श्रीबालास्तोत्रम् ३
उदञ्चद्दिनेशप्रपञ्चप्रकाशां
उदूढेन्दुरेखामुदारां त्रिणेत्राम् ।
वहन्तीं वराभीतिकोशाक्षमालाः
वसन्तीं स्फुटे पद्मके नौमि बालाम् ॥ १॥
नतानां जनानां समस्तर्धिदात्रीं
सुयोन्याख्यमुद्राभिगम्यां शरण्याम् ।
सुवाक्कामशक्त्याख्यबीजत्रयान्तः-
स्थितां बालिकां त्वां नमामि स्मरामि ॥ २॥
लसद्रक्तसिन्दूरवर्णां कराब्जैः
वराभीतिपुस्ताक्षमाला दधानाम् ।
सितार्धेन्दुफालां वरेण्यां त्रिनेत्रां
शिवां बालिकां त्वां नमामि स्मरामि ॥ ३॥
कुन्दमुकुलाग्रदन्तां कुङ्कुमपङ्केन लिप्ततनुमध्याम् ।
आरक्तदेहकान्तिं बालामखिलाण्डनायिकां वन्दे ॥ ४॥
मालासृणीपुस्तकपाशाहस्तां बालां भजेऽहं ललिताकुमारीम् ।
कुमारकामेश्वर केलिलोलां नमामि गौरीं नववर्षदेश्याम् ॥ ५॥
साक्षस्रजं च वरदाभय पुस्तकोद्यद् -
बाहामयुग्मनयनाममलाब्जसंस्थाम् ।
अच्छाङ्गरागवसनापघनां नमामि
बालेन्दुमौलिमनिशं वचसामधीशाम् ॥ ६॥
इति श्रीबालास्तोत्रम् (३) सम्पूर्णम् ।
Proofread by PSA Easwaran