥
ॐ ह्रींस्वभाविन्यै नमः ।
ॐ ह्रींमन्दिरायै नमः ।
ॐ हितकरायै नमः ।
ॐ हृष्टायै नमः ।
ॐ ह्रींकुलोद्भवायै नमः ।
ॐ हितप्रज्ञायै नमः ।
ॐ हितप्रीतायै नमः ।
ॐ हितकारुण्यवर्धिन्यै नमः ।
ॐ हितासिन्यै नमः ।
ॐ हितक्रोधायै नमः ॥ ७३०॥
ॐ हितकर्मफलप्रदायै नमः ।
ॐ हिमायै नमः ।
ॐ हैमवत्यै नमः ।
ॐ हैम्न्यै नमः ।
ॐ हेमाचलनिवासिन्यै नमः ।
ॐ हिमगजायै नमः ।
ॐ हितकर्यै नमः ।
ॐ हितायै नमः ।
ॐ हितकर्मस्वभाविन्यै नमः ।
ॐ धिकाररूपायै नमः ॥ ७४०॥
ॐ धिषणायै नमः ।
ॐ धर्मरूपायै नमः ।
ॐ धनुर्धरायै नमः ।
ॐ धराधारायै नमः ।
ॐ धर्मकर्मफलप्रदायै नमः ।
ॐ धर्माचारायै नमः ।
ॐ धर्मसारायै नमः ।
ॐ धर्ममध्यनिवासिन्यै नमः ।
ॐ धनुर्विद्यायै नमः ॥ ७५०॥
ॐ धनुर्वेदायै नमः ।
ॐ धन्यायै नमः ।
ॐ धूर्तविनाशिन्यै नमः ।
ॐ धनधान्यायै नमः ।
ॐ धेनुरूपायै नमः ।
ॐ धनाढ्यायै नमः ।
ॐ धनदायिन्यै नमः ।
ॐ धनेश्यै नमः ।
ॐ धर्मनिरतायै नमः ।
ॐ धर्मराजप्रसादिन्यै नमः ॥ ७६०॥
ॐ धर्मस्वरूपायै नमः ।
ॐ धर्मेश्यै नमः ।
ॐ धर्माधर्मविचारिण्यै नमः ।
ॐ धर्मसूक्ष्मायै नमः ।
ॐ धर्मगेहायै नमः ।
ॐ धर्मिष्ठायै नमः ।
ॐ धर्मगोचरायै नमः ।
ॐ योकाररूपायै नमः ।
ॐ योगेश्यै नमः ।
ॐ योगस्थायै नमः ॥ ७७०॥
ॐ योगरूपिण्यै नमः ।
ॐ योग्यायै नमः ।
ॐ योगीशवरदायै नमः ।
ॐ योगमार्गनिवासिन्यै नमः ।
ॐ योगासनस्थायै नमः ।
ॐ योगेश्यै नमः ।
ॐ योगमायाविलासिन्यै नमः ।
ॐ योगिन्यै नमः ।
ॐ योगरक्तायै नमः ।
ॐ योगाङ्ग्यै नमः ॥ ७८०॥
ॐ योगविग्रहायै नमः ।
ॐ योगवासायै नमः ।
ॐ योगभोग्यायै नमः ।
ॐ योगमार्गप्रदर्शिन्यै नमः ।
ॐ योकाररूपायै नमः ।
ॐ योधाढ्यायै नमः ।
ॐ योध्र्यै नमः ।
ॐ योधसुततत्परायै नमः ।
ॐ योगिन्यै नमः ।
ॐ योगिनीसेव्यायै नमः ॥ ७९०॥
ॐ योगज्ञानप्रबोधिन्यै नमः ।
ॐ योगेश्वरप्राणनाथायै नमः ।
ॐ योगीश्वरहृदिस्थितायै नमः ।
ॐ योगायै नमः ।
ॐ योगक्षेमकर्त्र्यै नमः ।
ॐ योगक्षेमविधायिन्यै नमः ।
ॐ योगराजेश्वराराध्यायै नमः ।
ॐ योगानन्दस्वरूपिण्यै नमः ।
ॐ नकाररूपायै नमः ।
ॐ नादेश्यै नमः ॥ ८००॥
ॐ नामपारायणप्रियायै नमः ।
ॐ नवसिद्धिसमाराध्यायै नमः ।
ॐ नारायणमनोहर्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ नवाधारायै नमः ।
ॐ नवब्रह्मार्चिताङ्घ्रिकायै नमः ।
ॐ नगेन्द्रतनयाराध्यायै नमः ।
ॐ नामरूपविवर्जितायै नमः ।
ॐ नरसिंहार्चितपदायै नमः ।
ॐ नवबन्धविमोचन्यै नमः ॥ ८१०॥
ॐ नवग्रहार्चितपदायै नमः ।
ॐ नवमीपूजनप्रियायै नमः ।
ॐ नैमित्तिकार्थफलदायै नमः ।
ॐ नन्दितारिविनाशिन्यै नमः ।
ॐ नवपीठस्थितायै नमः ।
ॐ नादायै नमः ।
ॐ नवर्षिगणसेवितायै नमः ।
ॐ नवसूत्रविधानज्ञायै नमः ।
ॐ नैमिषारण्यवासिन्यै नमः ।
ॐ नवचन्दनदिग्धाङ्गायै नमः ॥ ८२०॥
ॐ नवकुङ्कुमधारिण्यै नमः ।
ॐ नववस्त्रपरीधानायै नमः ।
ॐ नवरत्नविभूषणायै नमः ।
ॐ नव्यभस्मविदिग्धाङ्गायै नमः ।
ॐ नवचन्द्रकलाधरायै नमः ।
ॐ प्रकाररूपायै नमः ।
ॐ प्राणेश्यै नमः ।
ॐ प्राणसंरक्षण्यै नमः ।
ॐ पराय नमः ।
ॐ प्राणसञ्जीविन्यै नमः ॥ ८३०॥
ॐ प्राच्यायै नमः ।
ॐ प्राणिप्राणप्रबोधिन्यै नमः ।
ॐ प्रज्ञायै नमः ।
ॐ प्राज्ञायै नमः ।
ॐ प्रभापुष्पायै नमः ।
ॐ प्रतीच्यै नमः ।
ॐ प्रभुदायै नमः ।
ॐ प्रियायै नमः ।
ॐ प्राचीनायै नमः ।
ॐ प्राणिचित्तस्थायै नमः ॥ ८४०॥
ॐ प्रभायै नमः ।
ॐ प्रज्ञानरूपिण्यै नमः ।
ॐ प्रभातकर्मसन्तुष्टायै नमः ।
ॐ प्राणायामपरायणायै नमः ।
ॐ प्रायज्ञायै नमः ।
ॐ प्रणवायै नमः ।
ॐ प्राणायै नमः ।
ॐ प्रवृत्त्यैनमः ।
ॐ प्रकृत्यै नमः ।
ॐ परायै नमः ॥ ८५०॥
ॐ प्रबन्धायै नमः ।
ॐ प्रथमायै नमः ।
ॐ प्रगायै नमः ।
ॐ प्रारब्धनाशिन्यै नमः ।
ॐ प्रबोधनिरतायै नमः ।
ॐ प्रेक्ष्यायै नमः ।
ॐ प्रबन्धायै नमः ।
ॐ प्राणसाक्षिण्यै नमः ।
ॐ प्रयागतीर्थनिलयायै नमः ।
ॐ प्रत्यक्षपरमेश्वर्यै नमः ॥ ८६०॥
ॐ प्रणवाद्यन्तनिलयायै नमः ।
ॐ प्रणवादये नमः ।
ॐ प्रजेश्वर्यै नमः ।
ॐ चोकाररूपायै नमः ।
ॐ चोरध्न्यै नमः ।
ॐ चोरबाधाविनाशिन्यै नमः ।
ॐ चैतन्यायै नमः ।
ॐ चेतनस्थायै नमः ।
ॐ चतुरायै नमः ।
ॐ चमत्कृत्यै नमः ॥ ८७०॥
ॐ चक्रवर्तिकुलाधारायै नमः ।
ॐ चक्रिण्यै नमः ।
ॐ चक्रधारिण्यै नमः ।
ॐ चित्तगेयायै नमः ।
ॐ चिदानन्दायै नमः ।
ॐ चिद्रूपायै नमः ।
ॐ चिद्विलासिन्यै नमः ।
ॐ चिन्तायै नमः ।
ॐ चित्तप्रशमन्यै नमः ।
ॐ चिन्तितार्थफलप्रदायै नमः ॥ ८८०॥
ॐ चाम्पेय्यै नमः ।
ॐ चम्पकप्रीतायै नमः ।
ॐ चण्ड्यै नमः ।
ॐ चण्डाट्टहासिन्यै नमः ।
ॐ चण्डेश्वर्यै नमः ।
ॐ चण्डमात्रे नमः ।
ॐ चण्डमुण्डविनाशिन्यै नमः ।
ॐ चकोराक्ष्यै नमः ।
ॐ चिरप्रीतायै नमः ।
ॐ चिकुरायै नमः ॥ ८९०॥
ॐ चिकुरालकायै नमः ।
ॐ चैतन्यरूपिण्यै नमः ।
ॐ चैत्र्यै नमः ।
ॐ चेतनायै नमः ।
ॐ चित्तसाक्षिण्यै नमः ।
ॐ चित्रायै नमः ।
ॐ चित्रविचित्राङ्ग्यै नमः ।
ॐ चित्रगुप्तप्रसादिन्यै नमः ।
ॐ चलनायै नमः ।
ॐ चक्रसंस्थायै नमः ॥ ९००॥
ॐ चाम्पेय्यै नमः ।
ॐ चलचित्रिण्यै नमः ।
ॐ चन्द्रमण्डलमध्यस्थायै नमः ।
ॐ चन्द्रकोटिसुशीतलायै नमः ।
ॐ चन्दानुजसमाराध्यायै नमः ।
ॐ चन्द्रायै नमः ।
ॐ चण्डमहोदर्यै नमः ।
ॐ चर्चितारये नमः ।
ॐ चन्द्रमात्रे नमः ।
ॐ चन्द्रकान्तायै नमः ॥ ९१०॥
ॐ चलेश्वर्यै नमः ।
ॐ चराचरनिवासिन्यै नमः ।
ॐ चक्रपाणिसहोदर्यै नमः ।
ॐ दकाररूपायै नमः ।
ॐ दत्तश्रिये नमः ।
ॐ दारिद्र्यच्छेदकारिण्यै नमः ।
ॐ दत्तात्रेयवरदायै नमः ।
ॐ दर्यायै नमः ।
ॐ दीनवत्सलायै नमः ।
ॐ दक्षाराध्यायै नमः ॥ ९२०॥
ॐ दक्षकन्यायै नमः ।
ॐ दक्षयज्ञविनाशिन्यै नमः ।
ॐ दक्षायै नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ दीक्षायै नमः ।
ॐ दृष्टायै नमः ।
ॐ दक्षवरप्रदायै नमः ।
ॐ दक्षिणायै नमः ।
ॐ दक्षिणाराध्यायै नमः ।
ॐ दक्षिणामूर्तिरूपिण्यै नमः ॥ ९३०॥
ॐ दयावत्यै नमः ।
ॐ दमस्वान्तायै नमः ।
ॐ दनुजारये नमः ।
ॐ दयानिधये नमः ।
ॐ दन्तशोभनिभायै नमः ।
ॐ देव्यै नमः ।
ॐ दमनायै नमः ।
ॐ दाडीमस्तनायै नमः ।
ॐ दण्डायै नमः ।
ॐ दमयित्र्यै नमः ॥ ९४०॥
ॐ दण्डिन्यै नमः ।
ॐ दमनप्रियायै नमः ।
ॐ दण्डकारण्यनिलयायै नमः ।
ॐ दण्डकारिविनाशिन्यै नमः ।
ॐ दंष्ट्राकरालवदनार्ये नमः ।
ॐ दण्डशोभायै नमः ।
ॐ दरोदर्यै नमः ।
ॐ दरिद्रारिष्टशमन्यै नमः ।
ॐ दम्यायै नमः ।
ॐ दमनपूजितायै नमः ॥ ९५०॥
ॐ दानवार्चितपादश्रिये नमः ।
ॐ द्रविणायै नमः ।
ॐ द्राविण्यै नमः ।
ॐ दयायै नमः ।
ॐ दामोदर्यै नमः ।
ॐ दानवारये नमः ।
ॐ दामोदरसहोदर्यै नमः ।
ॐ दात्र्यै नमः ।
ॐ दानप्रियायै नमः ।
ॐ दाम्न्यै नमः ॥ ९६०॥
ॐ दानश्रियै नमः ।
ॐ द्विजवन्दितायै नमः ।
ॐ दन्तिगायै नमः ।
ॐ दण्डिन्यै नमः ।
ॐ दूर्वायै नमः ।
ॐ दधिदुग्धस्वरूपिण्यै नमः ।
ॐ दाडिमीबीजसन्दोहायै नमः ।
ॐ दन्तपङ्क्तिविराजितायै नमः ।
ॐ दर्पणायै नमः ।
ॐ दर्पणस्वच्छायै नमः ॥ ९७०॥
ॐ द्रुममण्डलवासिन्यै नमः ।
ॐ दशावतारजनन्यै नमः ।
ॐ दशदिग्दैवपूजितायै नमः ।
ॐ दमायै नमः ।
ॐ दशदिशायै नमः ।
ॐ दृष्यायै नमः ।
ॐ दशदास्यै नमः ।
ॐ दयानिधये नमः ।
ॐ देशकालपरिज्ञानायै नमः ।
ॐ देशकालविशोधिन्यै नमः ॥ ९८०॥
ॐ दशम्यादिकलाराध्यायै नमः ।
ॐ दशग्रीवविरोधिन्यै नमः ।
ॐ दशापराधशमन्यै नमः ।
ॐ दशवृत्तिफलप्रदायै नमः ।
ॐ यात्काररूपिण्यै नमः ।
ॐ याज्ञ्यै नमः ।
ॐ यादव्यै नमः ।
ॐ यादवार्चितायै नमः ।
ॐ ययातिपूजनप्रितायै नमः ।
ॐ याज्ञक्यै नमः ॥ ९९०॥
ॐ याजकप्रियायै नमः ।
ॐ यजमानायै नमः ।
ॐ यदुप्रितायै नमः ।
ॐ यामपूजाफलप्रदायै नमः ।
ॐ यशस्विन्यै नमः ।
ॐ यमाराध्यायै नमः ।
ॐ यमकन्यायै नमः ।
ॐ यतीश्वर्यै नमः ।
ॐ यमादियोगसन्तुष्टायै नमः ।
ॐ योगीन्द्रहृदयायै नमः ॥ १०००॥
ॐ यमायै नमः ।
ॐ यमोपाधिविनिर्मुक्तायै नमः ।
ॐ यशस्यविधिसन्नुतायै नमः ।
ॐ यवीयस्यै नमः ।
ॐ युवप्रितायै नमः ।
ॐ यात्रानन्दायै नमः ।
ॐ योगप्रियायै नमः ।
ॐ योगगम्यायै नमः ।
ॐ योगध्येयायै नमः ॥ १०१०॥
ॐ यथेच्छगायै नमः ।
ॐ यागप्रियायै नमः ।
ॐ यज्ञसेन्यै नमः ।
ॐ योगरूपायै नमः ।
ॐ यथेष्टदायै नमः ।
॥ इति श्रीगायत्री दिव्यसहस्रनामावलिः समाप्ता ॥
Proofread by Ravin Bhalekar
ravibhalekar@hotmail.com