श्रीबालामुक्तावलीस्तोत्रम्
बालार्ककोटिरुचिरां कोटिब्रह्माण्डभूषिताम् ।
कन्दर्पकोटिलावण्यां बालां वन्दे शिवप्रियाम् ॥ १॥
वह्निकोटिप्रभां सूक्ष्मां कोटिकोटिसहेलिनीम् ।
वरदां रक्तवर्णां च बालां वन्दे सनातनीम् ॥ २॥
ज्ञानरत्नाकरां भीमां परब्रह्मावतारिणीम् ।
पञ्चप्रेतासनगतां बालां वन्दे गुहाशयाम् ॥ ३॥
पराप्रासादमूर्ध्निस्थां पवित्रां पात्रधारिणीम् ।
पशुपाशच्छिदां तीक्ष्णां बालां वन्दे शिवासनाम् ॥ ४॥
गिरिजां गिरिमध्यस्थां गीः रूपां ज्ञानदायिनीम् ।
गुह्यतत्त्वपरां चाद्यां बालां वन्दे पुरातनिम् ॥ ५॥
बौद्धकोटिसुसौन्दर्यां चन्द्रकोटिसुशीतलाम् ।
आशावासां परां देवीं वन्दे बालां कपर्दिनीम् ॥ ६॥
सृष्टिस्थित्यन्तकारिणीं त्रिगुणात्मकरूपिणीम् ।
कालग्रसनसामर्थ्यां बालां वन्दे फलप्रदाम् ॥ ७॥
यज्ञनाशीं यज्ञदेहां यज्ञकर्मशुभप्रदाम् ।
जीवात्मविश्वजननीं बालां वन्दे परात्पराम् ॥ ८॥
इत्येतत्परमं गुह्यं नाम्ना मुक्तावलीस्तवम् ।
ये पठन्ति महेशानि फलं वक्तुं न शक्यते ॥ ९॥
गुह्याद्गुह्यतरं गुह्यं महागुह्यं वरानने ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ १०॥
कन्यार्थी लभते कन्यां मोक्षार्थी मोक्षमाप्नुयात् ।
बहुनात्र किमुक्तेन चिन्तामणिरिवापरम् ॥ ११॥
गोपनीयं प्रयत्नेन गोपनीयं न संशयः ।
अन्येभ्यो नैव दातव्यं किमन्यच्छ्रोतुमिच्छसि ॥ १२॥
इति श्रीविष्णुयामले श्रीबालामुक्तावलीस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran