गायत्रीरामायणम् २
(गायत्रीमन्त्र अक्षराणां(वर्णानां) श्रीमद् वाल्मीकिरामायणे सङ्क्शेपरामायणे प्रदर्शिताः)
श्रीमद् बालकाण्डे प्रथमसर्गादौ - १-१-१
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । (अत्र तकारः गायत्री प्रथमाक्षरम्- त)
नारदं परिपप्रच्छ वाल्मिकिर्मुनिपुङ्गवम् ॥ १॥
श्रीमद् बालकाण्डे त्रिंशे सर्गे -१-३०-१८(१९)
स तेन परमास्त्रेण मानवेन समाहतः । (अत्र सकार गायत्री द्वितीयक्षरं -स)
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥ २॥
श्रीमद् बालकाण्डे त्रिषष्टितमे सर्गे -१-६३-३ -४
विश्वामित्रो महातेजा भूयस्तेपे महातपाः । (अत्रतृतीयाक्षरं -वि)
ततः कालेन महता मेनका परमाप्सरः ॥ ३॥
अयोध्या काण्डे चतुर्दशे सर्गे -२-१४-३६
चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् । (अत्रचतुर्थाक्ष्रं - तु)
वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ॥ ४॥
अयोध्या काण्डे चतुश्चत्वारिंशे सर्गे- २-४४-५
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदाऽनघः । (अत्रगायत्र्या पञ्चमाक्षरं -व)
दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५॥
अयोध्या काण्डे एकसप्ततितमे सर्गे -२-७१-३३
द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः । (अत्ररे इति षष्टाक्षरं - रे)
द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ ॥ ६॥
अयोध्या काण्डे एकोनशततमे सर्गे -२-९९-२५
उटजे राममासीनं जटामण्डलधारिणम् । (अत्रप्रथमे पादे सप्तमाक्षरं - ण)
तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ॥ ७॥
आरण्य काण्डे द्वादशे सर्गे ३ -१२-४
ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । (अत्राष्टमाक्षरं - यं)
द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ८॥
आरण्य काण्डे सप्तचत्वारिंशे सर्गे ३-४७-१०
मम भर्ता महातेजा वयसा पञ्चविंशकः । (अत्रनवमाक्षरं - भ)
अष्टादश हि वर्षाणि मम जन्म न गण्यते ॥ ९॥
श्रीमत्किष्किन्धा काण्डे चतुर्थे सर्गे ४-४-३
ततः परमसंहृष्टो हनुमान् प्लवगर्षभः । (अत्र दशमाक्षरं -ग)
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ १०॥
श्रीमत्किष्किन्धा काण्डे एकत्रिंशे सर्गे ४-३१-१
सकामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् । (अत्र गायत्र्या एकादशाक्षरं - दे)
नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥ ११॥
श्रीमत्सुन्दरकाण्डे प्रथमसर्गादौ ५-१-१
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः । (अत्रगायत्र्या द्वादशाक्षरं- व)
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ १२॥
श्रीमत्सुन्दरकाण्डे सप्तविंशे सर्गे त्रिजटास्वप्ने ५-२७-१३
ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः । (अत्रगायत्र्या त्रयोदशाक्षरं - स्य)
भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता ॥ १३॥
श्रीमत्सुन्दरकाण्डे षट्चत्वारिंशे सर्गे ५-४६-१०
नावमान्यो भवद्भिश्च हरिर्धीरपराक्रमः । (अत्रगायत्र्या चतुर्दशाक्षरं - धी)
दृष्टा हि हरयः सर्वे मया विपुलविक्रमाः ॥ १४॥
श्रीमद्युद्धकाण्डे प्रथमसर्गादौ ६-१-१
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् । (अत्रगायत्र्या पञ्चदशाक्षरं -म)
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ १५॥
श्रीमद्युद्धकाण्डे अष्टाविंशेसर्गे ६-२८-२६ -२७ रावणं प्रति शुकः
रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः । (अत्रगायत्र्या षोडशाक्षरं - हि)
श्रीमता राजराजेन लङ्कायामभिषेचितः ॥ १६॥
श्रीमद्युध्दकाण्डे पञ्चाशेसर्गे नागपाशविमोचनसमये ६-५०-४०
तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः । (अत्रगायत्र्याःसप्तदशाक्षरं -धी (धि))
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ॥ १७॥
श्रीमद्युध्दकाण्डे अष्टषष्टितमेसर्गे ६-६८-१
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना । (अत्रगायत्र्याःअष्टादशाक्षरं -य (यो))
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ १८॥
श्रीमद्युध्दकाण्डे एकाशीतितमेसर्गे ६-८१-१
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । (अत्रगायत्र्याः एकोनविंशतितमाक्षरं- य)
सन्निवृत्याहवात्तस्मात्प्रविवेश पुरीं तदा (ततः) ॥ १९॥
श्रीमद् युध्दकाण्डे द्वादशशततमेसर्गे ६-११२-२५ (गीताप्रेस् ६-१११-१००)
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् । (अत्रगायत्र्याः विंशतितमाक्षरं -नः)
क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ २०॥
उत्तरश्रीरामायणे प्रथमसर्गादौ ७-१-१
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । (अत्रगायत्र्याःएकविंशाक्षरं - प्र)
आजग्मू ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ २१॥
उत्तरश्रीरामयणे द्वाविंशेसर्गे ७-२२-७(८)
ततःप्राचोदयत्सूतस्तान्हयान्नुधिरप्रभान् । (अत्र गायत्र्याः द्वाविंशाक्षरं- चो)
??tataH prAchodayatsUtastaanhayAnnuchiraprabhAn?
प्रययौ भीमसन्नादो यत्र रक्षपतिः स्थितः ॥ २२॥
उत्तरश्रीरामायणे एकचत्वारिंशादौ ७-४१-१
विसृज्य च महाबाहुः ऋक्षवानरराक्षसान् । (अत्रगायत्र्याः त्रयोविंशाक्षरं -द)
भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ २३॥
उत्तरश्रीरामायणे षट्सप्ततित,एसर्गे ७-७६-२७ -२८
ब्राह्मणस्य च धर्मेण त्वया वै जीवितः सुतः । (अत्रगायत्र्याःचतुर्विंशाक्षरं -या)
उष्यतां चैव रजनीं सकाशे मम राघव ॥ २४॥
This Gayatri Ramayana, as proposed by Vidyaranya in the text
rAmAyaNarahasyamvidyAraNya, is different than commonly conveyed
based on the first letter of the shlokas chosen. In the commentary
of rAmAyaNarahasyam, it is mentioned that these verses are
in the Sankshepa Ramayanam.
The numbers correspond to sarga.adhyAya.shloka.
Encoded and proofread by Sunder Hattangadi