श्रीबालायन्त्रविधिः
बिन्दुत्रिकोणषट्कोणं वृत्तमष्टदलं तथा ।
भूपुरद्वयसंयुक्तं बालायन्त्रं विधीयते ॥
बिन्दुमध्ये प्रणवं, त्रिकोणेषु ऐं क्लीं सौः, इति ।
षट्कोणेषु ऐं क्लीं सौः सौः क्लीं ऐं इति । केसरेषु स्वरान्,
पद्मपत्रेषु क -च -ट - त -प -य -श -ल वर्गवर्णान् विलिख्य,
भूपुरे दिक्पालबीजान् बिन्दुमध्यस्थप्रणवोदरे शक्तिं, तत्परितः प्राणं,
तत्परितः प्राणप्रतिष्ठामन्त्रबीजं, तदधो जिह्वाबीजं,
तत्पार्श्वयोः नेत्र बीजं, बिन्दोर्बहिः साध्यनाम,
तद्बहिर्मन्त्रगायत्रीं, तद्बहिर्यन्त्रगायत्रीं। तत्परितः भूतबीजं,
अष्टपत्राद्बहिः मातृकां, भूपुरे दिक्पालबीजं, सर्वोर्ध्वे भागे
वश्यां विलिखेत् । त्रिपुरादेव्यै च विद्महे महादेव्यै च धीमहि ।
तन्नः क्लिन्ना प्रचोदयात् इति ।
इति बालायन्त्रविधिः समाप्ता ।
Proofread by PSA Easwaran