श्रीदुर्गानामषोडशी
दुर्गा नारायणीशाना विष्णुमाया शिवा सती ।
नित्या सत्या भगवती शर्वाणी सर्वमङ्गळा ।
अम्बिका वैष्णवी गौरी पार्वती च सनातनी ॥
एषा नाम्नां षोडशिका श्रीदुर्गायाः प्रियङ्करी ।
कीर्तनादाशु सुखदा सर्वोपद्रवनाशिनी ।
ॐ दुर्गायै नमः । नारायण्यै नमः । ईशानायै नमः । विष्णुमायायै
नमः । शिवायै नमः । सत्यै नमः । नित्यायै नमः । सत्यायै नमः ।
भगवत्यै नमः । शर्वाण्यै नमः । सर्वमङ्गळायै नमः । अम्बिकायै
नमः । वैष्णव्यै नमः । गौर्यै नमः । पार्वत्यै नमः । सनातन्यै नमः ।
इति श्रीदुर्गानामषोडशी समाप्ता ।
Proofread by Aruna Narayanan