भूस्तुतिः
वेदान्तदेशिककृता ।
सङ्कल्पकल्पलतिकामवधिं क्षमायाः
स्वेच्छावराहमहिषीं सुलभानुकम्पाम् ।
विश्वस्य मातरमकिञ्चनकामधेनुं
विश्वम्भरामशरणः शरणं प्रपद्ये ॥ १॥
त्वां व्याहृतिः प्रथमतः प्रणवः प्रियं ते
संवेदयत्यखिलमन्त्रगणस्तमेव ।
इत्थं प्रतीतविभवामितरेष्विदानीं
स्तोतुं यथावदवने क इवार्हति त्वाम् ॥ २॥
नित्यं हिताहितविपर्ययबद्धभावे
त्वद्वीक्षणैकविनिवर्त्यबहुव्यपाये ।
मुग्धाक्षरैरखिलधारिणि मोदमाना
मातः स्तनन्धयधियं मयि वर्तयेथाः ॥ ३॥
सङ्कल्पकिङ्करचराचरचक्रवालं
सर्वातिशायिनमनन्तशयस्य पुंसः ।
भूमानमात्मविभवैः पुनरुक्तयन्ती
वाचामभूमिरपि भूमिरसि त्वमेका ॥ ४॥
वेधस्तृणावधि विहारपरिच्छदं ते
विश्वं चराचरतया व्यतिभिद्यमानम् ।
अम्ब त्वदाश्रिततया परिपोषयन्ती
विश्वम्भरस्य दयिताऽसि तदेकनामा ॥ ५॥
सर्वंसहेत्यवनिरित्यचलेति मातः
विश्वम्भरेति विपुलेति वसुन्धरेति ।
अन्यानि चान्यविमुखान्यभिधानवृत्त्या
नामान्यमूनि कथयन्ति तवानुभावम् ॥ ६॥
तापान् क्षिपन् प्रसविता सुमनोगणानां
प्रच्छायशीतलतलः प्रदिशन् फलानि ।
त्वत्सङ्गमाद्भवति माधवि लब्धपोषः
शाखाशतैरधिगतो हरिचन्दनोऽसौ ॥ ७॥
स्मेरेण वर्धितरसत्य मुखेन्दुना ते
निष्पन्दतां विजहतो निजया प्रकृत्या ।
विश्रान्तिभूमिरसि तत्त्वतरङ्गपङ्क्तेः
वेलेव विष्णुजलधेरपृथग्भवन्ती ॥ ८॥
स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये
पत्युर्महिम्नि भवतीं प्रतिपन्नवासाम् ।
शङ्के विमानवहनप्रतिमासमानाः
स्तम्बेरमप्रभृतयोऽपि वहन्ति सत्त्वाः ॥ ९॥
सम्भावयन् मधुरिपुः प्रणयानुरोधात्
वक्षःस्थलेन वरुणालयराजकन्याम् ।
विश्वम्भरे बहुमुखप्रतिपन्नभोगः
शेषात्मना तु भवतीं शिरसा दधाति ॥ १०॥
क्रीडावराहदयिते कृतिनः क्षितीन्द्राः
सङ्क्रन्दनस्तदितरेऽपि दिशामधीशाः ।
आमोदयन्ति भुवनान्यलिकाश्रितानां
अम्ब त्वदङ्घ्रिरजसां परिणामभेदैः ॥ ११॥
भूतेषु यत्त्वदभिमानविशेषपात्रं
पोषं तदेव भजतीति विभावयन्तः ।
भूतं प्रभूतगुणपञ्चकमाद्यमेतत्
प्रायो निदर्शनतया प्रतिपादयन्ति ॥ १२॥
कान्तस्तवैष करुणाजलधिः प्रजानां
आज्ञातिलङ्घनवशादुपजातरोषः ।
अह्नाय विश्वजननि क्षमया भवत्या
सर्वावगाहनसहामुपयात्यवस्थाम् ॥ १३॥
आश्वासनाय जगतां पुरुषे परस्मिन्
आपन्नरक्षणदशामभिनेतुकामे ।
अन्तर्हितेतरगुणादबलास्वभावात्
औदन्वते पयसि मज्जनमभ्यनैषीः ॥ १४॥
पूर्वं वराहवपुषा पुरुषोत्तमेन
प्रीतेन भोगिसदने समुदीक्षितायाः ।
पादाहताः प्रलयवारिधयस्तवासन्
उद्वाहमङ्गलविधेरुचिता मृदङ्गाः ॥ १५॥
व्योमातिलङ्घिनि विभोः प्रलयाम्बुराशौ
वेशन्तलेश इव मातुमशक्यमूर्तेः ।
सद्यः समुद्रवसने सरसैरकार्षीः
आनन्दसागरमपारमपाङ्गपातैः ॥ १६॥
दंष्ट्राविदारितमहासुरशोणिताङ्कैः
अङ्गैः प्रियस्तव दधे परिरम्भलीलाम् ।
सा ते पयोधिजलकेलिसमुत्थितायाः
सैरन्ध्रिकेव विदधे नवमङ्गरागम् ॥ १७॥
अन्योन्यसंवलनजृम्भिततूर्यघोषैः
संवर्तसिन्धुसलिलैर्विहिताभिषेका ।
एकातपत्रयसि विश्वमिदं गुणैः स्वैः
अध्यास्य भर्तुरधिकोन्नतमंसपीठम् ॥ १८॥
भर्तुस्तमालरुचिरे भुजमध्यभागे
पर्यायमौक्तिकवती पृषतैः पयोधेः ।
तापानुबन्धशमनी जगतां त्रयाणां
तारापथे स्फुरसि तारकिता निशेव ॥ १९॥
आसक्तवासवशरासनपल्लवैस्त्वां
संवृद्धये शुभतटिद्गुणजालरम्यैः ।
देवेशदिव्यमहिषीं धृतसिन्धुतोयैः
जीमूतरत्नकलशैरभिषिञ्चति द्यौः ॥ २०॥
आविर्मदैरमरदन्तिभिरुह्यमानां
रत्नाकरेण रुचिरां रशनागुणेन ।
मातस्त्रिलोकजननीं वनमालिनीं त्वां
मायावराहमहिषीमवयन्ति सन्तः ॥ २१॥
निष्कण्टकप्रशमयोगनिषेवणीयां
छायाविशेषपरिभूतसमस्ततापाम् ।
स्वर्गापवर्गसरणिं भवतीमुशन्ति
स्वच्छन्दसूकरवधूमवधूतपङ्काम् ॥ २२॥
गण्डोज्ज्वलां गहनकुन्तलदर्शनीयां
शैलस्तनीं तरलनिर्झरलम्बहाराम् ।
श्यामां स्वतस्त्रियुगसूकरगेहिनि त्वं
व्यक्तिं समुद्रवसनामुभयीं बिभर्षि ॥ २३॥
निःसंशयैर्निगमसीमनि विष्णुपत्नि
प्रख्यापितं भृगुमुखैर्मुनिभिः प्रतीतैः ।
पश्यन्त्यनन्यपरधीरससंस्तुतेन
सन्तः समाधिनयनेन तवानुभावम् ॥ २४॥
सञ्चोदिता करुणया चतुरः पुमर्थान्
व्यातन्वती विविधमन्त्रगणोपगीता ।
सञ्चिन्त्यसे वसुमति स्थिरभक्तिबन्धैः
अन्तर्बहिश्च बहुधा प्रणिधानदक्षैः ॥ २५॥
क्रीडागृहीतकमलादिविशेषचिह्नां
विश्राणिताभयकरां वसुधे सभूतिम् ।
दौर्गत्यदुर्विषविनाशसुधानदीं त्वां
सञ्चिन्तयन् हि लभते धनदाधिकारम् ॥ २६॥
उद्वेलकल्मषपरम्परितादमर्षात्
उत्तंसितेन हरिमञ्जलिनाऽप्यधृष्यम् ।
आकस्मिकोऽयमधिगम्ययति प्रजानां
अम्ब त्वदीयकरुणापरिणाम एव ॥ २७॥
प्रत्येकमब्दनियुतैरपि दुर्व्यपोहात्
प्राप्ते विपाकसमये जनितानुतापात् ।
नित्यापराधनिवहाच्चकितस्य जन्तोः
गन्तुं मुकुन्दचरणौ शरणं क्षमे त्वम् ॥ २८॥
त्राणाभिसन्धि सुभगेऽपि सदा मुकुन्दे
संसारतन्त्रवहनेन विलम्बमाने ।
रक्षाविधौ तनुभृतामनघानुकम्पा
मातः स्वयं वितनुषे महतीमपेक्षाम् ॥ २९॥
धर्मद्रुहं सकलदुष्कृतिसार्वभौमं
आत्मानभिज्ञमनुतापलवोज्झितं माम् ।
वैतानसूकरपतेश्चरणारविन्दे
सर्वंसहे ननु समर्पयितुं क्षमा त्वम् ॥ ३०॥
तापत्रयीं निरवधिं भवतीदयार्द्राः
संसारघर्मजनितां सपदि क्षिपन्तः ।
मातर्भजन्तु मधुरामृतवर्षमैत्रीं
मायावराहदयिते मयि ते कटाक्षाः ॥ ३१॥
पत्युर्दक्षिणपाणिपङ्कजपुटे विन्यस्तपादाम्बुजा
वामं पन्नगसार्वभौमसदृशं पर्यङ्कयन्ती भुजम् ।
पोत्रस्पर्शलसत्कपोलफलका फुल्लारविन्देक्षणा
सा मे पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वंसहा ॥ ३२॥
अस्येशाना जगत इति या श्रूयते विष्णुपत्नी
तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या ।
श्रद्धाभक्तिप्रचयगुरुणा चेतसा संस्तुवानो
यद्यत्कामः सपदि लभते तत्र तत्र प्रतिष्ठाम् ॥ ३३॥
इति वेदान्तदेशिककृता भूस्तुतिः समाप्ता ।
Proofread by PSA Easwaran, Nivedita R