श्रीअरविन्दकृतं दुर्गास्तोत्रम्
ॐ मातर्दुर्गे! सिंहवाहिनि सर्वशक्तिप्रदायिनि मातः शिवप्रिये तव
शक्त्यंशजा वयं भारतवर्षस्य युवानः त्वन्मन्दिरे समासीनाः त्वां
प्रार्थयामहे ॥
शृणु मातः आविर्भव भारते वर्षे प्रकाशमाना भव ।
मातर्दुर्गे! युगे युगे मानवीं तनुं धृत्वा जन्मनि जन्मनि तवैव
कर्म कृत्वा च त्वदानन्दधाम प्रतियाम। एतर्ह्यपि जन्मजुषो वयं
त्वदेककार्यव्रतिन एव शृणु मातः आविर्भव भारते अस्मत्सहाया भव ॥
मातर्दुर्गे! सिंहवाहिनि त्रिशूलधारिणि वर्मावृतसुन्दरशरीरे मातः
जयदायिनि त्वत्प्रतीक्षापरं ह्यद्य भारतं तामेव ते मङ्गलमयीं
मूर्तिं वीक्षितुं समुत्सुकम् । शृणु मातः प्रादुर्भव भारते वर्षे
प्रकाशस्व ॥
मातर्दुर्गे! बलदायिनि प्रेमदायिनि ज्ञानदायिनि शक्तिस्वरूपे भीमे
सौम्य-रौद्र-रूपे जीवन-सङ्घर्षे भारत-सङ्ग्रामे च त्वत्प्रेरिता
योद्धारो वयम् । देहि मातः प्राणमनसोरसुरस्य शक्तिं असुरस्योद्यमं
देहि मातः बुद्धिचित्तयोर्देवस्य चरित्रं देवस्य ज्ञानम् ॥
मातर्दुर्गे! जगदग्रगण्या भारतजातिर्ननु समाच्छन्नासीन्निबिडतमसा ।
त्वं मातः उत्तरोत्तरं समुदीयसे व्योमप्रान्ते त्वद्दिव्यविग्रहस्य
तिमिरविजयिना ज्योतिषा सञ्जात उषसः प्रकाशः प्रवितनुस्वालोकं
मातः प्रविधुनु तिमिरम् ॥
मातर्दुर्गे! श्यामला सर्वसौन्दर्यसमलङ्कृता ज्ञान-प्रेम-शक्तीनां
प्रतिष्ठा पुण्यभूमिर्ननु ते विभूतिः एतावत्कालं शक्तिसंहरणार्थं
आत्मसंवरणमकार्षीत् । अध्यागतं तद्युगं आगतं तद्दिनं यदा
सकलभुवनस्य भारं स्कन्धे वहन्ती समुत्तिष्ठति भारतमाता।
एहि मातः प्रकाशस्व ॥
मातर्दुर्गे! तव सन्ततिर्वयं त्वत्प्रसादात् त्वत्प्रभावात्
बृहतोवदानस्य महनीयभावस्य समुपयुक्ता स्याम । हे मातः क्षोदय
क्षुद्रतां समुत्सारय स्वार्थं भञ्जय भयम् ॥
मातर्दुर्गे! कालीरूपिणि नृमुण्डमालिनि दिगम्बरे कृपाणपाणि देवि
असुरविनाशिनि दारुणनिनादेन निषूदय रिपुदलमन्तरस्थं येन
नैकोऽपि रिपुरस्मदन्तरे जीवितस्तिष्ठेत् येन च वयं विमला
निर्मलाश्च स्याम इयमेव प्रार्थना मातः प्रकाशमाना भव ॥
मातर्दुर्गे! स्वार्थेन भयेन क्षुद्राशयत्वेन म्रियमाणं खलु
भारतम् । हे मातः विधेहि नो महतः महाप्रयासकृतः उदारचेतसः
सत्यसङ्कल्पजुष येन नातःपरं स्याम स्वल्पाशंसिनः निश्चेष्टा
अलसाः सन्त्रस्ताः वा ॥
मातर्दुर्गे! विस्तारय योगशक्तिम् । त्वत्प्रिया हि वयमार्यसन्ततयः
अस्मात् सुसमुद्भावय लुप्तां शिक्षां मेधाशक्तिं च श्रद्धां भक्तिं
तपस्यां च लुप्तं चरित्रं ब्रह्मचर्यं सत्यज्ञानं च अस्मदन्तः
समुद्भाव्य च भुवनाय च वितर। मानवसह्ये दुर्गतिनाशिनि
जगदम्बे प्रकाशस्व ॥
मातर्दुर्गे! अन्तःस्थानां रिपूणां संहारं विधाय समुन्मूलय
बाह्यविघ्नबाधाः । बलपराक्रमोपेता समुन्नतचेता आर्यजातिर्भारतस्य
पवित्रकाननेषु समुर्वरक्षेत्रेषु व्योमचुम्बिपर्वतप्रदेशेषु
पूतसलिलसरितां तीरेषु किलैकत्वे प्रेम्णि च सत्ये शक्तौ च शिल्पे
साहित्ये च विक्रमे ज्ञाने च मूर्धन्या सति निवसेत् एषैव प्रार्थना
मातृचरणयोः प्रकाशमाना भव ॥
मातर्दुर्गे! अनुप्रविश नो देहं योगशक्त्या भविष्यामस्तव
यन्त्राणि अशुभविनाशिनस्तव निस्त्रिंशाः अज्ञानतिमिरापहास्तव
प्रदीपाः । हे मातः सम्पूरय स्पृहामेतां भारतीयतरुणवृन्दस्य।
यन्त्रस्वामिनि चालय यन्त्रम्। अशुभोच्छेदिनि समुल्लासय चन्द्रहासं
ज्ञाननदीप्तिविभासिनि गृहाण हस्ते प्रदीपं प्रकाशस्व प्रकाशस्व ॥
मातर्दुर्गे! त्वां प्राप्य न वयमितःपरं विधास्यामस्तव विसर्जनं
श्रद्धाभक्तिप्रेम्णां सूत्रेण समासज्ज्य हृदये सन्निधास्यामः ।
एहि मातः अस्माकं मनसि प्राणे शरीरे च प्रकाशस्व ॥
वीरमार्गप्रदर्शिनि आयाहि न हि विधास्यते विसर्जनमतःपरं आस्तां
ननु समस्तमस्मज्जीवनमनवच्छिन्नं दुर्गापूजनं सर्वमपि नः
कार्यजातं अविरतं पवित्रं प्रेममयं शक्तिमयं च मातृसेवाव्रतं
स्यात् एषैव प्रार्थना मातः । आविर्भव भारते वर्षे प्रकाशमाना भव ॥
Durga Stotra by Sri Aurobindo originally in Bengali 1909
Proofread by Sampadananda Mishra, PSA Easwaran