बन्दीमोचनस्तोत्रम्
ॐ अस्य श्रीबन्दीमोचनमन्त्रस्य कण्वऋषिः त्रिष्टुप्-छन्दः, ह्रीं
बीजम्, ह्रं कीलकम्, मम बन्दीमोचनार्थं जपे विनियोगः ।
ॐ ह्रीं ह्रूं बन्दीदेव्यै नमः । इति मन्त्रं अष्टोत्तरशतं जपः ।
बन्दीं देवीं नमस्कृत्य वरदाभयशोभिताम् ।
तदग्र्यां शरणं गच्छे शीघ्रं मोक्षं ददातु मे ॥ १॥
बन्दी कमलपत्राक्षी लोहशृङ्खलभञ्जिनी ।
प्रसादं कुरु मे देवि शीघ्रं मोक्षं ददातु मे ॥ २॥
त्वं बन्दी त्वं महामाया त्वं दुर्गा त्वं सरस्वती ।
त्वं देवी रजनी चैव शीघ्रं मोक्षं ददातु मे ॥ ३॥
संसारतारिणी बन्दी सर्वकामप्रदायिनी ।
सर्वलोकेश्वरी देवी शीघ्रं मोक्षं ददातु मे ॥ ४॥
त्वं ह्रीस्त्वमीश्वरी देवी ब्रह्माणी ब्रह्मवादिनी ।
त्वं वै कल्पक्षयं कर्त्री शीघ्रं मोक्षं ददातु मे ॥ ५॥
देवी धात्री धरित्री च धर्मशास्त्रार्थभाषिणी ।
दुःश्वाम्बररागिणी देवी शीघ्रं मोक्षं ददातु मे ॥ ६॥
नमोऽस्तु ते महालक्ष्मि रत्नकुण्डलभूषिते ।
शिवस्यार्धाङ्गिनी चैव शीघ्रं मोक्षं ददातु मे ॥ ७॥
नमस्कृत्य महादुर्गां भयादुत्तारिणीं शिवाम् ।
महादुःखहरां चैव शीघ्रं मोक्षं ददातु मे ॥ ८॥
इदं स्तोत्रं महापुण्यं यः पठेन्नित्यमेव च ।
सर्वबन्धविनिर्मुक्तो मोक्षं च लभते क्षणात् ॥ ९॥
इति श्रीरुद्रयामले बन्दीमोचनस्तोत्रं समाप्तं
Proofread by Aruna Narayanan narayanan.aruna at gmail.com