दुर्गाष्टकम्
कात्यायनि महामाये खड्गबाणधनुर्धरे ।
खड्गधारिणि चण्डि दुर्गादेवि नमोऽस्तु ते ॥ १॥
वसुदेवसुते कालि वासुदेवसहोदरि ।
वसुन्धराश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २॥
योगनिद्रे महानिद्रे योगमाये महेश्वरि ।
योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥ ३॥
शङ्खचक्रगदापाणे शार्ङ्गज्यायतबाहवे ।
पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ४॥
ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलोकिनि ।
ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥ ५॥
वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरि ।
वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ६॥
सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि ।
सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥ ७॥
अष्टबाहु महासत्त्वे अष्टमी नवमि प्रिये ।
अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥ ८॥
दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः ।
सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥ ९॥
इति श्रीदुर्गाष्टकं सम्पूर्णम् ।
Encoded and proofread by P. R. Ramamurthy