भूस्तुतिः
सर्वभूतधरे कान्ते सर्वलोकनमस्कृते ।
विष्णुपत्नि जगद्धात्रि वसुधे सस्यमालिनि ॥ १॥
पुण्यकाननकेशाढ्ये पर्वतस्तनमण्डिते ।
समुद्रवसने देवि नदीविषयवासिनि ॥ २॥
वल्मीकश्रवणे वेदभाषिणि श्रुतिसेविते ।
फुल्लाम्बुजेक्षणे देवि प्रसीद हरिवल्लभे ॥ ३॥
नमस्ते भुवनेशाने नमः सर्वसुरार्चिते ।
नमो भार्गवि मे मातः प्रणतोऽस्मि वसुन्धरे ॥ ४॥
विष्णुशक्तिसमुद्भूते शङ्खवर्णे महेश्वरि ।
अनेकरत्नसङ्कीर्णे भूमि तुभ्यं नमो नमः ॥ ५॥
इति स्तुत्वा च नत्वा च ध्यात्वा विमलचेतसा ।
इति श्रीभार्गवतन्त्रे षष्ठाध्याये श्रीरामेण प्रोक्ता भूस्तुतिः सम्पूर्णा ।
प्रतिष्ठाविषयविवेचन नामाध्याये मृत्सङ्ग्रहक्रमे भूस्तुतिः
Brihaddharma Purana 6.45-49
Encoded and proofread by Rasika Vaze