देवीविघ्नहरस्तोत्रम् अथवा शान्तिस्तोत्रम्
श्रीशिव उवाच -
मातर्देवि! नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे ॥ १॥
कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे ।
माहेशि! वरदे! देवि! परमानन्दकारिणी ! ॥ २॥
कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे ।
कौमारी सर्वविद्येशि! कौमार-क्रीडनेऽनघे ॥ ३॥
कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे ।
विष्णुरूपधरे! देवि! विनता-सुत-वाहिनी ॥ ४॥
कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे ।
वाराहि ! वरदे ! देवि! दंष्ट्रोद्धृत-वसुन्धरे ! ॥ ५॥
कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे ।
शक्ररूपधरे! देवि! शक्त्यादि सुर-पूजिते ! ॥ ६॥
कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे ।
चामुण्डे ! मुण्डमालासृक्-चार्वङ्गि ! विघ्ननाशिनि ! ॥ ७॥
कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे ।
महालक्ष्मि ! महामोहे ! क्षोभसन्तापहारिणि ! ॥ ८॥
कृपया हर मे विघ्नं सर्वसिद्धिञ्च देहि मे ।
मिति-मातृमये ! देवि ! मितिमातृ-बहिष्कृते ! ॥ ९॥
एके बहुविधे ! देवि ! दिव्यरूपे नमोऽस्तु ते ।
एतत् स्तोत्रं पठेद्यस्तु कर्मारम्भेषु संयतः ॥ १०॥
विघ्नञ्चैव समालोक्य तस्य विघ्नं न जायते ।
कुलीनस्य द्वारपालाः कथिताः पुरतस्तव ॥ ११॥
दीक्षाकाले नित्यपूजा समयेनार्चयेद् यदि ।
तस्य पूजाफलं सर्वं नीयते यक्ष-राक्षसैः ॥ १२॥
The rest differs depending on the tantra
(यदि व्रीडायुतास्तास्तु भोजयेत् तु गृहाबहिः ।
स्थितः स्तोत्रं पठेत्तावद् यावदृष्टिः प्रजायते ॥ १३॥
इति मुण्डमालातन्त्रे हरपार्वतीसंवादे अष्टादशपटलान्तर्गतं
विघ्नहरस्तोत्रं सम्पुर्णम् । श्लोकानि ३०-४२)
(तस्य पूजाफलं देवि नीयते यक्षराक्षसैः ।
शतवर्षजपाद् देवि न सिद्धिर्जायते प्रिये ॥ ७-७५॥ १३॥
महापदि समुत्पाते पठेत् स्तोत्रं गणेश्वरि ।
आपदश्च पलायन्ते संशयो नास्ति कश्चन ॥ ७-७६॥ १४॥
विद्याकामेन देवेशि शतकृत्वः पठेत् स्तवम् ।
इति ते कथितं मातुः स्तोत्रं कण्ठविभूषणम् ॥ ७-७७॥ १५॥
मद्भक्तेभ्यो महेशानि प्रकाशमुपपादय ।
अप्रकाश्यमिदं स्तोत्रं न देयं यस्य कस्यचित् ॥ ७-७८॥ १६॥
दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितोऽपि यः ।
सत्कुलीनाय शान्ताय ऋजवे दम्भवर्जिने ॥ ७-७९॥ १७॥
दद्यात् स्तोत्रं महेशानि नान्यथा फलभाग् भवेत् ।
अष्टादशपुराणेषु वेदव्यासेन कीर्तितम् ॥ ७-८०॥ १८॥
इति बृहन्नीलतन्त्रे सप्तमः पटले ६४-८० शान्तिस्तोत्रं सम्पूर्णम् ।
श्लोकाणि ६४-८०)
Proofread by Aruna Narayanan