श्रीदिव्यमङ्गलाध्यानम्
(श्रीसर्वमङ्गलमङ्गला श्रीमहाराज्ञी राजराजेश्वरीस्तोत्रध्यानम् ।)
ॐ अस्य श्रीमहाराज्ञी श्रीराजराजेश्वरी ध्यानमहामन्त्रस्य
आनन्ददक्षिणामूर्तिः ऋषिः । पङ्क्तिः छन्दः ।
श्रीराजराजेश्वरी परादेवता । एं बीजम् । सौः शक्तिः । क्लीं कीलकम् ।
मम श्रीमहाराज्ञी राजराजेश्वरी प्रसादसिद्ध्यर्थे जपे विनियोगः ।
अथ हृदयादिषडङ्गन्यासः
ॐ ह्रीं हृदयाय नमः ।
ॐ श्रीं शिरसे स्वाहा ।
ॐ ऐं शिखायै वषट् ।
ॐ ह्रीं कवचाय हुं ।
ॐ श्रीं नेत्रत्रयाय वौषट् ।
ॐ ऐं अस्त्राय फट् ।
इति हृदयादिषडङ्गन्यासः ॥
अथ करन्यासः ।
ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ ऐं मध्यमाभ्यां नमः ।
ॐ ह्रीं अनामिकाभ्यां नमः ।
ॐ श्रीं कनिष्ठिकाभ्यां नमः ।
ॐ ऐं करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
ध्यानम् -
आरक्ताभां त्रिनेत्रां मणिमकुटधरां रत्नताटङ्करम्यां
हस्ताम्भोजैः सपाशाङ्कुशमदनधनुस्सायकैः विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहपरिविलुठत्तारहारोज्ज्वलाङ्गीं
ध्यायेत् कामाङ्गसंस्थामरुणिमवसनां ईश्वरीं ईश्वराणाम् ॥
ॐ
मानसपूजनम् अथवा पञ्चोपचारपूजाः ।
लं पृथिव्यात्मकं गन्धं कल्पयामि ।
हं आकाशात्मकं पुष्पं समर्पयामि ।
यं वाय्यात्मकं धूपमाघ्रापयामि ।
रं वह्न्यात्मकं दीपं दर्शयामि ।
वं अमृतात्मकं नैवेद्यं निवेदयामि ।
सं सर्वात्मकं ताम्बूलं निवेदयामि ।
देव्युवाच ।
देवदेव! महादेव! सच्चिदानन्दविग्रह!।
पञ्चकृत्यपरेशान! परमानन्ददायक! १॥
श्रीराजराजराजेशी या श्रीमत्त्रिपुरसुन्दरी ।
परापरमयी विद्या परमानन्दरूपिणी ॥ २॥
तस्या ध्यानञ्च मन्त्रञ्च पूजां पूजकलक्षणम् ।
इदानीं श्रोतुमिच्छामी श्रुतानि बहुशः पुरा ॥ ३॥
मन्त्राणि कोटिसङ्ख्यातान्यनेकानि च विस्तरात् ।
मन्त्राणि दुर्विज्ञेयानि को वा वेत्ति समासतः ॥ ४॥
सर्वमन्त्रेषु यत्सारं सर्वतन्त्रेष्वपि प्रभो ।
ब्रह्मविष्णुमहेशाद्यैरनिशं यच्च जप्यते ॥ ५॥
यत्पूज्यते सदा सिद्धैस्तद्वदस्व क्रमादिह ।
अवाच्यमपि यद्वाच्यं यदि ते करुणा मयि ।
लक्षवारसहस्राणि वारितापि पुनः पुनः ॥ ६॥
श्रीशिव उवाच -
स्त्रीस्वभावान्महादेवि! पुनस्त्वं परिपृच्छसि ।
षोडशाक्षरविद्याया न्यासस्सर्वार्थसाधकः ॥ ७॥
क्षयरोगादिमृत्युघ्नं सर्वसौभाग्यवर्द्धनम् ।
इतः पूर्वं मया नोक्तं गोप्याद्गोप्यतरं शिवे ॥ ८॥
श्रीराजराजराजेशीध्यानं सर्वोत्तमोत्तमम् ।
येनाहमपि युद्धेषु देवासुरजयी सदा ॥ ९॥
निगमागमकोटीनां सारात्सारतरं परम् ।
तव स्नेहात्प्रवक्ष्यामि भोगमोक्षप्रदं नृणाम् ॥ १०॥
यज्ज्ञानाज्जननीगर्भे न पुनर्जायते पुमान् ।
अनेककोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः ॥ ११॥
सहस्रकोटिविस्तीर्णसुधासिन्धोस्तु मध्यमे ।
रत्नद्वीपजगद्दीपे शतकोटिप्रविस्तरे ॥ १२॥
पञ्चविंशति तत्त्वात्म पञ्चविंशति वप्रकैः ।
नवरत्नमयैस्तप्तहाटकालङ्कृतैः शुभैः ॥ १३॥
अनेककोटिविततैर्मणिकुट्टिममण्डितैः ।
जातीचम्पकपुन्नागकेतकीबकुलादिभिः ॥ १४॥
बिल्वैश्च सहकारैश्च हल्लकैश्च कदम्बकैः ॥ १५॥
सर्वर्तुकुसुमैः सर्ववाञ्छितार्थफलप्रदैः ।
वसन्तमन्मथानेकरक्षितैः पक्षिसङ्कुलैः ॥ १६॥
नदीनदसहस्रैश्च सुधाधिकरसोत्तरैः ।
स्वर्नदीशतसाहस्रैः कूलोद्यत्कल्पपादपैः ॥ १७॥
स्वर्णसारसहंसालिलसत्सौवर्णपङ्कजैः ।
अन्यैश्च विविधैः पक्षिलक्षैः पूर्णैः सलक्षणैः ॥ १८॥
शतयोजनमुन्नम्रैर्गोपुराट्टालमण्डपैः ।
रविकोटिसमप्रख्यैश्शोभितैर्मणितोरणैः ॥ १९॥
त्रिलक्षयोजनायामचिन्तामणिगृहाङ्गणे ।
नवशक्तिलसद्रत्नपीठे तत्त्वमये शुभे ॥ २०॥
शतयोजनविस्तारे श्रीचक्रान्तस्त्रिकोणके ।
चतुःपीठान्तरे बिन्दौ चन्द्रसूर्याग्निमण्डले ॥ २१॥ (सूर्याग्निकोटिभे)
महामाया यविनका महिते सुबृहत्तरे ।
(लसदासनषट्कोणे चतुरासनगर्भिते ॥ २२॥)
पञ्चब्रह्मात्मके मञ्चे सर्वतत्त्वमयाम्बुजे ॥ २२॥ var सर्वतत्त्वमये शुभे
सषडाननषट्कोणे चतुराननगर्भिते ।
चतुःपीठान्तषट्त्रिंशत्तत्त्वोद्यथंसतूलिके ॥ २३॥ (तुर्यपीठान्त)
सर्वविद्यासने सर्वतेजोमयशुभास्तरे ।
कोटिकन्दर्पलावण्यशिववामाङ्कवासिनीम् ॥ २४॥
एककालोदितानेककोटिकोट्यर्कपाटलाम् ।
जपाकुसुमशङ्काशामजपामजपात्मिकाम् ॥ २५॥
प्रभापाटलितानेककोटिब्रह्माण्डमण्डलाम् ।
दाडिमीकुसुमाकारां कुङ्कुमारुणविग्रहाम् ॥ २६॥
बालार्ककोटिप्रभां त्र्यक्षां बालेन्दुमकुटोज्ज्वलाम् ।
अचञ्चलतडित्कोटिप्रभां पिङ्गलवाससम् ॥ २७॥
समावृत्तसुवृत्तोरुजघनस्थलमण्डलाम् ।
कोटीरकोटिघटितसुधाकरकराप्लुताम् ॥ २८॥
फालभूतिलकीभूतलोचनां कामलोचनाम् ।
कटाक्षसरणीनिर्यत्करुणापूर्णवीक्षणाम् ॥ २९॥
सूर्येन्दुमण्डलाकारां मणिताटङ्कमण्डिताम् ।
शुक्राकारसमाकारनासाभरणभासुराम् ॥ ३०॥
दाडिमीबीजसन्दोहसन्देहरत्नावलिम् ।
वीणारवघृणादायिनिजवाणीगुणोदयाम् ॥ ३१॥
कर्पूरवीटिकागन्धसुगन्धितदिगन्तराम् ।
मणिदर्पणदर्पघ्नकपोलफलकप्रभाम् ॥ ३२॥
प्रसन्नवदनाम्भोजां समन्दहसितेक्षणाम् ।
मणिमङ्गलसूत्रेण विलसत्कम्बुकन्धराम् ॥ ३३॥
श्रीतकल्पलतीभूतभुजवल्लीचतुष्टयाम् ।
रत्नाङ्गुलीयनिवहोज्ज्वलदङ्गुलिपल्लवाम् ॥ ३४॥
तारहारत्सरीभास्वत्स्तनहाटकभूधराम् ।
कुचभारनमन्मद्ध्यत्रिवलीललितोदराम् ॥ ३५॥
अनर्घरत्नखचितरशनाजघनस्थलाम् ।
सुवृत्तजङ्घोरुकाण्डां गूढगुल्फां गुडालकाम् ॥ ३६॥
शिञ्जानमणिमञ्जीरमञ्जुपादाब्जमञ्जुलाम् ।
रत्नग्रैवेयवलयमुकुटाङ्गदकङ्कणाम् ॥ ३७॥
सुनिर्मलावृत्तनाभिरोमराजिविराजिताम् ।
कम्बुकण्ठीं सुनासाढ्यां बिम्बोष्ठीमुडुपाननाम् ॥ ३८॥
सर्वशृङ्गारवेषाढ्यां सर्वाभरणभासुराम् ।
चन्दनागरुकस्तूरीमृगनाभिसुगन्धिनीम् ॥ ३९॥
कारणेशशिरोरत्ननिघृष्टचरणाम्बुजाम् ।
पञ्चप्रेतासनारूढां पञ्चप्रवणवरूपिणीम् ॥ ४०॥
सृष्टिस्थित्यपसंहारतिरोधानानुग्रहोद्यताम् ।
षोढान्यासमहाभूषां षोडशार्णस्वरूपिणीम् ॥ ४१॥
इच्छाज्ञानक्रियानन्दचित्पञ्चकविलासिनीम् ।
प्रपञ्चादिजगन्मूर्तिं मन्त्रदैवतमातृकाम् ॥ ४२॥
सप्तकोटिमहामन्त्ररूपिणीं चित्स्वरूपिणीम् ।
शडध्वसौधशृङ्गारविहाररसपेशलाम् ॥ ४३॥
षड्विधैक्यानुसन्धानपरचिद्धाम्नि संस्थिताम् ।
षडम्भोरुहचक्रान्तस्फूर्जत्सौदामिनीप्रभाम् ॥ ४४॥
षड्वक्त्रगजवक्त्राभ्यां पार्श्वयोरुपशोभिताम् ।
अणिमाद्यावृतामाद्यामणिमाद्यष्टसिद्धिदाम् ॥ ४५॥
सकृत्स्मरणमात्रेण विरिञ्चादिपदप्रदाम् ।
कल्याणगुणसम्पन्नां नित्यकल्याणदायिनीम् ॥ ४६॥
सर्वमङ्गलदां देवीं सर्वमङ्गलविग्रहाम् ।
अनेकजन्मसंसिद्धसुकृताराध्यपादुकाम् ॥ ४७॥
सर्वलोकैकजननीं सर्वलोकैकनायिकाम् ।
सचामराभ्यां श्रीवाग्भ्यां पार्श्वयोरुपजीविताम् ॥ ४८॥
मन्त्रिणीदण्डिनीनीतिविधानाकर्णनोत्सुकाम् ।
कलाचीवीटिकाच्छत्रभृङ्गारादर्शपादुकाम् ॥ ४९॥
मणिवीणां शुकं शारीं तालवृन्तं कमण्डलुम् ।
पानपत्रं स्वर्णवेत्रं पूर्णस्वर्णघटद्वयम् ॥ ५०॥
जयकाहलिकाभेरीशङ्खदुन्दुभिमद्दलाम् ।
दिव्यानि धूपपात्राणि तथा सौवर्णदीपिकाः ॥ ५१॥
बिभ्रतीभिश्च बालान्नपूर्णताराभिरावृताम् ।
गायत्र्या चैव सावित्र्या सिद्धलक्ष्म्यादिशक्तिभिः ॥ ५२॥
वाग्वादिन्या नकुल्या च तुरङ्गारूढयाऽऽवृताम् ।
सम्पत्कर्या च साम्राज्यलक्ष्म्या च कुरुकुल्यया ॥ ५३॥
पद्मवत्या रेणुकया भीमवत्या च दुर्गया ।
नीलकर्ण्या महाकाल्या भद्रकाल्या च भद्रया ॥ ५४॥
गङ्गाद्याभिस्सरिद्भिश्च मातृभिश्च सुसेविताम् ।
महाषोडोदिताशेषदेवतागणसेविताम् ॥ ५५॥
गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् ।
पञ्चाशत्पीठमध्यस्थां पञ्चाशद्वर्णरूपिणीम् ॥ ५६॥
नवचक्रात्मिकां देवीं नवचक्राधिदेवताम् ।
नित्यानन्दमयीं नित्यां नित्यषोडशिकान्विताम् ॥ ५७॥
ओड्याणपीठनिलयां गुरुमण्डलमण्डिताम् ।
अनेकयोगिनीवृन्दैरणिमाद्यैर्महोज्ज्वलैः ॥ ५८॥
कोटिकोटिप्रभेदैश्च बालार्कद्युतिसन्निभैः ।
चतुस्समयदेवीभी षड्विधैर्योगिनीगणैः ॥ ५९॥
षड्दर्शनाधिदेवैश्च षडाम्नायाधिदैवतैः ।
चतुरायतनोद्भासि गणेशार्कहरीश्वरैः ॥ ६०॥
नवावरणदेवीभिर्न्नवधा योगिनीगणैः ।
सेवितामरुणानेककोटिकोट्यर्कपाटलाम् ॥ ६१॥
अनेककोटिभिश्चैव बालार्कायुतसन्निभैः ।
ब्रह्माणीकोटिसहितैर्ब्रह्मकोटिभिरावृताम् ॥ ६२॥
नामपारायणोद्युक्तैर्ल्लक्ष्मीनारायणैः स्तुताम् ।
ज्वलन्मन्युभिरत्युग्रैः शतरुद्रीयसंज्ञितैः ॥ ६३॥
रुद्राणीकोटिसहितै रुद्रकोटिभिरावृताम् ।
अनेकाघोरशरभैर्बडवानलभैरवैः ॥ ६४॥
दुर्गाभिः कालिकाभिश्च महाकाल्यैश्च संवृताम् । माकालीभिश्च
गणपैर्वीरभद्रैश्च वटुकैः क्षेत्रपालकैः ॥ ६५॥
सुकुमारैः कुमारैश्च तथा हरिहरात्मजैः ।
अनेककोटिदिक्पालैश्चन्द्रार्कवसुकोटिभिः ॥ ६६॥
सनकाद्यैश्च योगीन्द्रैः सप्तर्षीणाञ्च कोटिभिः ।
नारदादिसुरर्षीणां कोटिभिः परिसेविताम् ॥ ६७॥
अप्सरोयक्षगन्धर्वकिन्नराणाञ्च कोटिभिः ।
कोटिभिर्गुह्यकानाञ्च सविद्याधरकोटिभिः ॥ ६८॥
शङ्खपद्मनिधीनाञ्च कोटिभिः परिसेविताम् ।
भैरवीभैरवानेककोटिकोटिभिरावृताम् ॥ ६९॥
सुरासुराणां कोटीनां कोटिभिः परिसेविताम् ।
सर्वमन्त्रमयीं देवीं सच्चिदानन्दरूपिणीम् ॥ ७०॥
इच्छाज्ञानक्रियारूपामिच्छाकलितविग्रहाम् ।
परादिवैखरीरूपां महामायां परात्पराम् ॥ ७१॥
महालक्ष्मीं महादेवीं महात्रिपुरसुन्दरीम् ।
जगदाह्लादजननीं जगत्सङ्कल्पविग्रहाम् ॥ ७२॥
जगदुज्जीवनोद्युक्तां जगद्रञ्जनकारिणीम् ।
राजराजेश्वराङ्कस्थां राजराजेश्वरीं शिवाम् ॥ ७३॥
एवं ध्यायेत्पराशक्तिं हृदि श्रीचक्ररूपके ।
पूर्वोक्तन्यासशुद्धात्मा सात्माभेदेन भावयेत् ॥ ७४॥
अन्तर्याग्रक्रमेणैव सिद्धदैवसमन्वितः ।
रक्ताम्बरस्रगालेपो रक्तभूषणभूषितः ॥ ७५॥
लाक्षारुणगृहे स्थित्वा पूजां कुर्यात् समाहितः ।
आवाहनादिभेदैश्च दशमुद्राः प्रदर्शयेत् ॥ ७६॥
सौभाग्यदण्डिनीमुद्रां रिपुजिह्वाग्रयन्त्रिणीम् ।
शक्तिसञ्चलनं कुर्यन्मुखवेष्टनमाचरेत् ॥ ७७॥
यथाशक्ति जपेद्विद्वान् श्रीविद्यां सर्वसिद्धिदाम् ।
शाक्तञ्च तिलकं कुर्यात् शक्तिलक्षणचिह्नितम् ॥ ७८॥
पुनः सौवर्णया चैव गलोर्ध्वं विन्यसेद्बुधः ।
व्यापकान्ते योनिमुद्रां मुखे क्षिप्त्वाभिवादयेत् ॥ ७९॥
संहारञ्च ततः सृष्टिं स्थितिन्यासं समाचरेत् ।
ऋष्यादिकन्यासजालं षडङ्गन्यासमाचरेत् ॥ ८०॥
ब्रह्मरन्ध्रे न्यसेत्पूर्वं मणिबन्धद्वये तथा ।
ललटेऽनामिकां कृत्वा त्रैलोक्यस्याप्यहं प्रभुः ॥ ८१॥
गुरूपदिष्टमार्गेण प्राणायामं समाचरेत् ।
क्रमपूजापरो मन्त्री श्रीचक्रार्चनपूर्वकम् ॥ ८२॥
बिन्दुबिन्दुद्वयारूढं हार्दयोनिस्वरूपकम् ।
महाकामकलारूपमात्मानं भावयेत्सुधीः ॥ ८३॥
सम्पूर्णाञ्चिन्तयेद्विद्वान् ब्रह्मरन्ध्रारुणप्रभाम् ।
द्रवत्सुताषोडशार्णां सर्वसौभाग्यदां स्मरेत् ॥ ८४॥
षोडशार्णमहामन्त्रं मन्त्रराजोत्तमोत्तमम् ।
सकृत्स्मरणमात्रेण कोटिजन्माघनाशनम् ॥ ८५॥
महापातककोटीनां मार्जनं स्मृतिमात्रतः ।
उपवातकदौर्भाग्यशमनं भुक्तिमुक्तिदम् ॥ ८६॥
विषरोगादिदारिद्र्यमृत्युसंहारकारकम् ।
सप्तकोटिमहामन्त्रपारायणफलप्रदम् ॥ ८७॥
चतुःसमुद्रपर्यन्तभूदानफलदं शिवे!।
सहस्रकोटिगोदानफलदं स्मृतिमात्रतः ॥ ८८॥
कोट्यश्वमेधफलदं जरामृत्युनिवारणम् ।
किं पुनर्बहुनोक्तेन शिवसायुज्यदायकम् ॥ ८९॥
घुटिका पादुका सिद्धिः खेचरत्वादिदायकम् ।
ब्रह्मविष्णुमहेशाद्यैर्जप्यं तत्पदसिद्धये ॥ ९०॥
तद्रूपाद्देशिकाल्लब्धं षोडशार्णं महामनुम् ।
सहस्रं प्रजपेद्विद्वान् त्रिशतं शतमेव वा ॥ ९१॥
स जीवन्मुक्त एव स्यात्सर्वसौभाग्यसुन्दरः ।
चतुःषष्टिकलापूर्णहृदयः सदयोदयः ॥ ९२॥
श्रीगुरोः पादुकां मूर्ध्नि श्रीचक्रं हृदि देवता ।
श्रीविद्या यस्य जिह्वाग्रे स साक्षात्परमः शिवः ॥ ९३॥
सहस्रारसुधाक्षिप्तषडम्बुरुहमण्डलः ।
आचन्द्रतारकस्थायि निजवंशयशोज्ज्वलः ॥ ९४॥
श्रीचक्रदेवी श्रीनाथस्वात्मानमैक्यमादिशेत् ।
त्रैलोक्यमरुणं ध्यात्वा श्रीविद्यां यो जपेत्सुधीः ॥ ९५॥
स योगी कृतकृत्यश्च चराचरगुरुर्भवेत् ।
सिद्धचारणगन्धर्वयक्षरक्षोगणैः स्तुतः ॥ ९६॥
समस्तभूतप्रेतादिकृत्याकृत्यविभञ्जनः ।
जङ्गमस्थावरोद्भूतविषविद्रावकोविदः ॥ ९७॥
दिव्यमङ्गलकल्याणगुणरत्नैरलङ्कृतः ।
मृतसञ्जीवको योगी महाद्भुतचरित्रभूः ॥ ९८॥
विचरत्सकलान् लोकान् निग्रहानुग्रहक्षमः ।
महालक्ष्मीमयो भूत्वा लक्ष्मीवृन्दैश्च सेवितः ॥ ९९॥
भुञ्जानो विविधान् भोगान् मूर्तिमानिव मन्मथः ।
चराचरगुरुर्योगी साक्षाच्छिव इवापरः ॥ १००॥
राजराजेश्वरीरूपो राजराजादिवन्दितः ।
कुलकोटिं समृद्धृत्य देवीसायुज्यमाप्नुयात् ॥ १०१॥
॥ इत्युमामहेश्वरसंवादे राजराजेश्वरीतन्त्रे मोक्षप्रदे
दिव्यमङ्गलाध्यानं सम्पूर्णम् ॥
लं पृथिव्यात्मिकायै श्रीराजराजेश्वर्यै गन्धं कल्पयामि । नमः ।
हं आकाशात्मिकायै श्रीराजराजेश्वर्यै पुष्पं समर्पयामि । नमः ।
यं वायव्यात्मिकायै श्रीराजराजेश्वर्यै धूपमाघ्रापयामि । नमः ।
रं वह्न्यात्मिकायै श्रीराजराजेश्वर्यै दीपं दर्शयामि । नमः ।
वं अमृतात्मिकायै श्रीराजराजेश्वर्यै नैवेद्यं निवेदयामि । नमः ।
सं सर्वात्मिकायै श्रीराजराजेश्वर्यै ताम्बूलं निवेदयामि । नमः ।
The text differ in other prints.
The referenced text has 113 verses and
titled differently.
Encoded by Adwaith Menon adwaithmenon at gmail.com
Proofread by Adwaith Menon, PSA Easwaran