देवर्षयकृता भवानीदेविस्तुतिः
देवर्षय ऊचुः ।
नमामहे त्वां जगदेकहेतुं परात्परां विश्वविचित्रशक्तिम् ।
अचिन्त्यरूपां त्रिदशैरशेषैरशेषवन्द्यां त्रिगुणां गुणेशाम् ॥ १४॥
धराधरां त्वां धरणीस्वरूपामाधारभूतां स्थिरजङ्गमानाम् ।
त्रैलोक्यसारां त्रिगुणादिभूतां त्रयीतनुं तां त्रिदशस्वरूपाम् ॥ १५॥
नमामहे देवि ! वरप्रदां त्वां विष्णोर्विमोहां पददां सुराणाम् ।
भक्तार्तिहन्त्रीं सकलार्थदात्रीं त्रैलोक्यकर्तीं निखिलार्थगोप्त्रीम् ॥ १६॥
इति देवर्षयकृता भवानीदेविस्तुतिः सम्पूर्णा ॥
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ४० । २.४० १४-१६॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 40 . 2.40 14-16..
Proofread by Preeti Bhandare