देवी महिम्नस्तोत्रम्
चन्द्रचूड उवाच-
त्वमन्तस्त्वं पश्चात्त्वमसि पुरतस्त्वं च परत-
स्त्वमूर्ध्वं त्वं चाधस्त्वमसि खलुलोकान्तर चरी ।
त्वमिन्द्रस्त्वं चन्द्रस्त्वमसि निगमानामुपनिषत्
तवाहं दासोऽस्मि त्रिपुरहररामे कुरु कृपाम् ॥ १॥
इयान् कालः सृष्टेः प्रभृति बहुकष्टेन गमितो
विना यत्त्वत्सेवां करुणरसकल्लोलिनि शिवे ।
तदेतद्दौर्भाग्यं विषयतृष्णाख्यरिपुणा
हतः शुद्धानन्दं स्पृशिमि तव सिद्धेश्वरि पदम् ॥ २॥
सुधाधारावृष्टेस्तव जननि दृष्टेर्विषयतां
वयं यामो दामोदर भगिनि भाग्येन फलितम् ।
इदानीं भूतानां ध्रुवमुपरि भूताः परमुदा
न वाञ्छामो मोक्षं विपिन पथि कक्षं जरदिव ॥ ३॥
जपादौ नो सक्ता हरगृहिणि भक्ताः करुणया
भवत्या होमत्या कति कति न भावेन गमिताः ।
चिदानन्दाकारं भवजलधिपारं निजपदं
न ते मातुर्गर्भे जननि तव गर्भे यदि गताः ॥ ४॥
चिदेवेदं सर्वं श्रुतिरिति भवत्याः स्तुतिकथा
प्रियं भात्यस्तीति त्रिविधमपि रूपं तव शिवे ।
अणुर्दीर्घं ह्रस्वं महदजरमन्तादिरहितं
त्वमेव ब्रह्मासि त्वदपरमुदारं न गिरिजे ॥ ५॥
त्वयाऽन्तर्यामिन्या भगवति वशिन्याऽऽदिसहिते
विधीयन्ते भावा मनसि जगतामित्युपनिषत् ।
अहं कर्तेत्यन्तर्विशतु मम बुद्धिः कथमुमे
सुबुद्धिस्त्वद्भक्तो न भवति कुबुद्धिः क्वचिदपि ॥ ६॥
न मन्त्रं तन्त्रं वा किमपि खलु विद्मो गिरिसुते
क्व यामः किं कुर्मस्तव चरणसेवा न रचिता ।
अये मातः प्रातः प्रभृति दिवसास्तावधि वयं
कुबुध्याऽहङ्कार्यी शिव शिव न यामो निज वयः ॥ ७॥
इहामुष्मिँल्लोके ह्यपि न विषये प्रेमकरवे
न मे वैरी कश्चिद्भगवति भवानि त्रिभुवने ।
गुणान्नामाधारं निगम गणसारं तव पदं
मनो वारं वारं जपति च विनोदं च भजते ॥ ८॥
महामाये काये मम भवति यादृक्खलु मनो
मनस्ते सङ्ख्याने न हि तादृक्कथमुमे ।
त्वमेवान्तर्मातर्निगमयसि बुद्धिं त्रिजगतां
न जाने श्रीजानेरपि न विदितस्तेऽत्र महिमा ॥ ९॥
अमीषां वर्णानां क्रतुकरणसम्पूर्णवयसां
निकाम्यं काव्यानामुरसि समुदायं प्रकटितम् ।
स्तनौ मेरू मत्वा स्थगितममृतोपाख्यमुभयं
दयाधाराधारं मम जननि हारं तव भजे ॥ १०॥
स्तनद्वन्द्वं स्कन्दद्विपमुखमुखे यत्स्नुतमुखं
कदाचिन्मे मातर्वितरतु मुखे स्तन्यकणिकाम् ।
अनेनायं धन्यो जगदुपरि मान्योऽपि भवतां
कुपुत्रे सत्पुत्रे न हि भवति मातुर्विषमता ॥ ११॥
जगन्मूलं शूलं ह्यनुभवति कूलं कथमिदं
द्विधाकुर्वे सर्वेश्वरि मम तु गर्वेण फलितम् ।
पदद्वन्द्वं द्वन्द्वं व्यतिकरहरं द्वन्द्वसुखदं
गुणा रामे रामे कलय हृदि कामेश्वरि सदा ॥ १२॥
अहोरात्रं गात्रं समजनि न पात्रं मम मुदा
धनायत्तं चित्तं तृणमपि तु निश्चित्तमभवत् ।
इदानीमानीता कथमपि भवानी हृदि मया
स्थितं मन्ये धन्ये पथि कथमधन्येह मुचितः ॥ १३॥
निराकारामारादधि हृदयमाराधितवता
मया मायातीता सितसकलकायापहतये ।
अहं कोऽहं सोऽहं मतिरिति विमोहं हतवति
कृताहन्तानन्तामुपनयति सन्तानकवति ॥ १४॥
त्वदङ्घ्रेरुद्द्योतादरुणकिरणश्रेणिगमना-
त्समुद्भूता ये ये जगति जयिनः शोणमणयः ।
त एते सर्वेषां शिरसि विदुषां भान्ति भुवने
त्वदीयादन्यः को भवति जनवन्द्योऽद्य गिरिजे ॥ १५॥
अकार्षीत्सोऽमर्षी भुवनमपरं गाधितनयः
शशा पान्यो लक्ष्मीमपिबदपरो ह्यर्णवमिति ।
सपर्यामाहात्म्यं तव जननि तादात्म्यफलदं
कियद्वक्ष्ये यक्षेश्वरकिरणदत्तं भगवति ॥ १६॥
अमी देवाः सेवां विदधति यतो मञ्चकतया
शिवोऽप्यच्छच्छायारचितरुचिर प्रच्छदतया ।
कृतार्थीकर्तुं मां परमशिव वामाङ्कनिलया
परब्रह्मस्फूर्तिस्तव जयति मूर्तिः सकरुणा ॥ १७॥
समुद्धर्तुं भक्तान् प्रभवति विहर्तुं जगदिदं
गतिं वायोर्बद्ध्वा विनिमयति रूपं च नियमात् ।
यदृच्छा यस्येच्छा न च भजन विच्छेद भयतो
नमस्ते भक्ताय ध्रुवभजनसक्ताय गिरिजे ॥ १८॥
उमा माया माता कमलनयना कृष्णभगिनी
भवानी दुर्गाऽम्बा मतिरमरलक्ष्मीति तरला ।
महाविद्या देवी प्रकृतिरजजायेति जपतां
भवन्ति श्रीविद्ये तव जननि नामानि निधयः ॥ १९॥
दिशां पाला बाला हरहरिसरोजासनमुखा-
स्त्वया दुर्गे सर्वे कति कति न भक्ता अधिकृताः ।
स्वयं रक्ता भक्तावहमधिकृतो नाधिमगमं
सुखे वा दुःखे वा मम समतया यान्तु दिवसाः ॥ २०॥
भवत्या भक्तानां यदि किमपि कश्चिद्विधिकृते
पुरो वा पश्चाद्वा कपटदुरितेर्षापरवशः ।
जनश्चेत्संन्यासादपि जपति नारायणपदं
ततोऽप्येनं देवी नयनपथवीथीं गमयति ॥ २१॥
क्रिया व कर्ता वा करणमपि वा कर्म यदि वा
प्रणीयन्ते चेष्टा जगति पुरुषैर्भावकलुषैः ।
समर्प्य स्वात्मानं तव तु पदयोरिन्द्रपदवी-
मिदं वा तद्विष्णोर्गणयति न भक्तोऽयमचलः ॥ २२॥
स्वयं माया कार्याद्युदयकरणे कौतुकवती
शिवादीनां सर्गस्थितिविलयकर्माणि बिभृषे ।
अयं भक्तो नाम्नां भगवति शुभः स्यात्तव यदा
भवान्या भक्तानामशुभमपरं तेऽपि न कृतम् ॥ २३॥
धरित्री ह्यम्भोधिस्त्वमपि दहनस्त्वं च पवन-
स्त्वमाकाशस्त्वं च ग्रसति पुरुषस्तेन सहितम् ।
ग्रसन्ती ब्रह्माण्डं प्रकृतिरपि दासी पशुपते-
र्यदासीत्संहारे जननि तव संहारमहिमा ॥ २४॥
स्फुरत्तारा माल्यं ग्रहनिवहनीराजनविधि-
र्हविर्धूमो धूपो मलयपवमानः परिमलः ।
इदं ते नैवेद्यं विविध रसवेद्यं खलु सुखं
सपर्या मर्यादा ध्रुवमियमुमे ब्रह्मनिलये ॥ २५॥
नवाधारा सृष्टिः स्फुटितनवधाशब्दरचना
नवानां खेटानामुपरि नवधाऽप्यर्चितपदे ।
नवानां सङ्ख्यानां प्रकृतिरगराजन्यतनये
नवद्वीपी देवी त्वमसि नवचक्रेश्वरि शिवे ॥ २६॥
यदाऽकृष्याकृष्यातपति भवदम्बा क्व नु गता
बलात्कारादारादिति यमभटे नाम विधया ।
तदैवैनं दीनं स्पृशति वदने प्रश्रयवती
विधूयाम्बा धूर्तं गुहमपि धयन्तं भगवती ॥ २७॥
हविर्धाने गीतं श्रुतिशिरसि निर्धारितमितं
शिवस्यार्धाङ्गस्थं परममहदद्धा मम मनः ।
यदाऽऽचक्षाणस्ते चरणतललाक्षासजलै-
र्मुखं प्रक्षाल्यायं गणयति न लक्षाणि कृतिनाम् ॥ २८॥
गुरूणां सर्वेषामयमुपरि विद्यागुरुरभून्
मनूनां सर्वेषामयमुपरि जातो भुवमनुः ।
कलानां सर्वासामियमुपरि लक्ष्मीः परकला
महिम्नां सर्वेषामयमुपरि जागर्ति महिमा ॥ २९॥
यदाऽऽलापादापादितविविधविद्यापरिणतिः
करे कृत्वा मोक्षं व्यवहरति लोकं प्रभुतया ।
प्रणादेवाशाये प्रभवति दुरापे च पुरुष-
स्तदेतन्माहात्म्यं विरलजनसारम्यं तव शिवे ॥ ३०॥
याभिः शङ्कर कालकृत्यदहनज्वालासमुत्सारणं
याभिः शुम्भनिशुम्भदर्पदलनं याभिर्जगन्मोहनम् ।
याभिभैरवभीमरूपदलनं सद्यः कृतं मेऽन्वहं
दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ ३१॥
याभिर्दुर्गतया कुशासनपुनःस्वाराज्यदानं कृतं
याभिर्भारतसंसदि द्रुपदजा लज्जा जवाद्रक्षिता ।
याभिः कृष्णगृहीतहस्तकमलैस्त्राणं कृतं मेऽन्वहं
दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ ३२॥
याभिर्विष्णुकृते कृतं कुरुकुलप्रध्वंसनं सङ्गरे
प्राद्युम्नेर्हृदि मुद्गरस्य कुसुमस्रग्याभिराकल्पिता ।
कंसाद्याभिरपि व्यधायि वसुधा गोपालगोपायनं
दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ ३३॥
याभिः स्थावरजङ्गमं कृतमिदं याभिः सदा पालितं
याभिर्भासितमाक्रमेण च पुनर्याभिः सदा संहृतम् ।
याभिर्दुःखमहाम्भसो भवमहासिन्धोर्न के तारिता
दारिद्यं दलयन्तु तास्तव दृशो दुर्गे दयामेदुराः ॥ ३४॥
॥ इति देवी महिम्नस्तोत्रं सम्पूर्णम् ॥