भगवतीस्तोत्रम्
श्रीगणेशाय नमः ।
नमामि त्वां मातर्द्रविणरहितोऽहं तव सुतो
जगद्वन्द्यां स्वर्गे भुवि बलिगृहे चापि विदिताम् ।
पृथिव्यां कल्याणी मम भयहरा त्वं न च परा
यतोऽहं यातस्त्वां भवगतभयात्साम्प्रतमुमे ॥ १॥
प्रसीदेशे नित्यं भगवति भवाम्भोधितरणे
शरण्ये नास्त्यन्या विपदघहरा कापि जगति ।
जडो मूर्खोऽहं ते जननि नहि जाने विलसित\-
मतोऽहं संयातस्तव पदपयोजे गिरिसुते ॥ २॥
अहो संसारेऽस्मिन् जननि तव तुल्या नहि परा
खलं दुष्टं पुत्रं जगति जननी रक्षति निजम् ।
परित्यक्त्वेदानीं सकलसुरवृन्दं गिरिसुते
नमामि त्वां देवीं भवभयहरां मङ्गलकराम् ॥ ३॥
जगन्मातर्दुर्गे भवभयविभङ्गैकनिपुणे
मया संसारेऽस्मिन् तव चरणपूजाऽपि न कृता ।
न पुष्पाणां हारस्तव शिरसि शुभ्रोऽर्पित इति
क्षमस्वागो मातर्मम बहुविधं शैलतनये ॥ ४॥
धनाद्धीनं दीनं परिजनविहीनं बहुशुचं
तथा शत्रुग्रस्तं विविधभययुक्तं जडमतिम् ।
भवत्याः संयातं निकटमयि भूमीधरसुते
समाश्वस्तं दृष्ट्या कुरु जगति कीर्त्या च विदितम् ॥ ५॥
त्वमेका संसारे जनिमदघनाशे प्रभुरहो
त्वमेवैका मातर्भवभयलयाधाननिपुणा ।
तवाशा मे शश्वज्जननि निजदुःखैकदलने
विहाय त्वां मातः कमिह ननु संयामि शरणम् ॥ ६॥
तथा पूर्वे काले प्रबलतरवीर्यौ दितिसुतौ
प्रसिद्धौ सोदर्यौ भुविदिविगतौ भीषणतरौ ।
निशुम्भः शुम्भश्च प्रविततमहामोहगहनौ
विनष्टौ त्वां प्राप्यामरवरनुते शम्भुदयिते ॥ ७॥
सुरास्त्वां संयाता हरिहरनुतां दैत्यदलिताः
सुराणां रक्षायै असुरकुलनाशं कृतवती ।
अहो मूर्तिर्धन्या सकलसुरसंसेव्यचरणा
त्वमेवैका मातर्जगति बहुरूपा विजयसे ॥ ८॥
भगवत्या इदं स्तोत्रं योगानन्देन निर्मितम् ।
यः पठेद्भक्तिभावेन फलमिष्टं लभेत् सः ॥ ९॥
इति योगानन्दविरचितं श्रीभगवतीस्तोत्रं सम्पूर्णम् ॥
Proofread by Pallasena Narayanaswami ppnswami at gmail.com