श्रीबालास्तोत्रम् ६
ऐश्वर्यं मनसेप्सितं मृदुवचो गाम्भीर्यमत्युन्नतिं
शिष्टाचारविहारपालनमथो वेदोक्तमायुःश्रियम् ।
मेधावृद्धिमपत्यदारजसुखं वैराग्यमत्युन्नतं
नित्यं त्वच्चरणारविन्दभजने भक्तिं दृढां देहि मे ॥ १॥
क्लीं त्वं कामशराजिते करशुकीसल्लापसम्मोहिते
सौन्दर्याम्बुधिमन्थनोद्भवकलानाथानने भामिनि ।
कोकाकार कुचाग्रसीमविलसद्वीणानुगानोद्यते
त्वत्पादाम्बुजसेवया खलु शिवे सर्वां समृद्धिं भजे ॥ २॥
सौम्ये पावनि पद्मसम्भवसखीं कर्पूरचन्द्रप्रभां
शुद्धस्फाटिकविद्रुमग्रथितसद्रत्नाढ्यमालाधराम् ।
धर्त्रीं पुस्तकमिष्टदानमभयं शुक्लाक्षमालां करैः
यस्त्वां ध्यायति चक्रराजसदने संयाति विद्यां गुरोः ॥ ३॥
इति श्रीबालास्तोत्रं (६) सम्पूर्णम् ।
Proofread by PSA Easwaran