श्रीदुर्गाप्रातःस्मरणस्तोत्रम्
प्रातः स्मरन्निदमहं गिरिराजकन्या-
मार्त्तार्त्तिमोचनचणस्मरणां विनीतः ।
आवेदयामि करुणामृतपूरवर्षै-
राप्लावयाशु जनमार्त्तमिमं प्रपन्नम् ॥ १॥
प्रातर्नमन्निदमहं विनिवेदयामि
श्रीमेनकेक्षणचकोरसुधांशुलेखाम् ।
शिष्टान्यहानि मम सन्तु पवित्रितानि
त्वत्पादचिन्तनसमाहितहृद्विलासैः ॥ २॥
प्रातर्भजन्नहमवाप्तसमस्तकामां
कामान्तकारिमहिलां महितां हिताय ।
मातर्जहीहि मम वाञ्छितसंविधाने-
ऽवज्ञां कृताञ्जलिरिदं विनिवेदयामि ॥ ३॥
श्लोकत्रयं विरचितं यमिना प्रबोधा-
नन्देन नन्दयतु शश्वदिदं प्रसन्नम् ।
श्रीमन्महेशनयनोन्मदभृङ्गमाला
लास्यास्पदाम्बुजमुखीकरुणैकपात्रान् ॥ ४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्वामिप्रकाशानन्दपुरीविरचितं
दुर्गाप्रातःस्मरणस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Madhura Bal madhurabal11 gmail.com