धर्मपुरी गोदावरी वर्णनम्
कोरिडे विश्वनाथ शर्मा संस्कृतोपन्यासकः
श्री लक्ष्मी नरसिंहसंस्कृतान्ध्र कलाशाला
अयिकरिकर्णिक ! मूषिकवाहन!! पर्वतजासुत ! साम्बप्रिय !
नुतजनपोषक ! षण्मुखसेवित ! शङ्करचुम्बितफालतट! ।
वरचतुराननदेवगणार्चित ! दानवभञ्जक ! दासरत!
जय गणनायक ! विघ्नविनाशक ! धर्मपुरीजनपाल विभो!
अयिनिजमूर्धजपाशजटोद्भवगौतमजासिकतोद्भव भोः
वररघुवंशकलानिधिकीर्तितराघवसेवितलिङ्गतनो! ।
निजवरभक्तकृताघविनाशक दासजनार्थितदानरते!
जय रजनीकरभूषितशेखर! धर्मपुरीविलसन्निलय! ॥
त्वद्दर्शनं यदि लभे न तु नीलकण्ठ!
नामं भजामि यदि कण्ठगतं न ते हि ।
रूपं स्मरामि तव चेन्न मनोहरं मे
तज्जीवनं मम निरर्थकमेव शम्भो ॥
प्रातःकालवर्णनं गोदावरी
लक्ष्मीनृहरेःपदाब्जलसिता ब्रह्मादिदेवैर्युता
या रामार्चितरामलिङ्गनिलया भक्ताघविध्वंसिनी
यस्याः प्राग्दिशि गौतमी रविकरान् प्रक्षालयन्ती सदा
सेयं धर्मपुरी सनातनपुरं क्षेत्रं सतीर्थं महत् ॥ १॥
गोदावरीगतसुरार्पणकौतुकेन्दुः
पीयूषभाण्डपरिपूर्णसुधाकरो ऽयम् ।
वीचीनिबद्धप्रतिबिम्बतनुर्नितातं
सूर्योदये लसति गच्छति खान्निशेशः ॥ २॥
गोदावरीवरजलेषु विनोदमिच्छुः
तारायुतो वरतरङ्गहृतात्मरूपः ।
आवृत्य वार्वसितकैरवमात्मबन्धुं
सूर्योदये लसति गच्छति खाद्धिमांशुः ॥ ३॥
निष्कास्य द्विजराट् तमोऽन्धपटलं यात्येकतो ह्यम्बरात्
निद्रामुद्रितमानवान् द्विजवराः जाग्रन्ति रावैर्मुहुः ।
छित्त्वाऽन्धं द्विजकान्तिभिर्द्विजवराः श्राव्यन्ति वेदश्रुतीः
प्रातर्धर्मपुरीपुरस्य हि जनान् कुर्वन्ति चैतन्यकान् ॥ ४॥
गौतम्यास्तु तरङ्गपङ्क्तिनिनदैर्माधुर्यमापूर्यते
आब्राह्मी हरिताश्च छात्रवटवः पूर्यन्ति वेदश्रुतीः ।
गावोऽम्भेति नदन्ति वत्सकगणं स्वोधास्यदानाय ताः
प्रातर्धर्मपुरं हि मङ्गलकरैर्ध्वानैः पवित्रीकृतम् ॥ ५॥
यस्यां ब्राह्मणपुङ्गवैरनुदिनं सुस्नातलिप्ताङ्गकैः
गायत्री श्रुतिराव सुस्वरगलैर्दत्ताञ्जलिर्भास्करः ।
स्नात्वा क्षालितरश्मिभिर्नरहरिं सन्द्रष्टुकामो मुदा
निद्रामुद्रितपद्ममुन्नयति यः संसेवनाय प्रभोः ॥ ६॥
गोदावरीविमलवारितरङ्गहॄद्यै-
र्यत्कैरवैर्रतिमुपेत्य मुदा निशान्ते ।
इन्दौ गते हि कमलानि निमीलितानि
उन्मील्य भास्करकरैर्विकसन्ति प्रातः ॥ ७॥
ये चैव बद्धतनवः कमलोदरेषु
भृङ्गा हि भानुहृतचित्तमुमुक्षवस्ते ।
सन्तुष्टभास्करकरैः सुविमुक्तसङ्गाः
गीतोपदेशकवरा ननु यान्ति चोर्ध्वम् ॥ ८॥
श्री वैष्णवा नृहरिसेवनतत्पराश्च
दिक्पूर्यमाणशुभमङ्गलवाद्यघोषैः ।
गोदोदपूर्णवरहेमघटा निवृत्य
निर्यान्ति वेदपठनैर्भृतदेवचित्ताः ॥ ९॥
गोपालबालकगणैर्धृतहस्तदण्डैः
गावो मुदा प्रतिगृहात् किल मुक्तबन्धाः ।
वात्सल्यदत्तपयसोऽन्वयगोगणाश्च
गोदावरीतटवनं ह्युपयान्ति धीरम् ॥ १०॥
कोक्कोरकोध्वनियुतैर्ननु कुक्कुटैश्च
दिक्पूर्यमाणनिनदैः प्रविमुक्तकण्ठैः ।
जाग्रन्ति येन हि विबुध्य वर त्यक्त मञ्चाः
यद्गौतमीनिवहनाय जनास्तु यान्ति ॥ ११॥
यद्गायतो बुध सदाशिव विश्वनाथौ
राजन्नशास्त्रिकृतवाङ्मयसेवनं तु ।
प्राभातिकं ननु सकीर्तनचित्तजिह्वाः
गोदावगाढतनवः स्वगृहाणि यान्ति ॥ १२॥
गोदां हि गोपतरुणीमणयस्तरण्यां
गोक्षीरपूरितघटाः बहवो तरन्त्यः ।
ग्रामं प्रविश्य मधुरस्वरकण्ठरावैः
उद्घोषयन्ति ननु विक्रयणाय दुग्धम् ॥ १३॥
कन्या गृहाङ्गणतलं परिशुध्य चाद्भिः
कृत्वा मुदा रजितभासितरङ्गवल्लीम् ।
सन्दीप्तगोमयगिरिप्रतिमा विधाय
कुर्वन्ति चापहृतचित्तजना हि मार्गम् ॥ १४॥
गङ्गे ! त्रिविक्रमपदोद्भवि ! हे सुरार्च्ये !
त्रैलोक्यपावनि! शिवजटाहृतवारिरूपे! । ?
विध्वस्त गौतममहर्षिकृताघराशे!
त्वं जागृहीत्युषसि भक्तवराः स्तुवन्ति ॥ १५॥
अभ्यागता विविधदेशसमागताश्च
अबालवृद्धपुरवासगणाश्च वीथ्याम् ।
स्नात्वाऽऽगतान् द्विजवरानभिवन्द्य नम्राः
गोदानिमज्जनपरास्त्वरितं प्रयान्ति ॥ १६॥
श्रीशेषयोक्तनिगमान्तभृतात्मतत्त्वं
यन्नारसिंहशतकं हरिभक्तिसारं
भ्राजन्नृसिंहचरणाब्जकहृष्टचित्ताः
गायन्ति प्रोद्गलितगानयुता स्तु नार्यः ॥ १७॥
मालां क्वचिद्धि धनुराकृतिभङ्क्वचिच्च
खड्गं क्वचिन्ननु सुदर्शनरूपमन्यत् ।
भिन्नैः सदाकृतिविशेषगणैर्बलाकाः
बध्नन्ति धर्मपुरमम्बरवीथिमार्गम् ॥ १८॥
पित्राज्ञया गतवनो रघुरामचन्द्रः
स्नात्वा च यत्र पितरं त्वकरोद्धि तृप्तम् ।
भक्त्यार्चयत् स्वकृतसैकतलिङ्गमूर्तिं
तद्गौतमीस्थसिकता हि पुनन्ति भक्तान् ॥ १९॥
सङ्कल्पमन्त्रपठना वटवा स्तु केचित्
केचिन्निमज्जनपरा हरशब्दपूर्वम् ।
सन्ध्यान्त्वुपासनपराः सुनिमीलिताक्षाः
गोदाजलेषु विधिकर्मरता द्विजा हि ॥ २०॥
श्रीनारसिंह वचसा त्वनुलात्मजः किं
आज्ञापयेत् कपिकुलं पुररक्षणार्थम् ।
यत् त्रासयन्ति शठबुद्धिनरांस्तु वीथ्यां
सौधाग्रभागविहरद् वरवानरा हि ॥ २१॥
उद्यद्दिनेशकिरणैर्ज्वलदग्नितेजः
स्नातानुलिप्तवरभक्तसमाह्वनाय ।
यद् राजगोपुरमहो हरिमन्दिरस्य
धीरं विलोकयति पूर्वदिशाभिमुख्यम् ॥ २२॥
यद्राजगोपुरगवाक्षकवाटमार्गात्
आवृत्य पक्षिनिवहान् खलु मेघमालाः ।
गच्छन्ति मन्दिरमहो शुभकृष्णवर्णाः
द्रष्टुं रमानरहरिं विनता निनादैः ॥ २३॥
ब्रह्मादि देवगमनाय शुभाङ्कितं हि
भक्ताग्रदैत्यगमनाय महोन्नतं च ।
यत्स्वागतादरणपूर्वक भृत्यवर्गं
यद्राजगोपुरमहो किमु वर्णशक्यम् ॥ २४॥
दीव्यत् सुवर्णकलशैर्ननु भ्राजमानं ?
आकाशचुम्बनपरं शिखराग्रभागम् ।
आदित्यदैत्यप्रतिमाहृतचित्तहृद्यं
यद्राजगोपुरमहो किमु वर्णशक्यम् ॥ २५॥
दैनन्दिकेन विधिना गगनान्तरालात्
सप्ताश्ववाहनरथं त्वधिरूढभानुम् ।
आयान्तमाह्वयति हि श्रममोचनाय
यद् गोपुरं धृतकपोत सुपुष्पमालम् ॥ २६॥
वराहतीर्थम्
यस्मिन् मुदा निवहनाद्धि सभार्यकश्च
चिन्तामणिः परमवाप हि मुक्तिमार्गम् ।
चिन्तमणीति यदगाद्धि सरः प्रसिद्धं
वाराहतिर्थमिह राजति धर्मपुर्याम् ॥ २७॥
लक्ष्मीनृसिंहविभुदर्शनसाभिलाषं
ग्रामं प्रविष्टमतिथिं ननु सादरेण ।
भृङ्गानुरञ्जितसुमङ्गलवाद्यघोषैः
सुस्वागतं वदति चेह वराहतीर्थम् ॥ २८॥
उत्थाय चैकचरणं च निमील्य नेत्रे
ध्यानैकचित्तविलसज्जलधिप्रसुप्ताः ।
निष्किम्पमानलसदङ्गविभासवृक्षाः
किं तापसाननुसरन्ति बका हि तीरे ॥ २९॥
प्रातः सदा ? मुकुलीकृतहस्तकुड्मं ?
सन्तुष्टकं विकसिताननपद्मवृन्दम् ।
अभ्यागताय मधुपाय विनम्रभावैः
दत्त्वा हि मधुपर्कमनन्यचित्तं
वाराहतीर्थमिह शिक्षति चातिथेयम् ॥ ३०॥
लोकैकरक्षणविधौ हतहेमनेत्रः
श्रीशो धृतक्षितिमृदङ्कितदंष्ट्रभागान् ।
प्रक्षाल्य पूतमकरोत्स तीर्थम्
वाराहतीर्थमिह राजति धर्मपुर्याम् ॥ ३१॥
इति कोरिडे विश्वनाथशर्मणाविरचितं धर्मपुरी
गोदावरी वर्णनं सम्पूर्णम् ।
Composed by Koride Vishwanatha Sharma Dharmapuri Telangana
Proofread by Koride Vishwanatha Sharma.