श्रीबालाशान्तिस्तोत्रम्
श्रीभैरव उवाच-
जय देवि जगद्धात्रि जय पापौघहारिणि ।
जय दुःखप्रशमनि शान्तिर्भव ममार्चने ॥ १॥
श्रीबाले परमेशानि जय कल्पान्तकारिणि ।
जय सर्वविपत्तिघ्ने शान्तिर्भव ममार्चने ॥ २॥
जय बिन्दुनादरूपे जय कल्याणकारिणि ।
जय घोरे च शत्रुघ्ने शान्तिर्भव ममार्चने ॥ ३॥
मुण्डमाले विशालाक्षि स्वर्णवर्णे चतुर्भुजे ।
महापद्मवनान्तस्थे शान्तिर्भव ममार्चने ॥ ४॥
जगद्योनि महायोनि निर्णयातीतरूपिणि ।
पराप्रासादगृहिणि शान्तिर्भव ममार्चने ॥ ५॥
इन्दुचूडयुते चाक्षहस्ते श्रीपरमेश्वरि ।
रुद्रसंस्थे महामाये शान्तिर्भव ममार्चने ॥ ६॥
सूक्ष्मे स्थूले विश्वरूपे जय सङ्कटतारिणि ।
यज्ञरूपे जाप्यरूपे शान्तिर्भव ममार्चने ॥ ७॥
दूतीप्रिये द्रव्यप्रिये शिवे पञ्चाङ्कुशप्रिये ।
भक्तिभावप्रिये भद्रे शान्तिर्भव ममार्चने ॥ ८॥
भावप्रिये लासप्रिये कारणानन्दविग्रहे ।
श्मशानस्य देवमूले शान्तिर्भव ममार्चने ॥ ९॥
ज्ञानाज्ञानात्मिके चाद्ये भीतिनिर्मूलनक्षमे ।
वीरवन्द्ये सिद्धिदात्रि शान्तिर्भव ममार्चने ॥ १०॥
स्मरचन्दनसुप्रीते शोणितार्णवसंस्थिते ।
सर्वसौख्यप्रदे शुद्धे शान्तिर्भव ममार्चने ॥ ११॥
कापालिकि कलाधारे कोमलाङ्गिः कुलेश्वरि ।
कुलमार्गरते सिद्धे शान्तिर्भव ममार्चने ॥ १२॥
शान्तिस्तोत्रं सुखकरं बल्यन्ते पठते शिवे ।
देव्याः शान्तिर्भवेत्तस्य न्यूनाधिक्यादिकर्मणि ॥ १३॥
मन्त्रसिद्धिकामनया दशावृत्त्या पठेद्यदि ।
मन्त्रसिद्धिर्भवेत्तस्य नात्र कार्या विचारणा ॥ १४॥
चन्द्रसूर्योपरागे च यः पठेत्स्तोत्रमुत्तमम् ।
बाला सद्मनि सौख्येन बहुकालं वसेत्ततः ॥ १५॥
सर्वभद्रमवाप्नोति सर्वत्र विजयी भवेत् ।
तीर्थकोटिगुणं चैव दानकोटिफलं तथा ।
लभते नात्र सन्देहः सत्यं सत्यं मयोदितम् ॥ १६॥
(चिन्तामणितन्त्रे)
इति श्रीबालाशान्तिस्तोत्रं समाप्तम् ।
Proofread by PSA Easwaran