श्रीचण्डिकास्तुतिः
विविक्ततर-गोमती-जठर-मध्य-सिद्धाश्रमां
पुरोगत-सरोवर-स्फुरदगाध-पाथश्छटाम् ।
विशाल-तलतुङ्ग-भूलुलित-निम्बमूलालयां
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ १॥
न लक्ष्य-घटनाश्रयां न च विशेष-वेश्मावहां
घटानुकृति-गोमती-वहन-भाव्यमानास्पदाम् ।
नमज्जन-मनोरथारचन-चारु-चिन्तामणिं
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ २॥
निरन्तर-समुल्लसत्कमल-कीर्ण-पाथोजिनी-
प्रतान-घनसम्पदा कमपि सम्मदं तन्वतीम् ।
त्रिकोण-सरसीमयीं, परिणतिं पुरो बिभ्रतीं,
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ३॥
अनुग्रह-रसच्छटामिव सरःश्रियं यान्तिके
विकासयति, पद्मिनीदल-सहस्रसन्दानिताम् ।
प्रतिक्षण-समुन्मिषत्प्रमद-मेदुरां तामहं,
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ४॥
प्रचण्डयति विक्रमं, झटिति खण्डयत्यापदः
सुमण्डयति वाक्कलां, सदसि दण्डयत्युद्धतान् ।
करण्डयति रोदसी, गुण-समृद्धिभिर्या हि तां
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ५॥
श्रुताऽभिलषिता, मता, सुकलिता, समभ्यर्चिता
सुधा-पृषत-वर्षिभिर्नवनवैर्वचोभिः स्तुता ।
जयाय खलु कल्पते बहुविधादृता, तामहं
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ६॥
इतस्तत उदित्वर-व्रततिनद्ध-वृक्षावली-
लुलद्विहग-मण्डली-मधुरराव-संसेविताम् ।
स्खलत्कुसुम-सौरभ-प्रसर-पूर्यमाणाश्रमां
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ७॥
द्विषत्कुल-कृपाणिकां, कुटिलकाल-विध्वंसिकां,
विपद्वन-कुठारिकां, त्रिविध-दुःख-निर्वासिकाम् ।
कृपाकुसुम-वाटिकां, प्रणत-भारती-भासिकां,
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ८॥
ब्रह्माण्डाधिक-देहापि गोमती-तीर-चङ्क्रमा ।
जयाय भजतां भूयाच्चण्डिका चण्ड-विक्रमा ॥ ९॥
इति दुर्गाप्रसादद्विवेदीविरचिता चण्डिकास्तुतिः समाप्ता ।
Encoded and proofread by Rajani Arjun Shankar