श्रीचण्डीरहस्यम्
यच्छक्तिलेशसकृदर्पणपात्रभाव-
मात्रादपि द्रुहिणशौरिमहेश्वराणाम् ।
प्राप्तो यदि श्रुतिशतैः परमात्मभाव-
स्तामम्ब देवि भवती किमिति स्तुवन्तु ॥ १॥
कृत्वा मुखं पशुपतिर्भवती किलैकां
निर्माति पालयति हन्ति जगन्ति देवः ।
तज्जामिताविपरिवृत्तिकृते तमेव
शम्भुं मुखं कृतवती भवतीति मन्ये ॥ २॥
विश्वं नियच्छति विशृङ्खलचेष्टितो यः
सोऽपि त्वया नियमनीय इति स्फुटं नः ।
वैवस्वतं चिकुरभावजुषं यदम्ब
बध्नासि वेणिकबरीग्रथनादिभेदैः ॥ ३॥
भ्रूकिङ्कराणि भुवनानि तव भ्रुवौ च
सन्ध्यात्मिके इति गृणन्ति यतोऽत एव ।
कर्माणि मातरितराणि करोतु मा वा
सन्ध्यां पुनर्भजत एव समस्तलोकः ॥ ४॥
जाता दृशो जननि पावकतेजसैव
तिस्रस्तवेत्यपि किमागमबोध्यमेतत् ।
पापान्यपाङ्गवलनैः परिमार्जतीनां
तासां च पावकपदे विचिकित्सते कः ॥ ५॥
मूल्यं न यस्य भुवनानि चतुर्दशापि
मुक्ताफलं वहति तत्तव नासिकेति ।
चित्रीयते किमपि चेतसि मे न मातः
किं राजराजपदवीं भजतामलभ्यम् ॥ ६॥
नासाधिकारमिह गन्धवहात्मकत्वं
देवि श्रुती स्वयमपाहरतां भवत्याः ।
सर्वाः श्रुतीरपि तु सा स्ववशे चकार
किं दुर्लभं त्रिषु जगत्सु धनेश्वराणाम् ॥ ७॥
प्राञ्चो जगज्जननि ये पतयः प्रजानां
ते देवि संववृतिरे दशनात्मना ते ।
नो चेत्तदन्तिकतले रसनाग्रभागे
किं भारती वसति किङ्करतां गतेव ॥ ८॥
स्वेनात्मना मुररिपुर्दनुजैर्विगृह्य
वारान् कतीह न बभार पराङ्मुखत्वम् ।
ओजायितुं स निरपायमुपायवेदी
बाह्यात्मना परिणतो नियतं भवत्याः ॥ ९॥
वर्षन् करो महिषमर्दनि ते वसूनि
प्रस्तूयतां कविजनैर्न ममाद्भुतं तत् ।
आसादिता वसुभिरङ्गुलिता यदीया
कस्तस्य शंस वसुवर्षविधौ प्रयासः ॥ १०॥
सोमेऽमृतं कतिचिदेव पुरा लभन्ते
तल्लभ्यमस्तु जगतामिति तर्कयन्त्या ।
नीतः पयोधरदशां स शिवे त्वया य-
दस्मादृशामयमतर्कितभाग्ययोगः ॥ ११॥
ब्रह्मर्षिशापभवया त्रपया महत्या
प्रागास्त यः क्वचन देवि सरस्यदृश्यः ।
नूनं स एष विबुधाधिपतिर्भवत्याः
प्राप्तो वलग्नपदवीमधुनाप्यदृश्यः ॥ १२॥
पादौ बभूव तव पद्मभवस्ततः किं
बाह्यात्मना परिणनाम हरिस्ततः किम् ।
सिद्धा नितम्बविधया वसुधा यदा ते
सिद्धस्तदा पुरहरस्य मनोरथोऽयम् ॥ १३॥
यद्वारुणं कथितमूरुयुगं सजङ्घ-
मिन्दीवरच्छदसकान्ति न वारुणं तत् ।
प्राचेतसं तदिह वर्णयितुं क्षमेत
प्राचेतसं कविकुलप्रथमं विना कः ॥ १४॥
वक्त्रैरकृत्रिमवचांसि वहन् विषण्णो
वेधाश्चिरं विपरिणम्य पदात्मना ते ।
सन्धार्यतेऽद्य शिरसा सकलैरमीभिः
क्लिष्टश्चिरात् किमुपयातु न जातु हर्षम् ॥ १५॥
बाह्यं तमो हरति यस्तपनः कथञ्चि-
त्पादौ तवाङ्गुलितयाम्ब भजन् स एव ।
अन्तस्तमांसि च हरत्यतिदुर्हराणि
किं सेन्यसेवनविधिर्न करोति पुंसाम् ॥ १६॥
देवेषु वासवमुखेषु निजां निधाय
शक्तिं यदम्ब समये पुनरग्रहीस्त्वम् ।
कर्पूरभाजननयादधुनापि ते ते
कीर्तिं वहन्ति कियतीमपि तावतैव ॥ १७॥
तेजांसि च प्रहरणानि च यानि यानि
देवेषु देवि निहितानि पुरा भवत्या ।
तान्येव निष्फलतराणि तदाश्रितानि
त्वत्स्वीकृतानि फलवन्ति बभूवुरित्थम् ॥ १८॥
शत्त्या यया दिविचरा अतिशेरतेऽस्मान्
सा च त्वमित्यवगतः सकलैश्च तन्त्रैः ।
किं त्वं विचारकुशलैरसि सेवनीया
किं देवतास्तव ऋजीषदशां प्रपन्नाः ॥ १९॥
इन्द्रं यजन्तु तव गर्भमुपासते ते
वह्निं यजन्तु नयने तव तर्पयन्ति ।
भानुं नमन्तु विनमन्ति पदाम्बुजं ते
सर्वं जगन्ननु समर्चति सर्वथा त्वाम् ॥ २०॥
केचित् प्रतीकमितरे तु समग्ररूप-
माराधयन्ति तव ये पुनरास्तिकाः स्युः ।
नास्तिक्यवादनिरता नरके पतन्तो-
ऽप्यम्ब स्तुवन्ति चिकुरात्मकमन्तकेन ॥ २१॥
शौरिं विबोध्य समराय तमुद्यमय्य
व्यामोह्य दानववरौ कृतसंविधाना ।
मातस्त्वमेव मधुकैटभयोर्निहन्त्री
शार्ङ्गी कृते भवति शस्त्रपदाभिषिक्तः ॥ २२॥
दैत्यौ वरं वितरतो निजनाशरूपं
दैत्यारये त्रिजगतां वरदो वरार्थी ।
इत्थं प्रचोदितधियां क्षममीश्वरत्वं
वृत्तेषु किं न सचिवोऽपि नृपं नियुङ्क्ते ॥ २३॥
न्यस्तं यदा शिरसि पादतलं भवत्या
लब्धं तदैव महिषेण परं पदं ते ।
हन्तुं पुनर्यदिदमाददिषे त्रिशूलं
तत्ते जगज्जननि सङ्गरसम्भ्रमेण ॥ २४॥
कस्त्वां रणे जयतु कस्तव हन्तु दर्पं
को वास्तु ते प्रतिभटो भविता पतिः कः ।
दैत्यं प्रतारयितुमेव कृतोऽभ्युपायो
देवं न विस्मृतवती भवती महेशम् ॥ २५॥
चण्डि द्विषस्तव निपेतुरपेतकृत्या-
श्चण्डाट्टहासनिनदैरिति नाद्भुतं नः ।
दृष्टक्रियस्त्रिषु पुरेषु तवाप्रसिद्धो
मन्दस्मितार्धमहिमा न हि मादृशानाम् ॥ २६॥
कर्माणि यानि दश ते जनभीषणानि
कल्याणदानि भजतामभिजानतां वा ।
तैरेव विश्वमखिलं परिवृत्तिभेदै-
र्बध्नासि मुञ्चसि च कुञ्चिकयेव यन्त्रम् ॥ २७॥
अन्वासितं हरिहरद्रुहिणैः सदारै-
र्जामातृभिस्तनुभवैर्दुहितुः सुतैश्च ।
अग्रोपवेशितजगज्जननीसमाज-
माराधये जननि रूपमनुत्तरं ते ॥ २८॥
सर्वानुकम्पनपरं स्वकृतोपदेशैः
सार्वज्ञगर्वशमनं तरुणेन्दुमौलेः ।
सत्त्वैकसारमकृतोक्तिपथानुसारं
सारस्वतं वपुरिदं तव चिन्तयामः ॥ २९॥
नन्दात्मजेति ननु वर्षसि हेमराशिं
शाकम्भरीति शमयस्युदरोपसर्गान् ।
योगीश्वरीति परिहृत्य भयानि भक्तान्
मातेव पाययसि कामदुघौ स्तनौ ते ॥ ३०॥
इच्छात्मिका पुरहरस्य चिदात्मिका च
शक्तिस्त्रिलोकविदिते न हि तत्र शङ्का ।
ते चार्चिते जनयतः किल यत्प्रसादं
तामाश्रये भगवतः कृतिशक्तिमाम्बाम् ॥ ३१॥
त्वं चेतनासि हृदयं त्वमसि प्रजानां
त्वं वृत्तयो धृतिमतिप्रमुखास्तदीयाः ।
कैः साधनैरभिमुखीकरणं तव स्यात्
स्वेनैव देवि दयसे यदि तद्दयेथाः ॥ ३२॥
त्वत्पूजनं यदिह जानदजानदर्हं
मातश्चकर्थ महती किल चातुरीयम् ।
जानद्भिरेव भवती यदि पूजनीया
लुप्येत पूजनकथैव जगत्त्रये ते ॥ ३३॥
यावत्परत्वमखिलागमबोधितं ते
तावत्ततः शतगुणं च सुखाश्रयासि ।
वेदास्त्वदर्चनविधानपरा हि नो चे-
दम्ब स्युरब्धितरणोक्तिवदप्रमाणम् ॥ ३४॥
प्राज्ञानभिज्ञसुलभां परिपूर्णशक्ति-
मव्याजभूतकरुणापरिणामरूपाम् ।
अम्बां मनागपि मनस्यवलम्बमाना
धीरा न बिभ्यति कथञ्चिदितोऽमुतो वा ॥ ३५॥
अभ्यर्थनीयमखिलं भवदाश्रिताना-
मभ्यर्थितं प्रथममेव हि देवसङ्घैः ।
अम्ब स्मरन्सफलयाम्यवशिष्टमायु-
रङ्गानि ते भुवनमङ्गलमङ्गलानि ॥ ३६॥
इति श्रीनीलकण्ठदीक्षितविरचितं चण्डीरहस्यं सम्पूर्णम् ॥
Proofread by Surya Maruvada, Ruma Dewan