श्रीबालापञ्चचामरस्तवः
गिरीन्द्रराजबालिकां दिनेशतुल्यरूपिकाम् ।
प्रवालजाप्यमालिकां भजामि दैत्यमर्दिकाम् ॥ १॥
निशेशमौलिधारिकां नृमुण्डपङ्क्तिशोभिकाम् ।
नवीनयौवनाख्यकां स्मरामि पापनाशिकाम् ॥ २॥
भवार्णवात्तु तारिकां भवेन सार्धखेलिकाम् ।
कुतर्ककर्मभञ्जिकां नमामि प्रौढरूपिकाम् ॥ ३॥
स्वरूपरूपकालिकां स्वयं स्वयम्भुस्वात्मिकाम् ।
खगेशराजदण्डिकां अईकरां सुबीजकाम् ॥ ४॥
श्मशानभूमिशायिकां विशालभीतिवारिणीम् ।
तुषारतुल्यवाचिकां सनिम्नतुङ्गनाभिकाम् ॥ ५॥
सुपट्टवस्त्रसाजिकां सुकिङ्किणीविराजिताम् ।
सुबुद्धिबुद्धिदायिकां सुरा सदा सुपीयकाम् ॥ ६॥
सक्लीं ससौः ससर्गकां सनातनेश चाम्बिकाम् ।
ससृष्टिपालनाशिकां प्रणौमि दीर्घकेशकाम् ॥ ७॥
सहस्रमार्गपालिका परापरात्मभव्यका ।
सुचारुचारुवक्त्रका शिवं ददातु भद्रिका ॥ ८॥
इत्येतत्परमं गुह्यं पञ्चचामरसंज्ञकम् ।
बालाग्रे यः पठति च तस्य सिद्धिर्भवेद्ध्रुवम् ॥ ९॥
यं यं चिन्तयते कामं तं तं प्राप्नोति साधकः ।
सिद्धिः करतले तस्य मृते मोक्षमवाप्नुयात् ॥ १०॥
इति चन्द्रद्वीपावतारे श्रीबालापञ्चचामरस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran