श्रीबालाशताक्षरीमन्त्र विधानम्
अस्य श्री बालाशताक्षरीमहामन्त्रस्य । ब्रह्मा ऋषिः । गायत्री छन्दः ॥
बालात्रिपुरसुन्दरी देवता ।
ध्यानं -
हरिपुरन्दरप्रभृतिदेवतामकुटविस्फुरत्किरणभास्वरम् ।
नमत सन्ततं नमत सन्ततं त्रिपुरसुन्दरीचरणपङ्कजम् ॥
मूलमन्त्रः -
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः वषट् सौः क्लीं श्रीं
वौषट् ऐं क्लीं श्रीं सौः क्लीं ऐं ॐ आं ह्रीं क्रों बालात्रिपुरसुन्दरि
प्रसन्नवाग्वादिनि आश्रावय आश्रावय । आकर्षय आकर्षय ।
आवाहय आवाहय । मां रक्ष रक्ष । सौभाग्यदायिनि स्वर्णाकर्षण-
महालक्ष्मि धनं देहि देहि सर्वजनं मे वशमानय स्वाहा ॥
शताक्षरी शतानन्दी शतायुष्यविवर्धिनी ।
शतकोटि धनं देहि शङ्करी शान्त रूपिणी ॥
(बाल शताक्षरी अधो निर्दिष्टाभिरष्टभिः ऋग्भिः
पृथग्योजिता जपे होमे च प्रशस्यते । क्रमस्त्वित्थम् -
१. हिरण्यवर्णां इत्यादि आवह -शताक्षरी ।
२. संसमिद्युवसे इत्यादि वसून्याभर -शताक्षरी ।
३. सङ्गच्छध्वं इत्यादि जानताम् -शताक्षरी ।
४. समानो मन्त्रः इत्यादि जुहोति -शताक्षरी ।
५. समानीव आकूतिः इत्यादि सुसहासति -शताक्षरी
६. श्रिये जातः इत्यादि मितद्रौ -शताक्षरी
७. इन्द्र श्रेश्ठानि इत्यादि त्वमह्नाम् -शताक्षरी
८. प्रजापते इत्यादि रयीणां -शताक्षरी ।
ऋचो यथा -
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
सं स॒मिद्यु॑वसे॒ वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ ।
इ॒लस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्याभ॑र ॥
सङ्ग॑च्छध्वं॒ संव॑दध्वं॒ सं वो॒ मनां॑सि जानताम् ।
दे॒वा भा॒गं यथा॒ पूर्वे॑ सञ्जाना॒ना उ॒पास॑ते ॥
स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑
स॒ह चि॒त्तमे॑षाम् ।
स॒मा॒नं मन्त्र॑म॒भिम॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥
स॒मा॒नी व॒ आकू॑तिस्समा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥
श्रि॒ये जा॒तः श्रि॒य आनिरि॑याय॒ श्रियं॒ वयो॑जरि॒तृभ्यो॑
ददाति ।
श्रियं॒ वसा॑ना अमृत॒त्वमा॑य॒न् भव॑न्ति स॒त्या
स॑मि॒थामि॒तद्रौ॑ ॥
इन्द्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य
सु॑भग॒त्वम॒स्मे ।
पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑
वा॒चः सु॑दिन॒त्वमह्ना॒॑म् ।
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।
यत्का॑मास्ते जुहुमस्तन्नो॑ अस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥
इति श्रीबालाशताक्षरीमन्त्रविधानं सम्पूर्णम् ।
Proofread by PSA Easwaran