श्रीबालानीराजनम्
जय बाले त्रिपुरे जय बाले जय त्रिपुरे ।
द्वेधा विधृतशरीरे शिवशक्त्याकारे ॥ १॥
अरुणकिरणनिभासे बहुकृतविश्वासे ।
मौक्तिकशोभितनासे कमलमुकुलवासे ॥ २॥
निजशक्तिस्वविलासे दनुजकृतत्रासे ।
शशिवदनाधरहासे भक्तार्पितरासे ॥ ३॥
इन्दुविराजितभाले करधृतजपमाले ।
भक्तं रक्षसि बाले करपुस्तकजाले ॥ ४॥
इतराभशयशीले नाशितभवजाले ।
रत्नविभूषितमाले खलजनकृतकाले ॥ ५॥
मुकुलाभस्तनभारे कण्ठार्पितहारे ।
तारितभवाब्धिपारे श्रितमूलाधारे ॥ ६॥
कर्णीरथकृतचारे जयसि निराकारे ।
कामेश्यङ्काधारे भक्तहृदयसञ्चारे ॥ ७॥
आदौ वाग्भवबीजे मध्ये क्लीम्बीजे ।
अन्ते सुशक्तिबीजे क्रीडसि हृदि निर्बीजे ॥ ८॥
मञ्जीरध्वनिमण्डितमृदुतरशुभचरणे ।
रमतां मम चित्तमिदं तव पूजनकरणे ॥ ९॥
तव नीराजनकरणं भवसागरतरणम् ।
बाले भव मम शरणम् । बाले भव शरणम् ॥ १०॥
Proofread by PSA Easwaran