श्रीभवानीस्तवः
(पञ्चचामरम्)
मदान्ध-दैत्य-मर्दिनीं सुतीक्ष्ण-शस्त्र-धारिणीं
नमज्जनानुकम्पिनीं समस्त-दुःख-हारिणीम् ।
सुभक्त-सौख्य-कारिणीं भवाधिताप-नाशिनीं
कृपा-कटाक्ष-वर्षिणीं नमामि तां सुहासिनीम् ॥ १॥
सदाशिव-प्रियां शिवां सदाऽशिवाशुनाशिनीं
तपोबलेन तापसाधिराज-चित्त-हारिणीम् ।
कृतान्त-कान्तकप्रियां सतामनन्तशान्तिदां
निरन्तरं हृदन्तरे विचिन्तयामि तामुमाम् ॥ २॥
त्वदीयसेवको भवानि याचनां करोम्यहं
मदीय-दुःख-नाशने त्वरस्व देवि सत्वरम् ।
अनाथतां त्वया विना विनाशयेत् परः कथं
नमस्करोमि पार्वति त्वदीयपादपङ्कजम् ॥ ३॥
प्रसीद हे शुभङ्करि प्रसीद हे दयाकरि
प्रसीद हे सुरेश्वरि त्रिलोकशङ्करीश्वरि ।
प्रसीद हे नटेश्वरि प्रसीद हे यशस्करि
प्रसीद हे महेश्वरि प्रसीद हे भवेश्वरि ॥ ४॥
सुचन्दनाङ्ग-चर्चिते सुचारु-वस्त्र-मण्डिते
सुवर्ण-भूषणाङ्किते सुरत्न-हार-भूषिते ।
शिवे सुपुष्प-पूजिते सुगन्धि-धूप-नन्दिते ।
समस्त-देव-वन्दिते नमाम्यहं सुरार्चिते ॥ ५॥
त्वमम्ब शम्भु-कामिनी त्वमम्ब दम्भ-हारिणी
सुधाम्बु-कुम्भ-धारिणी दयाम्बुदाम्बु-वर्षिणी ।
अराति-सिन्धु-शोषिणी समस्तक्लेशनाशिनी ।
त्वमम्ब शक्तिदायिनी मयि प्रसीद तारिणी ॥ ६॥
उमां हिमालयात्मजां नमामि विश्वमातरं
शिवां च शक्तिदेवतां सदैव शत्रुनाशिनीम् ।
स्वधर्मरक्षणे शिवे प्रयच्छ नो सशक्ततां
स्वराष्ट्ररक्षणे भवानि देहि नो समर्थताम् ॥ ७॥
निशुम्भ-शुम्भ-राक्षसास्त्वया हता मदोद्धता
असंस्कृता बलोद्धता विनाशमेव यापिताः ।
त्वया भवानि शङ्करे सहस्रशश्च निर्जिता-
स्तवैव सेवया शिवे शिवेन शत्रवो जिताः ॥ ८॥
इमं स्तवं मनोहरं सदैव यः पठेन्नरः
प्रतिप्रभातमादरेण भक्तियुक्तचेतसा ।
शिवा सदा दयामयी भवत्यरातिनाशिनी
जयं यशः सुखं तथा तनोति तस्य शङ्करी ॥ ९॥
शक्तिदां भुक्तिदां शर्मदां मुक्तिदां
सर्वदामम्बिकां विश्वधात्री भजे ।
भक्तकामप्रदां विश्वनाथप्रियां
सर्वदानन्ददां मङ्गलां प्रार्थये ॥ १०॥
इति श्री आपटीकरविरचितः श्रीभवानीस्तवः सम्पूर्णः ।
Encoded and proofread by Mandar Mali aryavrutta gmail.com