श्रीधर्मसंवर्धनीस्तोत्रम्
॥ श्रीगणेशाय नमः ॥
ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं ।
कल्याणी कमनीयतूलकबरी कल्हारमालाञ्चिता
कस्तूरीतिलकाङ्कफालफलका कामेश्वरप्रेयसी ।
काम्या कामकलात्मिका करलसच्चापेक्षुपाशाङ्कुशा
कल्याणानि करोतु मे भगवती श्रीधर्मसंवर्धनी ॥ १॥
एतावत्तदिति प्रमां अतिगतां एणीकिशोरेक्षणां
एकान्तापचितिप्रसनहृदयां एकाधिपत्यप्रदाम् ।
एवम्भूतचराचरैकजननीं एणाङ्कचूडप्रियां
एधेमह्यधिकं प्रपद्य शरणं श्रीधर्मसंवर्धनीम् ॥ २॥
ईशोत्सङ्गविहारलोलहृदयां ईहाविहीनाशयां
ईडानाखिलवाञ्चितार्थजननीं ईशानसंसेविताम् ।
ईदृग्विश्वजनिस्थितिक्षतिकरीं ईतिव्यथानाशिनीं
ईडेऽहं परदेवतां भगवतीं श्रीधर्मसंवर्धनी ॥ ३॥
लक्ष्मीवल्लभभारतीपतिशचीपत्यादिसम्पूजिता
लब्धानेकजनुःसुकर्मनिचयैर्लभ्यङ्घ्रिसेवारसा ।
लावण्यामृतसारसागरतनुर्लक्षागमैर्लक्षिता-
लब्धार्था ललना लसेन्मनसि मे श्रीधर्मसंवर्धनी ॥ ४॥
ह्रीङ्काराम्बुजकर्णिकान्तरमहासिंहासनाध्यासिनी
ह्रीणात्मीकृतसर्वलोकललनारत्नस्वलावण्यभा ।
ह्रीश्रीभीधृतिबुद्धिसंस्मृतिरतिश्रद्धाक्षमारूपिणी
ह्रीन्नामा ममदुःखमाशु हरतु श्रीधर्मसंवर्धनी ॥ ५॥
हस्ताहस्तिविधायिपीवरकुचा हस्तीन्द्रकुम्भैः समं
हानादानविवर्जिता हरिमणिश्यामावदातेक्षणा ।
हंसाध्येययपदक्रमा हरिहयब्रह्माच्युतेशार्चिता
हन्यान्मे हतकिल्बिषं हरसखी श्रीधर्मसंवर्धनी ॥ ६॥
सर्वाङ्गीणविभूषणा समरसा संविन्मयी सात्विकी
साध्या सागरमेखलाधरसुता सर्वज्ञसम्मोहिनी ।
सत्यानन्दचिदाकृतिः सरसवाक् सन्तुष्टचित्तास्तु मे
संसारार्णवतारणैकतरणिः श्रीधर्मसंवर्धनी ॥ ७॥
कल्या काञ्चनकुण्डलाङ्गदधरा कण्ठे मणीमालिका
कटयां काञ्चनकाञ्चिदामलसिता कादम्बसञ्चारिणी ।
काले कल्पितविश्वसृष्टिविलया कात्यायनी कामदा
कामं मे कठिनस्तनी कलयतु श्रीधर्मसंवर्धनी ॥ ८॥
हत्याद्युत्कटपापकूटदहनज्वालायमानाभिधा
हस्तैर्हाटककङ्कणावलिधरा हंसावलीसेविता ।
हारालीपरिशोभमानविपुलप्रोत्तुङ्गवक्षोरुहा
हत्याहन्तृकला निहन्तु मदधं श्रीधर्मसंवर्धनी ॥ ९॥
लब्धव्यालघुलब्धभक्त्यतिशयैर्लास्यप्रिया लाकिनी
लाक्षारञ्जितपादपद्मयुगला लज्जापदार्चप्रिया ।
लाभालाभसमानचित्तमुदिता लङ्केशवैर्यर्चिता
लक्ष्यात्मा ललिता लगेन्मनसि मे श्रीधर्मसंवर्धनी ॥ १०॥
ह्रीङ्कारामलदुग्धसागरसुधा ह्रीङ्कारपद्मेन्दिरा
ह्रीङ्काराङ्कितमन्त्रजापकजनाभीष्टार्थसन्दायिनी ।
ह्रीङ्कारामृतवापिका कमलिनी ह्रीङ्कारपेटीमणिः
क्षिप्रं मद्विषतां कुलं ह्रसययु श्रीधर्मसंवर्धनी ॥ ११॥
सर्वानन्दकरी समस्तजननी सत्कर्मसन्तोषिणी
सव्यासव्यपथार्चिताङ्घ्रिकमला सम्पूर्णसम्पत्करी ।
साध्वी सद्गतिदायिनी सदसदाकारा समा साक्षिणी
सर्वज्ञा मम सङ्क्षिणोतु दुरितं श्रीधर्मसंवर्धनी ॥ १२॥
कन्यापूजनसम्प्रहृष्टहृदया कल्पद्रुमूलासिनी
काव्यालापविनोदिनी कलिमलप्रध्वंसिनी कामिनी ।
कल्याणाचलकार्मुकप्रियतमा कल्याणशैलालया
कामं कामधुगस्तु मे भगवती श्रीधर्मसंवर्धनी ॥ १२॥
लक्ष्या लक्षणबोधकश्रुतिशिरः सीमन्तवाक्यालिभि-
र्लज्जाढ्या लगदिष्टकल्पलतिका लग्नाशये योगिनाम् ।
लक्ष्मीवल्लभसोदरी लवकरी लज्जापदाध्यासिनी
लालित्यैकनिधिर्लगेन्मनसि मे श्रीधर्मसंवर्धनी ॥ १३॥
ह्रीङ्कारामृत भानुमण्डललसज्योत्स्नाभिरामाकृति-
ह्रीङ्कारोदयमेदिनीधरकठोराभीषुबिम्बप्रभा ।
ह्रीङ्कारैकपरायणाभिलषिताशेषार्थचिन्तामणि-
र्हृष्येन्मे मधुनायकप्रणयिनी श्रीधर्मसंवर्धनी ॥ १४॥
मधुनाथमनोमोदमकरालयचन्द्रिका ।
धर्मसंवर्धनी देवी धर्मे संवर्धयेन्मम ॥ १५॥
इति श्रीगोमतीदासकृतं श्रीधर्मसंवर्धनीस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan