श्रीबालास्तवराजः १
श्रीमतः परमेशतल्पनिलये वन्दारुवृन्दानुते
सिन्दूरद्रवकुङ्कुमोदकजपापुष्पप्रभे मङ्गले ।
श्रीबीजेन समन्वितं तव मनुं भक्त्या जपन्तं सदा
भक्तं मामवलोकयाशु कृपया लक्ष्म्या सहैवाम्बिका ॥ १॥
ऐमित्यक्षरमम्बिके शशिनिभं बालार्ककोट्युज्ज्वले
बालानामपि वाग्विजृम्भणपटुप्रख्यातविद्याप्रदम् ।
बीजं बिम्बविडम्बिदन्तिरदने विद्यामुखे सर्वदा
बालायाः कलयामि कल्पलतिके भक्तिप्रसन्ने शिवे ॥ २॥
क्लीमित्येकमहेशमानिनि सदा मन्दस्मिते मङ्गले
बन्धूकारुणपाणिपल्लवलसत्पुण्ड्रेक्षुपाशोज्ज्वले ।
नानारत्नविभूषिते सुरनुते रत्काम्बरालङ्कृते
त्वद्रूपं हृदि चिन्तयामि सततं सर्वार्थसिद्धिप्रदम् ॥ ३॥
सौवर्णं कमलासनस्य दयिते वैश्वानरार्चिर्मयी
कर्पूरोज्ज्वलवीटिकापरिलसद्बिम्बाधरोद्यन्मुखे ।
साधारे च तुरीयया च परया सम्पूजिताङ्घ्रिद्वये
यस्त्वां ध्यायति मन्त्रवर्यमसकृज्जप्त्वापि वाग्मी भवेत् ॥ ४॥
ऐं क्लीं सौः सकलापदार्तिशमनं तार्तीयखण्डोग्रगं
यो वा भक्तिपुरस्सरो मृदुभुजे सौवर्णपीठोज्ज्वले ।
कामेशे कलयामि कुन्दरदने कन्दर्पबीजोज्ज्वले
मन्त्रं ते मदभीष्टदं दिनकरज्योतिर्मयं सर्वदा ॥ ५॥
कल्याणं तव रूपमम्बरमणीदृष्ट्या कुचत्वं गतौ
चन्द्रो विस्मितजालमीशवनिते ताघस्तसैन्यं गता ।
त्वद्रूपं किमु तर्पयामि वद मे कन्दर्पविद्यात्मिके
कामेशोऽपि तवावलोकनवशादर्धाङ्गनात्वं गतः ॥ ६॥
एतामेव विभावयन्ति मुनयः सायुज्यमुक्तिप्रदां
एकान्ते रविमण्डलेभ्यवलये हेमादिर्षृङ्गे बुधौ ।
आनन्दामृतसिन्धुमग्नहृदया रोकुञ्चमानोभवा
त्वां देवीमनुचिन्तयामि सततं चित्ते भजे मामके ॥ ७॥
लक्ष्मीप्रदानसमये नवविद्रुमाभां
विद्याप्रदानसमये शरदिन्दुशुभ्राम् ।
विद्वेषिवर्गविजये च तमालनीलां
बालां त्रिलोकजननीं शरणं प्रपद्ये ॥ ८॥
इति श्रीबालास्तवराजः ।
जयतु जयतु बाला भारती ब्रह्मरूपा
जयतु जयतु बाला वैष्णवी विष्णुरूपा ।
जयतु जयतु बाला रौद्रिणी रुद्ररूपा
जयतु जयतु बाला चिन्मयी ज्ञानरूपा ॥
हृत्पुण्डरीकाननभासमाना
चित्कुण्डली चञ्चदुदारमाना ।
पुस्ताक्षसूत्रस्फुरदब्जहस्ता
बाला धियं यच्छतु नः प्रशस्ता ॥
इति श्रीबालास्तवराजः (१) सम्पूर्णः ।
Proofread by PSA Easwaran