श्रीभुवनेश्वरीशुद्धशक्तिखड्गमाला
विनियोगः--
ॐ अस्य श्रीभुवनेश्वरी-खड्ग-माला-मन्त्रस्य श्रीप्रकाशात्मा ऋषिः,
गायत्री छन्दः, श्रीभुवनेश्वरी देवता, हं बीजं, ईं शक्तिः, रं
कीलकं, श्रीभुवनेश्वरी-पराम्बा-प्रसन्नार्थे जपे विनियोगः ।
ऋष्यादि-न्यासः-
श्रीप्रकाशात्मा-ऋषये नमः शिरसि, गायत्री-छन्दसे नमः
मुखे, श्रीभुवनेश्वरी-देवतायै नमः हृदि, हं बीजाय नमः
गुह्ये, ईं शक्तये नमः पादयोः, रं कीलकाय नमः नाभौ,
श्रीभुवनेश्वरीपराम्बा-प्रसन्नार्थे जपे विनियोगाय नमः सर्वाङ्गे ।
ध्यानं-
स्मरेद् रवीन्द्वग्नि-विलोचनां तां, सत्पुस्तकां जाप्य-वटीं दधानाम् ।
सिंहासनां मध्यम-यन्त्र-संस्थां, श्रीतत्त्व-विद्यां पराम्बां भजामि ॥
य एनां-सचिन्तयेन्मन्त्री, सर्व-कामार्थ-सिद्धिदाम् ।
तस्य हस्ते सदैवास्ति, सर्व-सिद्धिर्न संशयः ॥
तादृशं खड्गमाप्नोति, येन हस्त-स्थितेन वै ।
अष्टादश-महा-द्वीपे, सम्राट् भोक्ता भविष्यति ॥
ॐ श्रीं ह्रीं श्रीं श्रीभुवनेश्वरी-हृदय-देवि शिरोदेवि
शिखा-देवि कवच-देवि नेत्र-देव्यस्त्र-देवि कराले विकराले
उमे सरस्वति श्रीदुर्गे उषे लक्ष्मि श्रुति स्मृति धृति श्रद्धे
मेधे रति कान्ति आर्ये श्रीभुवनेश्वरि दिव्यौघ-गुरु-रूपिणि
सिद्धौघ-गुरु-रूपिणि मानवौघ-गुरु-रूपिणि श्री-गुरु-रूपिणि
परम-गुरु-रूपिणि परापर-गुरु-रूपिणि परमेष्ठी-गुरु-रूपिणि
अमृतभैरव-सहित-श्रीभुवनेश्वरि हृदय-शक्ति शिरः-शक्ति
शिखा-शक्ति कवच-शक्ति नेत्र-शक्त्यस्त्र-शक्ति हृल्लेखे
गगने रक्ते करालिके महोच्छूष्मे सर्वानन्द-मयचक्र-स्वामिनि!
गायत्री-सहित-ब्रह्म-मयि सावित्रीसहित-विष्णु-मयि
सरस्वती-सहित-रुद्र-मयि लक्ष्मी-सहित-कुबेर-मयि
रति-सहितकाम-मयि पुष्टि-सहित-विघ्न-राज-मयि
शङ्ख-निधि-सहित-वसुधा-मयि पद्म-निधि-सहितवसुमति-मयि
गायत्र्यादी-सह-श्रीभुवनेश्वरि ह्रां हृदय-दत्वे ह्रीं शिरो-देवि
ह्रूं शिखा-देवी ह्रैं कवच-देवि ह्रौं नेत्र-देवि ह्रः अस्त्र-देवि
सर्व-सिद्धि-प्रद-चक्र-स्वामिनि!
अनङ्ग-कुसुमे अनङ्ग-कुसुमातुरे अनङ्ग-मदने अनङ्ग-मदनातुरे
भुवन-पाले गगन-वेगे शशि-रेखे अनङ्ग-वेगे
सर्व-रोग-हर-चक्र-स्वामिनि! कराले विकराले उमे सरस्वति
श्रीदुर्गे उषे लक्ष्मि श्रुति स्मृति धृति श्रद्धे मेधे रति कान्ति
आर्ये सर्व-संक्षोभण-चक्र-स्वामिनि!
ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि इन्द्राणि चामुण्डे
महा-लक्ष्म्यं-ऽनङ्ग-रूपेऽनङ्ग-कुसुमे मदनातुरे भुवन-वेगे
भुवन-पालिके सर्व-शिशिरेऽनङ्ग मदनेऽनङ्ग-मेखले
सर्वाशा-परिपूरक-चक्र-स्वामिनि!
इन्द्र-मय्यग्नि-मयि यम-मयि निऋति-मयि वरुण-मयि वायु मयि
सोम-मयीशान-मयि ब्रह्म-मय्यनन्त-मयि वज्र-मय्यग्नि-मयि
दण्ड-मयि खड्ग-मयि पाश-मय्यंकुश-मयि गदा-मयि
त्रिशूल-मयि पद्म-मयि चक्र-मयि वर-मय्यङ्कुश-मयि
पाश मय्यभय-मयि बटुक-मयि योगिनी-मयि क्षेत्रपाल-मयि
गण-पति-मय्यष्ट-वसु-मयि द्वादशादित्य-मय्येकादश-
रुद्र-मयि सर्व-भूत-मय्यमृतेश्वर-सहितश्रीभुवनेश्वरि
त्रैलोक्य-मोहन-चक्र-स्वामिनि नमस्ते नमस्ते नमस्ते स्वाहा श्रीं
ह्रीं श्रीं ॐ ॥
फल-श्रुतिः-
कथयामि महादेवि! भुवनेशीं महेश्वरीम् ।
अनया सदृशो विद्या नान्या ज्ञानस्य साधने ॥ १॥
नात्र चित्त-विशुद्धिर्वा नारि-मित्रादि-दूषणम् ।
न वा प्रयास-बाहुल्यं समयासमयादिकम् ॥ २॥
देवैर्देवत्व-विधये सिद्धैः खेचर-सिद्धये ।
पन्नगै राक्षसैर्मर्त्यैर्मुनिभिश्च मुमुक्षुभिः ॥ ३॥
कामिभिर्धर्मिभिश्चार्थ-लिप्सुभिः सेविता परा ।
न तथा व्यय-बाहुल्यं काम-क्लेश-करं तथा ॥ ४॥
य एवं चिन्तयेन्मन्त्री सर्व-कामार्थ-सिद्धिदाम् ।
तस्य हस्ते सदैवास्ति सर्व-सिद्धिर्न संशयः ॥ ५॥
गद्य-पद्य-मयी वाणी सभायां विजयी भवेत् ।
तस्य दर्शन-मात्रेण वादिनो निष्कृतादरः ॥ ६॥
राजानोऽपि हि दासत्वं भजन्ते किं प्रयोजनः ।
दिवा-रात्रौ पुरश्चर्या कर्तुश्चैव क्षमो भवेत् ॥ ७॥
सर्वस्यैव जनस्येह वल्लभः कीर्ति-वर्धनः ।
अन्ते च भजते देवी-गणत्वं दुर्लभं नरः ॥ ८॥
चन्द्र-सूर्य-समो भूत्वा वसेत् कल्पायुतं दिवि ।
न तस्य दुर्लभं किञ्चित् यो वेत्ति भुवनेश्वरीम् ॥ ९॥
इति श्रीभुवनेश्वरीरहस्ये श्रीशुद्धशक्तिखड्गमालास्तोत्रं सम्पूर्णम् ॥
Proofread by Ganesh Kandu kanduganesh at gmail.com