श्रीदेवीस्तोत्रम् ४
%४९
शुम्भनिशुम्भलुलायमुखघ्नी
या मघवन्मुखलेखभयघ्नी ।
सन्मतिदे निजभीतिविनिघ्नी
सद्गतिदेशकला भवनिघ्नी ॥ १॥
सा त्वमयीश्वरि शर्म विधेहि
स्वे मयि धीश्वरि वर्म च देहि ।
स्वीयकटाक्षनिरीक्षणरूपं
येन भवेदवितं निजरूपम् ॥ २॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं देवीस्तोत्रं सम्पूर्णम् ।