श्रीबालास्तोत्रम् ५
स्फटिकरजतवर्णं मौक्तिकामाल्यभूषं
अमृतकलशविद्याज्ञानमुद्राः कराग्रैः ।
दधतमृषभकक्ष्यं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ १॥
एङ्कारैकसमस्तशत्रुरचनामावेद्य मूर्तिप्रदां
ऐश्वर्यादिकमष्टभोगफलदामैश्वर्यदां पुष्पिणीम् ।
ऐन्द्रव्याकरणादिशास्त्रवरदामैरावताराधितां
ऐशानीं भुवनत्रयस्य जननीमैङ्कारिणीमाश्रये ॥ २॥
क्लीङ्कारैकसमस्तवश्यकरिणीं क्लीं पञ्चबाणात्मिकां
क्लीं विद्रारणकारिणीं वरशिवां क्लिन्नां शिवालिङ्गिताम् ।
क्लीबोऽपि प्रणमन्भवानि भवतीं ध्यात्वा हृदम्भोरुहे
क्लिन्नाशेषवशीकरो भवति यत्क्लीङ्कारिणीं नौम्यहम् ॥ ३॥
सौः शब्दप्रथितामरादिविनुतां सूक्तिप्रकाशप्रदां
सौभाग्याम्बुधिमन्थनामृतरसां सौन्दर्यसम्पत्करीम् ।
सान्निध्यं दधतीं सदा प्रणमतां साम्राज्यलक्ष्मीप्रदां
सौः काराङ्कितपादपङ्कजयुगां सौषुम्नगां नौम्यहम् ॥ ४॥
इति श्रीबालास्तोत्रम् (५) सम्पूर्णम् ।
Proofread by PSA Easwaran