श्री ब्रह्मचामुण्डिकास्तवः
वेदवक्त्रां चतुर्हस्तां सर्वालङ्कार भासुराम् ।
त्रिशूलं चाक्षमालां च पानपात्रं सिताम्बुजम् ॥ १॥
बिभ्रतीं रक्तवसनां करण्डमकुटान्विताम् ।
प्रेतासनां स्मरेद्देवीं ब्रह्मचामुण्डिरूपिणीम् ॥ २॥
उद्यद्भास्करसन्निभां त्रिणयनां वेदाननाब्जां चतु-
र्हस्तैरम्बुजशूलदामचषकान् सम्बिभ्रतीं शूलिनः ।
नृत्ताडम्बरधूर्वहां शिवमयीं प्रेतासनाध्यासिनीं
ध्यायेत्तिल्लवनेश्वरीं हृदि सदा श्रीब्रह्मचामुण्डिकाम् ॥ ३॥
ओङ्काराम्बुज संस्थितामुपनिषद्गीतापदानोत्तमां
ओड्याणादि चतुर्विधोन्नत महापीठाधिरूढां शिवाम् ।
ओजोदीप्तरवीन्दुवह्निमुखरामोघत्रयाभ्यर्चितां
वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ४॥
ब्रह्मेन्द्राग्नि मुखामरेडितपदां ब्रह्मांशजातां बृह-
च्छूलप्रोतनिशुम्भदैत्यहृदयां ब्राह्म्यादिभिः संवृताम् ।
बाधाहीनपदप्रदां बुधनुतां बन्धूकरागाम्बरां
वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ५॥
हर्यक्षासनसंस्थितां हयमुखागस्त्यादिपूज्यां हठात्-
कारध्वस्तबलोच्छ्रयासुरगणां हारावलीभासुराम् ।
हाहाहूहु मुखैः स्तुतां हुतवहज्वालाभकेशान्वितां
वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ६॥
चातुर्योक्तिविमोहितप्रियतमां चन्द्रार्कवह्नीक्षणां
चण्डानेकसुरान्तकान्तककरीं चापल्यहीनेष्टदाम् ।
चारुस्मेर चतुर्मुखां प्रबलदोश्शूलाक्षपात्राम्बुजां
वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ७॥
मुक्ताहारमनोहरां मुनिजनाभीष्टां मुकुन्दार्चितां
मुद्रामुद्रित मुण्डचण्डदनुजां मुक्तिप्रदां मोहिनीम् ।
मुग्धां मुग्धविभूषणां मुकुरसच्छायातपत्रामुमां
वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ८॥
डाकिन्यादिभिरावृतां डमरुनिध्वानप्रियां डामरीं
डिम्भप्रार्थिमहीसुरादि जनतास्तोत्रप्रपञ्चालयाम् ।
डोलाडम्बर नर्तनेश्वरवाक्प्रोत्साहितां डम्भिनीं
वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ९॥
नम्यां नम्रदिगीश्वरीं नगसुतां नारायणीं नर्तकीं
नानारत्नकिरीटकुण्डलधरां नित्यां नितान्तेष्टदाम् ।
नीहारेशधरां निशुम्भशमनीं निर्वैरिणीं निश्चलां
वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ १०॥
मोहध्वान्तरविप्रभां मधुरिमाकारां मरालोद्वहां
मायां माधवसोदरीं मरकतच्छायां मनोदूरगाम् ।
मान्यां माहिषमस्तकस्थितिजुषीं मारप्रियां मातरं
वन्देऽहं विपदं सदा शमयितुं श्रीब्रह्मचामुण्डिकाम् ॥ ११॥
एतं स्तोत्रवरं पठन्तु सुधियः सङ्कल्पकल्पद्रुमं
भूतप्रेतपिशाचमोहनकरं सर्वापदां नाशकम् ।
कान्तापुत्रधनप्रदं सरसवाग्वेगप्रदं सर्वदं
दुर्गापाङ्गकटाक्षपातनकरं दुःखाम्बुधेस्तारकम् ॥ १२॥
इति श्री ब्रह्मचामुण्डिकास्तवः सम्पूर्णः ।
श्री श्रीमूलयोगीन्द्रकृत
Proofread by Aruna Narayanan