श्रीबालारक्षास्तोत्रम्
सर्वलोकैकजनके सर्वाभीष्टफलप्रदे ।
रक्ष मां क्षुद्रजालेभ्यः पातकेभ्यश्च सर्वदा ॥ १॥
जगद्धिते जगन्नेत्रि जगन्मातर्जगन्मये ।
जगद्दुरितजालेभ्यो रक्ष मामहितं हर ॥ २॥
वाङ्मनः कायकरणैर्जन्मान्तरशतार्जितम् ।
पापं नाशय देवेशि पाहि मां कृपयाऽनिशम् ॥ ३॥
जन्मान्तरसहस्रेषु यत्कृतं दुष्कृतं मया ।
तन्निवारय मां पाहि शरण्ये भक्तवत्सले ॥ ४॥
मया कृतान्यशेषाणि मदीयैश्च कृतानि च ।
पापानि नाशयस्वाद्य पाहि मां परदेवते ॥ ५॥
ज्ञानाज्ञानकृतैः पापैः साम्प्राप्तं दुरितं क्षणात् ।
निवारय जगन्मातरखिलैरनिवारितम् ॥ ६॥
असत्कार्यनिवृत्तिं च सत्कायस्य प्रवर्तनम् ।
देवतात्मानुसन्धानं देहि मे परमेश्वरि ॥ ७॥
सर्वावरणविद्यानां सन्धानेनानुचिन्तनम् ।
देशिकाङ्घ्रिस्मृतिं चैव देहि मे जगदीश्वरि ॥ ८॥
अनुस्यूतरपरब्रह्मानन्दामृतनिषेवणम् ।
अत्यन्तनिश्चलं चित्तं देहि मे जगदीश्वरि ॥ ९॥
अनुस्यूतरपरब्रह्मानन्दामृतनिषेवणम् ।
अत्यन्तनिश्चलं चित्तं देहि मे परमेश्वरि ॥ १०॥
सदाशिवाद्यैर्धात्र्यन्तैः देवताभिर्मुनीश्वरैः ।
उपासितं पदं यत्तद्देहि मे परमेश्वरि ॥ ११॥
इन्द्रादिभिरशेषैश्च देवैरसुरराक्षसैः ।
कृतं विघ्नं निवार्याशु कृपया रक्ष रक्ष माम् ॥ १२॥
आत्मानमात्मनः स्निग्धमाश्रितं परिचारकम् ।
द्रव्यदं बन्धुवर्गं च देवेशि परिरक्ष नः ॥ १३॥
उपासकस्य यो यो मे यथाशक्त्यनुकूलकृत् ।
सुहृदं रक्ष तं नित्यं द्विषन्तमनुकूलय ॥ १४॥
दैहिकादैहिकान्नानाहेतुकात्केवलद्भयात् ।
पाहि मां प्रणतापत्तिभञ्जने विश्वलोचने ॥ १५॥
नित्यानन्दमयं सौख्यं निर्मलं निरूपाधिकम् ।
देहि मे निश्चलां भक्तिं निखिलाभिष्टसिद्धिदे ॥ १६॥
यन्मया सकलोपायैः करणीयमितः परम् ।
तत्सर्वं बोधयस्वाम्ब सर्वलोकहिते रते ॥ १७॥
प्रदेहि बुद्धियोगं तं येन त्वामुपयाम्यहम् ।
कामानां हृद्यसंरोहं देहि मे कृपयेश्वरि ॥ १८॥
भवाब्धौ पतितं भीतमनाथं दीनमानसम् ।
उद्धृत्य कृपया देवि निधेहि चरणाम्बुजे ॥ १९॥
इति श्रीबालारक्षास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran