श्रीदेवीपूजाविधानम्
तत्रादौ राधिकामन्त्रं शृणु नारद भक्तितः ॥
ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः ।
श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम् ॥ १॥
षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः ।
मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः ॥ २॥
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते ॥ ३॥
जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः ।
उपदेशान्मूलदेव्या गोलोके रासमण्डले ॥ ४॥
विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा ।
तेन धर्मस्तेन चाहमित्येषा हि परम्परा ॥ ५॥
अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः ।
ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा ॥ ६॥
कृष्णार्चायां नाधिकारो यतो राधार्चनं विना ।
वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम् ॥ ७॥
कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः ।
रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति ॥ ८॥
राध्नोति सकलात्कामांस्तस्माद्राधेति कीर्तिता ।
अत्रोक्तानां मनूनां च ऋषिरस्याहमेव च ॥ ९॥
छन्दश्च देवी गायत्री देवतात्र च राधिका ।
तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता ॥ १०॥
मूलावृत्या षडङ्गानि कर्तव्यानीतरत्र च ।
अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम् ॥ ११॥
पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया ।
श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम् ॥ १२॥
कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् ।
बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम् ॥ १३॥
कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजिताम् ।
क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम् ॥ १४॥
ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् ।
सदा द्वादशवर्षीयां रत्नभुषणभूषिताम् ॥ १५॥
शृङ्गारसिन्धुलहरीं भक्तानुग्रहकातराम् ।
मल्लिकामालतीमालाकेशपाशविराजिताम् ॥ १६॥
सुकुमाराङ्गलतिकां रासमण्डलमध्यागाम् ।
वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम् ॥ १७॥
रत्नसिंहासनासीनां गोपीमण्डलनायिकाम् ।
कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम् ॥ १८॥
एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा ।
यन्त्रे वाऽष्टदले देवीं पूजयेत्तु विधानतः ॥ १९॥
आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् ।
मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत् ॥ २०॥
पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् ।
मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया ॥ २१॥
मधुपर्कं ततो दद्यादेकां गां च पयस्विनीम् ।
ततो नयेत्स्नानशालां तां च तत्रैव भावयेत् ॥ २२॥
अभ्यङ्गादिस्नानविधिं कल्पयित्वाथ वाससी ।
ततश्च चन्दनं दद्यान्नानालङ्कारपूर्वकम् ॥ २३॥
पुष्पमाला बहुविधास्तुलसीमञ्जरीयुताः ।
पारिजातप्रसूनानि शतपत्रादिकानि च ॥ २४॥
ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः ।
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ॥ २५॥
कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः ।
मालावतीमग्रदले वह्निकोणे च माधवीम् ॥ २६॥
रत्नमालां दक्षिणे च नैरृत्ये तु सुशीलकाम् ।
पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः ॥ २७॥
मारुते पारिजातां चाप्युत्तरे च परावतीम् ।
ईशानकोणे सम्पूज्या सुन्दरी प्रियकारिणी ॥ २८॥
ब्राह्म्यादयस्तु तद्बाह्येऽप्याशापालांस्तु भूपुरे ।
वज्रादिकान्यायुधानि देवीमित्थं प्रपूजयेत् ॥ २९॥
ततो देवीं सावरणां गन्धाद्यैरूपचारकैः ।
राजोपचारसहितैः पूजयेन्मतिमान्नरः ॥ ३०॥
ततः स्तुवीत देवेशीं स्तोत्रैर्नामसहस्रकैः ।
सहस्रसङ्ख्यं च जपं नित्यं कुर्यात्प्रयत्नतः ॥ ३१॥
य एवं पूजयेद्देवीं राधां रासेश्वरीं पराम् ।
स भवेद्विष्णुतुल्यस्तु गोलोकं याति सन्ततम् ॥ ३२॥
यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सवं बुधः ।
कुरुते तस्य सान्निध्यं दद्याद्रासेश्वरी परा ॥ ३३॥
केनचित्कारणेनैव राधा वृन्दावने वने ।
वृषभानुसुता जाता गोलोकस्थायिनी सदा ॥ ३४॥
अत्रोक्तानां तु मन्त्राणां वर्णसङ्ख्याविधानतः ।
पुरश्चरणकर्मोक्तं दशांशं होममाचरेत् ॥ ३५॥
तिलैस्त्रिस्वादुसंयुक्तैर्जुहुयाद्भक्तिभावतः ।
नारद उवाच
स्तोत्रं वद मुने सम्यग्येन देवी प्रसीदति ॥ ३६॥
श्रीनारायण उवाच
नमस्ते परमेशानि रासमण्डलवासिनि ।
रासेश्वरि नमस्तेऽस्तु कृष्णप्राणाधिकप्रिये ॥ ३७॥
नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे ।
ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमानपदाम्बुजे ॥ ३८॥
नमः सरस्वतीरूपे नमः सावित्रि शङ्करि ।
गङ्गापद्मावतीरूपे षष्ठि मङ्गलचण्डिके ॥ ३९॥
नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरूपिणि ।
नमो दुर्गे भगवति नमस्ते सर्वरूपिणि ॥ ४०॥
मूलप्रकृतिरूपां त्वां भजामः करुणार्णवाम् ।
संसारसागरादस्मानुद्धराम्ब दयां कुरु ॥ ४१॥
इदं स्तोत्रं त्रिसन्ध्यं यः पठेद्राधां स्मरन्नरः ।
न तस्य दुर्लभं किञ्चित्कदाचिच्च भविष्यति ॥ ४२॥
देहान्ते च वसेन्नित्यं गोलोके रासमण्डले ।
इदं रहस्यं परमं न चाख्येयं तु कस्यचित् ॥ ४३॥
इति श्रीदेवीभागवते नवमस्कन्धे पञ्चाशत्तमेऽध्याये
देवी पूजाविधानं समाप्तम् ॥
From kalyANamanjarI, dvitIya bhAgaH rAdhAkalyaNam
sangrahItaM rA. dattagopAlakRRiShNaH, svarNaprakAshanam
Proofread by PSA Easwaran