श्रीबालापटलम्
कैलासशिखरासीनं भगवन्तमुमापतिम् ।
चन्द्रार्धमुकुटं देवं सोमसूर्याग्निलोचनम् ॥ १॥
गजचर्मपरीधानं विरूपाक्षं सुरार्चितम् ।
गणगन्धर्वयक्षेन्द्रदेवासुरनमस्कृतम् ॥ २॥
विहसन्तं जपन्तं च पठन्तं च मुहुर्मुहुः ।
उत्थाय प्रणता भूत्वा चेदं पृच्छति भैरवी ॥ ३॥
श्रीभैरवी -
भगवन् करुणाम्बोधे सर्वागमविशारद ।
त्वत्प्रसादान्मया सर्वाः श्रुता विद्याः सुरेश्वर ॥ ४॥
इदानीं श्रोतुमिच्छामि बालां त्रिपुरसुन्दरीम् ।
दयास्ति यदि मे देव वद विद्यां महेश्वर ॥ ५॥
श्रीभैरवः -
शृणु देवि ! प्रवक्ष्यामि पञ्चाङ्गं साधकेष्टदम् ।
पटलं पद्धतिं वर्म तथा नाम्नां सहस्रकम् ॥ ६॥
स्तवराजं महादेवि शृणुष्वैकाग्रमानसा ।
श्रीबाला परमेशानी भुक्तिमुक्तिप्रदायिनी ॥ ७॥
राज्यं देयं शिरो देयं गृहं लक्ष्मीयुतं तथा
सर्वं देयं महादेवि न देयमिदमुत्तमम् ॥ ८॥
अस्या विद्यायाः सदृशी विद्या नान्या कलौ युगे ।
श्रीबालात्रिपुराविद्या शीघ्रं सिद्धिप्रदा स्मृता ॥ ९॥
देया शिष्याय शान्ताय गुरुभक्तिरताय च ।
नाभक्ताय प्रदातव्या विद्येयं परमेश्वरि ॥ १०॥
मन्त्रोद्धारं तथा यन्त्रं प्रस्तारं ध्यानमेव च ।
प्रयोगान् संप्रवक्ष्यामि देवदेव्या महेश्वरि ॥ ११॥
प्रथमं शृणु देवेशि मन्त्रोद्धारं फलप्रदम् ।
गोपनीयं प्रयत्नेन येन सिद्धिः प्रजायते ॥ १२॥
वाग्भवं कामराजश्च शक्तिमध्येऽभिधं न्यसेत् ।
नमोऽन्ते देवि बालाया मन्त्रोऽयं चाष्टवर्णकः ॥ १३॥
नापि विघ्नो न वा शौचो न वारनियमस्तथा ।
स्वयं सिद्धो महादेवि मन्त्रराजः कलौ युगे ॥ १४॥
दक्षिणामूर्तिपङ्क्त्यौ च मुनिश्छन्दः क्रमात् स्मृतम् ।
देवता त्रिपुरा बाला आद्यन्ते बीजशक्तिके ॥ १५॥
क्लीं कीलकं समादिष्टं धर्मकामार्थमुक्तये ।
शिरसि वदने देवि हृदये गुह्यदेशके ॥ १६॥
पादयोर्नाभिकमले सर्वाङ्गे च तथा न्यसेत् ।
ऋष्यादिकं महादेवि कुर्यान्न्यासविकल्पनाम् ॥ १७॥
करन्यासं षडङ्गं च बीजैः कुर्यान्महेश्वरि ।
अस्या ध्यानं प्रवक्ष्यामि साधकानां हितप्रदम् ॥ १८॥
रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् ।
विद्याक्षमालाऽभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ १९॥
इति ध्यात्वा महादेवीं जपेन्मत्रं सुसिद्धदम् ।
लक्षत्रयं पुरश्चर्याविधौ साधकसत्तमः ॥ २०॥
अथ वक्ष्यामि देवेशि यन्त्रोद्धारं सुदुर्लभम् ।
साधकस्य महादेव्या भुक्तिमुक्तिफलप्रदम् ॥ २१॥
बिन्दुत्रिकोणवसु(रस)कोणकनागपत्रवृत्तत्रयाञ्चितमहीसदनत्रयं च
बालादिचक्रमिदमार्तिहरं गिरीशे ब्रह्मेन्द्रविष्णुनमितं गदितं मया ते ॥
एवं विलिखिते यन्त्रे पीठशक्तीः प्रपूजयेत् ।
इच्छाज्ञानक्रियाश्चैव कामिनी कामदायिनी ॥ २३॥
रती रतिप्रियानन्दा मनोन्मन्यपि चान्तिमा ।
पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत् ॥ २४॥
व्योमपर्वततार्तीयं सदाशिवमहापदम् ।
पीठपद्मासनायान्ते नमोऽन्तः पीठमन्त्रकः ॥ २५॥
षोडशार्णस्ततो मूर्तौ क्लृप्तायां मूलमन्त्रतः ।
आवाह्य पूजयेद्देवीमुपचारैः पृथग्विधैः ॥ २६॥
देवीमिष्ट्वा मध्ययोनौ त्रिकोणे मतिपूर्वकम् ।
वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम् ॥ २७॥
योन्यां तु वह्निकोणादावङ्गानि परिपूजयेत् ।
मध्ययोन्यां बहिः पूर्वदिक्षु चाग्रे स्मरानपि ॥ २८॥
बाणदेवीस्तद्वदेव शक्तीरष्टासु योनिषु ।
सुभगाख्या भगा पश्चात्तृतीया भगसर्पिणी ॥ २९॥
भगमाला तथानङ्गाद्यानङ्गकुसुमा परा ।
अनङ्गमेखलानङ्गमदनेत्यष्टशक्तयः ॥ ३०॥
पद्मकेसरगा ब्राह्मीमुखाः पत्रेषु भैरवाः ।
दलाग्रेऽप्यष्ट पीठानि कामरूपाख्यमादिमम् ॥ ३१॥
मलयं कौलगिर्याख्यं चौहाराख्यं कुलान्तकम् ।
जालन्धरं तथौड्याणं देवकूटमथाष्टमम् ॥ ३२॥
भूगृहे च धरादिक्षु हेरुकं त्रिपुरान्तकम् ।
वेतालमग्निजिह्वं च कालान्तककपालिनौ ॥ ३३॥
एकपादं भीमरूपं मलयं हाटकेश्वरम् ।
शक्राद्यानायुधैः सर्वैः स्वस्वदिक्षु समर्चयेत् ॥ ३४॥
तद्बहिर्दिक्षु वटुकं योगिनीः क्षेत्रपालकम् ।
गणेशं विदिशासु वै वसून् सूर्यं शिवं तथा ॥ ३५॥
(सर्वभूतान् समभ्यर्च्य पूजयेदायुधांस्तथा) ।
बालां मध्ये विभाव्यादौ कामेश्वराङ्कमध्यगाम् ॥ ३६॥
मकारैः पञ्चभिः कौलः कौलाचारपरायणः ।
सम्पूजयेन्महादेवि साधको मन्त्रसाधकः ॥ ३७॥
बिन्दौ गन्धाक्षतैः पुष्पैर्धूपदीपादितर्पणैः ।
लयाङ्गमिदमाख्यातं प्रयोगान् शृणु पार्वति ॥ ३८॥
यान् विधाय मनुः शीघ्रं सिद्धिभाग्भवति ध्रुवम् ।
स्तम्भनं मोहनं चैव मारणाकर्षणे तथा ॥ ३९॥
वशीकारं तथोच्चाटं शान्तिकं पौष्टिकं तथा ।
एतत्साधनमाचक्षे सारभूतं मनोः प्रिये ॥ ४०॥
अदेयं देव्यभक्ताय गोप्यं गुह्यतमः पशोः ।
१. प्रतिपद्दिवसे देवि ! स्नात्वा कृत्वाह्निकीं क्रियाम् ॥ ४१॥
मध्याह्ने निर्जनं गत्वा यथावदयुतावधि ।
होमो दशांशतः कार्यो घृतपायसबर्हकैः ॥ ४२॥
सन्तर्प्य देवताः सद्यः स्तम्भनं जायते ध्रुवम् ।
राजसूर्येन्दुवातानां दस्युवादिमुखेषु च ॥ ४३॥
२. दर्शे सायं श्मशाने तु जपेदुलूकविष्टरः ।
अयुतं तद्दशांशेन होमं सर्पिस्सुरान्वितैः ॥ ४४॥
भूताख्ये वासरे देवि गत्वा प्रेतालयं निशि ॥ ४५॥
चिताग्रे सञ्जपेद्विद्यां वीरेन्द्रः षोडशाक्षरीम् ।
अयुतं च हुनेन्मन्त्री चिताग्नौ घृतगुग्गुलम् ॥ ४६॥
चण्डालकेशसहितं म्रियते रिपुरुत्कटः ।
४. अष्टाम्यां शुक्लपक्षे तु जपेद्रहसि साधकः ॥ ४७॥
अयुतं मूलविद्याया ध्यात्वा कान्तां मनोगताम् ।
होमो दशांशतः सर्पिर्लाक्षापुष्पवतीरजः ॥ ४८॥
करीरपूलगोधूमैः स्त्रीणामाकर्षणं भवेत् ।
५. नवम्यां साधकः स्नात्वा कृत्वा कर्माह्निकं प्रिये ॥ ४९॥
अयुतं घृतमत्स्याण्डपद्ममुक्तैणरोमभिः ।
होमो विधेयो वरीशैर्वासवो दासतां व्रजेत् ॥ ५०॥
६. चतुर्थ्यां कृष्णपक्षे तु जपेच्चन्द्रोदये शिवे ।
नदीतीरे मनुं वीरोऽयुतं शीर्षासनस्थितः ॥ ५१॥
दशांशेन हुनेत्तत्र घृतनीलोत्पलत्वचः ।
लवङ्गमरिचाम्लादीन् रिपोरुच्चाटनं भवेत् ॥ ५२॥
७. पञ्चम्यां निशि देवेशि जपेदयुतसङ्ख्यया ।
हुनेद्दशांशतः सर्पिर्मत्स्यमत्स्याण्डखर्परान् ॥ ५३॥
महामयमहाभीति-महोपद्रवशान्तये ।
८. महाष्टम्यां नरः स्नात्वा पीठे श्रेष्ठे दशाधिकाम् ॥ ५४॥
वीरो दशाङ्कसाहस्रीं हुनेत्तत्र दशांशतः ।
घृतखर्जूरमृद्वीका -नाघवल्लीदलस्रजः ॥ ५५॥
छागमांसं सरक्तं च महापुष्टिः प्रजायते ।
इदं रहस्यमाख्यातं सर्वतत्त्वनिरूपणम् ॥ ५६॥
सर्वस्वं मम देवेशि रहस्यं गोपयेत्कलौ ।
सूर्यादिवारेषु जपैर्दशसाहस्रसङ्ख्यकैः ॥ ५७॥
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ।
इत्येष पटलो दिव्यः स्नेहात् तव प्रकाशितः ।
गोप्याद्गोप्यो गोप्यतरो गोपनीयः स्वयोनिवत् ॥ ५८॥
इति श्रीमद्रुद्रयामलान्तर्गतं श्रीबालापटलं सम्पूर्णम् ।
Proofread by PSA Easwaran