श्रीचेल्लूरपुरीशस्तवः
लक्ष्मीविद्युद्विलासः प्रसृमरकरुणासारवर्ष्मप्रकर्षः
कुर्वाणो नीलकण्ठं प्रमदपरवशं चन्द्रकोद्भासमानम् ।
सच्चेतश्चातकानां सपदि विरचय न्धारयानन्दपूरं
दृष्टोऽयं सङ्गमाख्ये महति पुरवरे श्यामलः कोऽपि मेघः ॥ १॥
चित्रं जनाः शृणुत सङ्गमरङ्गभाजो
लक्ष्मीसखस्य पुरतः पुरुषोत्तमस्य ।
मध्येकुलीपिनि निमज्य भवाम्बुराशे-
रुद्धृतपङ्कमुदमज्जि मया किमेतत् ॥ २॥
कर्णायुष्यमुदञ्चयत्यहरहः श्रीशम्बराध्यासिनो
बालस्याम्बुदमेचकस्य मधुरो वेणुध्वनिर्विश्रुतः ।
वृक्षान् पल्लवयन् शिलास्तरलयन्नम्भांसि च स्तम्भयन्
गोपस्त्रीकुचमण्डलीः पुलकयंस्तापत्रयं खण्डयन् ॥ ३॥
तेजांसि मानसे मे दृढकुचकुम्भानि दलितसुम्भानि ।
विद्यात्मकानि कान्यपि विद्यन्ते कान्तितुलितविद्युन्ति ॥ ४॥
जननमरणक्लेशच्छेदाय जाग्रति तावके
चरणकमले मातर्हा हन्त मोहवशादहम् ।
अधनिकसदनं धावन्धावं निजोदरभस्त्रिका-
भरणविधये कष्टं कष्टं भ्रमामि कियचिरम् ॥ ५॥
उत्पन्नमात्रक्षणमुक्तमाया-
स्त्रैणत्य विष्णोः स्तनपानलोभात् ।
मुधैव चुन्बन्तमुरो मुखेन
शास्तारमीडे सकलार्थसिद्धयै ॥ ६॥
यहोरन्तरमम्बुराशिसुकृतोन्मेषेण शृङ्गारितं
यन्नाभीकमले चरन्मधुकरो निर्मादुमीष्टे जगत् ।
यन्नेत्रद्वयमातनोति जगतां नक्तन्दिनाप्रक्रमं
नावाक्षेत्रविहारिणी विजयते काचिन्महःप्राचुरी ॥ ७॥
शब्दब्रह्मचणं यदीयतलिमं छन्दांसि यद्वाहनं
वक्षो यस्य महाम्बुराशितपसां पाकेन कल्लोलितम् ।
विश्वोत्पत्तिनिदानसूतिसदनं यन्नाभिपकेरुहं
सोऽयं कोऽपि मुरारिनामनि पुरे देवो दरीदृश्यते ॥ ८॥
प्रादुस्सन्तु पुरः पुरत्रयवधूबिब्बोकसम्पद्द्रुहः
श्रीचेल्लूरपुरीनिवासरसिकारतेजोविलासा मम ।
येषु ध्यानपथं गतेषु भविता नॄणां फणी भूषणम् ।
वामाङ्गं वनिता दिशश्च वसनं भागीरथी मालिका ॥ ९॥
ये ध्यायन्ति निषेदुषीमुपपटं व्याख्यानमुद्रासखीं
मूर्तिं ते मुनिमानसैकसुगमां मुग्धेन्दुचूडामणे ।
तेषामाशु विनिःसरन्ति वदनात् सङ्क्रन्दनारामभू-
मन्दारद्रुमकोरकस्रुतसुधामाधुर्यधुर्या गिरः ॥ १०॥
उत्कूलप्रणयातिरेकमुदयद्रोमाञ्चपुञ्जं मुहुः-
प्रत्याख्यानपरैकभागवचनं चेल्लूरपुर्यामहो ।
नीवीस्पर्शविलोलदक्षिणकरव्यापाररोधक्रिया-
वैयग्र्याकुलवामपाणि शिवयोरैक्यं परिक्रीडते ॥ ११॥
नीहाराहार्यकन्यामृदुलभुजलतालिङ्गनोत्कण्ठकण्ठः
खण्डं बिभ्रकिरीटे कमपि कुवलयानन्दनाडिन्धमांशुम् ।
ब्रह्मक्षेत्रे पवित्रे परिचितकरुणः पोरस्फुरीत्याश्रितानां
निर्भिन्दन् मोहबन्धानकृतकवचसां निश्चितः कश्चिदर्थः ॥ १२॥
घोरघ्राणमुदग्रहुङ्कृतिमिलद्धर्माम्बु लम्बाधरं
व्याविद्धभ्रुकुटीकठोरनिटिलं वान्तस्फुलिङ्गेक्षणम् ।
विद्युत्पाटलकेशमुग्रदशनं विष्टब्धकर्णद्वयं
वक्त्रं मृत्युभटस्य शङ्कर नहि त्वद्भक्तिमान् पश्यति ॥ १३॥
भजत जननीमेकां लोकत्रयस्य दयामयीं
पतत सुधियो मा मा भीमे पुनर्भववारिधौ ।
अकृतकवचोवेद्यामाद्यामपा (ङ्गित) शङ्करां
मृदितमहिषां मुक्तिक्षेत्रे मुकुन्दसहोदरीम् ॥ १४॥
ब्रह्मक्षेत्रेश शम्भो त्वदपरममरं यद्यहं वर्णयिष्ये
कण्ठे कुण्ठप्रचारं स्खलति मम वचो जालकर्मीलदर्थं (?) ।
तिष्टूषे चेद्भवन्तं त्रिपुरहर गिरां मन्मुखाम्भोजगर्भात्
जृम्भन्ते केऽपि गुम्भा बलमथनधुनीपद्धतिस्पर्धिनीनाम् ॥ १५॥
भूधराधिपसुतामुखपद्मप्रभ्रमद्भ्रमरविभ्रमनेत्रः ।
बोभवीति भवभीतिविभेदी श्रीविभीतकपुरे पुरमाथी ॥ १६॥
योगीन्द्रमानससरोरुहषट्पदाय
शैलेन्द्रजानयनषट्पदपङ्कजाय ।
अज्ञानरूपतिमिरौघदिवाकराय
भक्तार्तिभञ्जनपराय नमो नमस्ते ॥ १७॥
मुहुर्भिन्तादिन्दुर्मकुटगृहमेधी पुररिपोः
परक्रोडक्रीडानिलयनजुषो मोहतिमिरम् ।
कुचे गौर्या हारा इव मृदुलहासा इव मुखे
नवा मल्लीमाला इव कचभरे यस्य किरणाः ॥ १८॥
काणाः किं कङ्कणस्य त्रिपुरविजयिनो नृत्यतश्चित्तरङ्गे
किं वा तस्यैव चूडाघुमुघुमितवियद्वाहिनीवीचिरावाः ।
आहोस्विद्वक्त्रखेलत्कमलजमहिलाश्रोणिकाञ्चीनिनादा
वाचस्ते विक्रमक्ष्मावलमथन मुखाम्भोरुहान्निस्सरन्ति ॥ १९॥
कर्णं सावर्णमर्णोमुचममितशुचं दीनवाचं दधीचं
चिन्तालग्नं धुरत्नं शिबिमपशिविकं स्वर्गवीं (पङ्) गुवीर्याम् ।
शश्वद्विश्राणनश्रीः शिव शिव दिविषद्द्रून् विषद्रून् विधत्ते ।
विश्वोत्तीर्णस्य विश्वम्भरचरितनिधे विक्रमक्ष्मापते ते ॥ २०॥
प्रक्रीडत्कार्तवीर्यार्जुनभुजविधृतोन्मुक्तसोमोद्भवाग्भ-
स्सम्भारक्षोभसम्भेदनचतुरवचोगुम्भगम्भीरिमश्रीः ।
तुण्डीरक्षोणिखण्डादिह तव विषयेऽहिण्डतोद्दण्डसूरिः
सोऽयं ते विक्रमक्षोणिप किमु न गतः श्रोत्रियः श्रोत्रदेशम् ॥ २१॥
पुष्णन्नेवमहर्निशं द्विजगणान् मृष्टान्नदानक्रमैः
श्रीकण्ठक्षितिपाल जीवतु भवानाचन्द्रमातारकम् ।
स्तावं स्तान्दममी वयं च भवतः कीर्तिं दिशं दक्षिणा-
माढौक्य प्रतियाम कैरपि दिनैः कर्तुं पुनर्दर्शनम् ॥ २२॥
दृष्टं मया मणिकवाटपुटान्तराले
श्रुत्यन्तचुम्बिनयनोदितकामतन्त्रम् ।
मुग्धस्मिताङ्कुरविकस्वरगण्डमूल-
मुद्यन्मृगाङ्करुचिरं मुखमुत्तरायाः ॥ २३॥
बदनगलितलालं मातुरुत्सङ्गलोलं-
तरलचिकुरजालं स्तन्यपानानुकूलम् ।
निखिलभुवनमूलं चेतसा सार्वकालं
बलभिदुपलनीलं बालमालोकयामः ॥ २४॥
जीयासुर्जनिधर्मतप्तसुमनश्चेतःसुधावृष्टयो
मायावल्लवबालकस्य मधुरा वंशीनिनादाकुराः ।
ये शश्वत स्थगयन्ति गोपसुदृशां नीरन्ध्ररोमोद्रम-
श्रेणीकञ्चुलिभिर्विमूढमनसां स्रस्तोत्तरीयान् कुचान् ॥ २५॥
अङ्गणे घटितरिङ्खणं चलितकिङ्किणीकृतझणझणं
चञ्चलालककुलाफुलं तरललोचनं जननमोचनम् ।
अङ्कुरद्विशददन्तकुड्मलविलोभनीयवदनाम्बुजं
शम्म्बरे कमपि चिन्तयामि शिशुमिन्द्रनीलमणिमेचकम् ॥ २६॥
आकुलाकुलविनीलकुन्तलं गोकुलानुगतिकेलिलालसम् ।
आकपोलमनुलिप्तकज्जलं लोकपालकमुपैमि बालकम् ॥ २७॥
व्यत्यासाहित पादयापि वलितग्रीवाभिरामश्रिया
सत्यानन्दघनस्वरूपवपुषः स्थित्या जगन्मोहयन् ।
वंशारावसुधारसैरपहरन् संसारतापं सता
उत्तंसायितबर्हभारसुभगः कंसारिरास्तां मुदे ॥ २८॥
चञ्चलीकरणमञ्जुकुञ्चितघनालकं ब्रजनितम्बिनी-
चञ्चलीकरणकेलिदुर्ललितवेणुमुद्रितमुखाम्बुजम् ।
पिञ्छभारकृतभूषणं मधुरभाषणं दुरितमोषणं
वञ्चनाकलितगोपवेषमुररीकरोमि परपूरूषम् ॥ २९॥
उत्तरललोचनमुलूखलनिबद्धं
भग्नयमलार्जुनमसज्जनविदूरम् ।
जानुकृतचङ्क्रमणसङ्कुलकराब्जं
ध्यायत नमस्कुरुत गायत किशोरम् ॥ ३०॥
धामपि पिङ्गलां च यमिनः कृत्वा सुषुम्नापथे
यत्नाद्वातमनाहतस्नुतसुधास्वादानुसन्धायिनः (?) ।
सत्यं ज्ञानमनन्तमुत्तमगुणं ध्यायन्ति यत्तत्पदं
तद्ब्रह्माणि ननु त्वमेव निगमैर्गौरीश जेगीयसे ॥ ३१॥
व्यक्ताव्यक्तमिदं जगत्प्रभवति त्वत्तः परं ज्योतिषः
तत्सर्व स्वयमात्मनो महिमतः संव्याप्य सन्त्रायसे ।
उत्पत्तिक्रमतस्तथैव तदिदं त्वय्येव संलीयते
चेल्लूरेश्वर दुर्विगाहमहहा चित्रं चरित्रं तव ॥ ३२॥
नेच्छा तुच्छतरे नरेन्द्रविभवे नापि स्मरस्मेरदृ-
ग्गौराङ्गीपरिभोगकेलिषु न च स्वर्गाधिराज्योदये ।
नो तत्राप्यपवर्गकुट्टिमपरिक्रीडासु किं त्वन्वहं
सेवायै स्पृहयामि केवलमहं चेल्लूरपुर्याः प्रभोः ॥ ३३॥
याचे किञ्चिदिदं कृताञ्जलिपुटं चेल्लूरपुर्याः पते
स्वामिन् वारय चन्द्रशेखर कृपावारान्निधे मामकीम् ।
द्वित्रग्रामटिकाधिपत्यकलिताहम्भावशुम्भन्मति-
क्षुद्रक्ष्माधवचाटुकोटिघटनादैन्यस्य दोग्ध्रीं दशाम् ॥ ३४॥
कण्ठग्राहिकफे स्खलद्गिरि चलद्बोधे गलन्मारुते
मीलच्चक्षुषि वेपमानहृदये काले सति प्रस्तुते ।
आरुह्म स्वयमद्रिराजसुतया साकं महाशाकरं
स्वामिन् शङ्कर सन्निधेहि कृपया चेल्लूरभूषामणे ॥ ३५॥
भिन्ता हृन्मौढ्यमाढ्यङ्करणमहिकुलग्रामणीदामनद्धं
मुग्धं मूर्धस्थलं ते कपिशरुचिजटामण्डनं कुण्डनाथ ।
युद्धक्रीडत्सुभद्रासहचरमहितारम्भदोस्तम्भघूर्ण-
द्गाण्डीवोद्दण्डदण्डाहतिघटितकिणग्रन्थिलं चन्द्रमौले ॥ ३६॥
मज्जन्तो मार्ष्टुकामा इव मदनवधूनव्यवैधव्यदाना
दुद्भूतं पातकौघं मुकुटतटवियद्वाहिनीवारिपूरे ।
कुर्वाणा भूषणाहिव्रजफणफलके दीप्रमाणिक्यशङ्कां
पिङ्गा नेत्रस्फुलिङ्गा झटितिपशुपते भस्मयन्त्वस्मदंहः ॥ ३७॥
पादाङ्गुष्ठं पुरारेर्भजत नवलतापल्लवाग्रान्म्रदिष्ठं
क्रीडास्पर्शेन यस्य प्रचयितशिखरन्यञ्चिते राजताद्रौ ।
अस्तव्यस्तारकेशोत्तरलदशमुखीदारुणाक्रन्दभिन्न-
ब्रह्माण्डो भूमिपृष्ठोल्लुठितभुजवनः पङ्क्तिकण्ठो जिहिण्डे ॥ ३८॥
आबद्धभ्रुकुटीविभङ्गमजहत्कौर्याङ्कुरं किङ्करं
भो भो श्राद्धपते वृथा मम कृते मा जित्वरं तत्वरः ।
पादाब्जं परिभाति चेतसि परक्रोडेशितुर्धूर्जटेः-
पूर्वं येन भवद्भुजान्तरशिलाकुट्टाकटङ्कायितम् ॥ ३९॥
कण्ठे कफैः कबलिते करणे सकम्पे
नेत्रे निमीलति मरुत्यपि मन्दमन्दे ।
सद्यः कणकनकनूपुरचारु मातः
प्रत्यक्षमस्तु चरणं परिपाटलं ते ॥ ४०॥
स्फुरन्ति मम चेतसि द्युतिनिरस्तकङ्केलयो
दृगञ्चलनियन्त्रितत्रिदशवाहिनीमौलयः ।
दुरन्तदुरिताचलप्रकरभेददम्भोलयः
कुसुम्भरुचिराधराः कुचभरानताः केलयः ॥ ४१॥
मकरन्दतुन्दिलशरं मधुरिमधौरेयचारुकोदण्डम् ।
पाशसृणिपाणि किञ्चन पाशुपतं भाग्यमाविरस्तु पुरः ॥ ४२॥
करतलकलितेक्षुकार्मुकाणां
कमलकुलारिकलावतंसितानाम् ।
पशुपतितपसां पचेलिमानां
परिचयवानहमस्मि पाटलिम्नाम् ॥ ४३॥
कृत्तिधरहस्तलालितनिस्तुलकुचविजितहस्तिमस्तरुचि ।
मुक्तिपुरे निस्तिमिरं मुग्धकुरङ्गाक्षमस्ति वस्तु परम् ॥ ४४॥
जय जय पोर्कलिमातरुमे तरुणारुणकोटिविमानरुचे
जगदभयङ्कर शङ्करभामिनि किङ्करितामरि तुङ्गकुचे ।
भवभयकम्पिनि सुम्भनिसुम्भनिसुम्भनसम्भृतचण्डतनो
त्रिभुवनपालिनि घोरकपालिनि शूलिनि खेलिनि पालय माम् ॥ ४५॥
समधिकदुर्मदमेदुरदारुकदानवदारुविदारविधा-
चटुलकठोरकुठारकृपाणतरालितपाटलपाणितलाम् ।
प्रणमत पोर्कलिमातरमातुरचातकजातपयोदघटां
धवलसटाकुलभासुरकेसरिकण्ठगतामविकुण्ठकृपाम् ॥ ४६॥
दिनमुखजृम्भभृदम्बुजसम्भृतदम्भसमृद्ध्युदरम्भरिदृग-
वलननिगुम्भितशम्बरशासनतन्त्रनियन्त्रितशङ्करया ।
निलयितमस्तु मनस्तु कयाचन हस्तिपनिस्तुलमस्तजयि-
स्तन(वि) (युग)भुग्नविलग्नवलत्त्रिवलीलवलीकुलया कलया ॥ ४७॥
परिचरणाचरणोचितखेचरराजपुरीचरचन्द्रमुखी-
करकलचालितचामरकोरकमारुतपोतकधूतकचे ।
सपदि विजृम्भय सम्पदमम्ब भयं परिकम्पय किञ्च दृशा
क्षणमनुकम्पय शम्भुकुटुम्बिनि तुङ्गनितम्बिनि कम्बुगले ॥ ४८॥
इति श्रीचेल्लूरपुरीशस्तवः सम्पूर्णः ।
Proofread by Rajesh Thyagarajan