श्रीदेवीनवरत्नमालिकास्तोत्रम्
बालायाश्चरणद्वन्द्वमाश्रयेऽभीष्टसिद्धये ।
लोलायाः कुमुदानन्दबालचुम्बितमस्तके ॥ १॥
बालाम्बिकां नौमि पिनाकपाणेर्वामार्थरूपां परमार्थदात्रीम् ।
संसारपाथोनिधिपारमाशु नतान्नयन्तीं नवभानुरूपाम् ॥ २॥
मूकोऽपि काव्यं प्रकरोति यस्याः कारुण्यतश्चित्रपदार्थरम्यम् ।
सा मे प्रसीदत्वगराजकन्या मान्या सुराणां कवितावदान्या ॥ ३॥
कम्बुकण्ठि करुणामृतराशे शङ्खधृङ्मुखसुराग्र्यनिषेव्ये ।
अम्बुजप्रतिमकेशसमूहे शम्बरार्यहितकामिनि पाहि ॥ ४॥
यशःपूगदात्रीं तमःपारदात्रीं रहःपूजनेष्टां तपःपूर्णचित्ताम् ।
गिरीन्द्रस्य पुत्रीं जवात्कालहन्त्रीं नमस्यामि कारुण्यपूर्णेक्षणां त्वाम् ॥ ५॥
विध्यण्डमण्डलविनिर्मितिदक्षलीलां
विध्वर्भकप्रविलसन्मकुटैकलोलाम् ।
शुभ्राभ्रदुग्धपरिहाससमर्थचेलां
शुद्धान्तरङ्गविदितां प्रणतोऽस्मि बालाम् ॥ ६॥
मातर्बाधिर्यमूकीभवनमुखमहारोगसम्पीडिताङ्गा
भूताविष्टाश्च तत्तत्प्रशमनमचिरात्काङ्क्षमाणाः सुदूरात् ।
आगत्याश्वेव तत्तत्प्रशमनपटुतां मन्यमाना जनेऽस्मि-
न्याचन्ते किं प्रकुर्यां वद तुहिनगिरीशानपुत्रीन्दुमौले ॥ ७॥
भक्तानामतिशीघ्रमिष्टफलदां सक्तां गिरीशे मुदा
मुक्ताहारविभूषितस्तनयुगां त्यक्ताभिलाषैर्नुताम् ।
शक्तां कौतुकतः प्रपञ्चजनने रक्ताम्बरां भावये
सिक्तां कुम्भिकराग्रकुम्भसलिलैर्युक्तां गजास्यादिभिः ॥ ८॥
कल्याणानि करोतु कापि तरुणी कामारिसम्मोहिनी
कल्याणाचलमध्यशृङ्गवसतिः कल्या प्रणम्रावने ।
प्रालेयाचलवर्यमात्मजननस्याधारमातन्वतीं
नैजान्तःकरणार्द्रतां प्रणमतां प्रख्यापयत्याशु या ॥ ९॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीदेवीनवरत्नमालिकास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com