भारतीस्तवनम् अथवा सरस्वतीस्तोत्रम्
जानीमेघेन लिखितम्
श्री शारदायै नमः ।
अन्तः कुण्डलिनिप्रसुप्तभुजङ्गाकारस्फुरद्विग्रहां
शक्तिं कुण्डलिनीं विधाय मनसा हुङ्कारदण्डाहताम् ।
षट्चक्राणि विभिद्य सद्य मनसां प्रद्योतनद्योतनीं
लीनां ब्रह्मपदे शिवेन सहितामेकत्र लीनां स्तुमः ॥ १॥
कन्दात्कुण्डलिनि ! त्वदीयवपुषा निर्गत्य तन्तुत्विषा
किश्चिच्चुम्बितमम्बुजं शतदलं तद्ब्रह्मरन्ध्राद्धः ।
यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽत्र भूमण्डले
तन्मन्ये कविचक्रवत्तिपदवीच्छत्रचूछलाद्वल्गति ॥ २॥
यस्त्वद्बकत्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छलत
चञ्चच्चन्द्रकचकऋचित्रितककुप्कन्याकुलं ध्यायति ।
वाणी वाणिविचित्रभङ्गुरपदप्रागल्भयशृङ्गारिणी
नृत्यत्युन्मदनर्त्तकीव सरसं त्वद्बत्ररङ्गाङ्गणे ॥ ३॥
देवि ! त्वत्पदचन्द्रकान्तकरकश्चयोतत्सुधानिर्झर-
स्नानानन्दतरङ्गितः पिबति यः पीयूषधारारसम् ।
तारालङ्कृतचन्द्रशुक्तिकुहरेणाकण्ठमुत्कण्ठितो
वक्त्रेणोद्रिरतीव ते पुनरसौ वाणीविलासच्छलात् ॥ ४॥
क्षुभ्यत्सीरसमुद्रनिर्गतमहाशेषाहिलोकात्फणा
पत्रोत्रिद्रसितारविन्दकुहरे ! चन्द्रस्फुरत्कणिके ! ।
देवि ! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरं
ब्राह्मि ! ब्रह्मविदस्य वल्गति वचःप्रागल्भ्यदुग्धाम्बुधे ॥ ५॥
नाभीपाण्डुरपुण्डरीककुहरे हृत्पुण्डरीके गल-
त्पीयूषद्रक(व) वर्ष(र्षि) णि ! प्रविशतीं त्वां मात्रिक्षमालिनीम् ।
दृष्टवा भारति ! भारती प्रभवति प्रायेण पुंसो यया
निर्ग्रन्थोऽपि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः । ६॥
त्वां मुक्तामयसर्वभूषणधरां श्वेताम्बराडम्बरां
गौरीं गौरिसुधां तरङ्गधवलामालोक्य हृत्पङ्कजे ।
वीणापुस्तकमौक्तिकाक्षवलय श्वेताब्जवल्गत्करां
न स्यात्कः शुचिवृत्तचक्ररचनाचातुर्यचिन्तामणिः ॥ ७॥
अश्येत्स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां
यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव ।
सुस्वच्छोद्गतिगद्यपद्मलहरीलीलाविलासामृतैः
सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ॥ ८॥
तद्वेदान्तशिरस्तदोङ्कृतिमुखं ज्योतिःकलालोचनं
तत्तद्वेदभुजं तु(त) दात्महृदयं तद्गद्यपद्यां हि च ।
यस्त्वद्वर्ष्म विभावयत्यविरतं वाग्देवि ! तद्वाङ्गमयं
शब्दब्रह्मणि निष्ठितः स परमब्रह्मैकतामश्नुते ॥ ९॥
वाग्बीजं स्मर बीजवेष्टितमतो ज्योतिःकलाभृद्बहि-
रष्टद्वादशषोडशद्विगुणितद्विष्टाब्जपत्रान्वितम् ।
तद्बीजाक्षरकादिवर्णरचितान्यग्ने दलस्यान्तरे
हंसः कूड(ट) युतं भवेदवितथं यन्त्र तु सारस्वतम् ॥ १०॥
ॐ ह्रीँ श्रीँ स(ह) ह्रीँ सबीजकलितां वाग्वादिनीदेवतां
गीर्वाणासुरपूजितामनुदिनं काश्मीरदेशे भवाम् ।
अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं
बुद्धिज्ञानविचारसारमहितः स्याद्देव्यसौ साम्प्रतम् ॥ ११॥
स्मृत्वा यन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थं
चेतःस्निग्धोर्द्धनाल हृदि च विकचितां बाष्पनिर्यातना स्यात् ।
तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोजपाणीं
वाग्देवीं तन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥ १२॥
किमिह बहुविकल्पैश्विन्तितैर्यस्य कण्ठे
लुठति विमलवृत्तस्थूलमुक्तावलीयम् ।
भवति भवति नाथे भव्यभाषाविशेषै-
र्मधुरमधुसमृद्धस्तस्य वाचां विशेषः १३॥
इति श्रीजानीमेघेन लिखितं श्रीभारतीस्तवर्न सम्पूर्णम् ।
प्रशस्तिः
यदक्षरपरिभ्रष्टं स्वरव्यञ्जनवजितम् ।
तत्सर्वं क्षमत्तां देवि ! प्रसीद परमेश्वर ।
॥ जानीमेघेन लिखितम् - सुमतिधीरगणिपठनार्थम् ॥ श्री ॥
Encoded and proofread by DPD