देवीस्तवनम् मनुकृतम्
मनुरुवाच -
जय देवि विशालाक्षि जय सर्वान्तरस्थिते ॥ १॥
मान्ये पूज्ये जगद्धात्रि सर्वमङ्गलमङ्गले ।
त्वत्कटाक्षावलोकेन पद्मभूः सृजते जगत् ॥ २॥
वैकुण्ठः पालयत्येव हरः संहरते क्षणात् ।
शचीपतिस्त्रिलोक्याश्च शासको भवदाज्ञया ॥ ३॥
प्राणिनः शिक्षयत्येव दण्डेन च परेतराट् ।
यादसामधिपः पाशी पालनं मादृशामपि ॥ ४॥
कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः ।
हुतभुङ्नैरृतो वायुरीशानः शेष एव च ॥ ५॥
त्वदंशसम्भवा एव त्वच्छक्तिपरिबृंहिताः ।
अथापि यदि मे देवि वरो देयोऽस्ति साम्प्रतम् ॥ ६॥
तदा प्रह्वाः सर्गकार्ये विघ्ना नश्यन्तु मे शिवे ।
वाग्भवस्यापि मन्त्रस्य ये केचिदुपसेविनः ॥ ७॥
तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि ।
ये संवादमिमं देवि पठन्ति श्रावयन्ति च ॥ ८॥
तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे ।
जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा ॥ ९॥
ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि ।
पुत्रपौत्रसमृद्धिश्च जायेदित्येव मे वचः ॥ १०॥
इति श्रीमद्देवीभागवतमहापुराणे दशम स्कन्धान्तरगतम्
प्रथमोऽध्याये मनुकृतं देवीस्तवनं सम्पूर्णम् ।
Verses 15 through 24
Encoded and proofread by Vishwas Bhide, PSA Easwaran