श्रीबालामन्त्रगर्भाष्टकम्
ऐङ्काररूपिणीं सत्यां ऐङ्काराक्षरमालिनीम् ।
ऐम्बीजरूपिणीं देवीं बालादेवीं नमाम्यहम् ॥ १॥
वाग्भवां वारुणीपीतां वाचासिद्धिप्रदां शिवाम् ।
बलिप्रियां वरालाढ्यां वन्दे बालां शुभप्रदाम् ॥ २॥
लाक्षारसनिभां त्र्यक्षां ललज्जिह्वां भवप्रियाम् ।
लम्बकेशीं लोकधात्रीं बालां द्रव्यप्रदां भजे ॥ ३॥
यैकारस्थां यज्ञरूपां यूं रूपां मन्त्ररूपिणीम् ।
युधिष्ठिरां महाबालां नमामि परमार्थदाम् ॥ ४॥
नमस्तेऽस्तु महाबालां नमस्ते शङ्करप्रियाम् ।
नमस्तेऽस्तु गुणातीतां नमस्तेऽस्तु नमो नमः ॥ ५॥
महामनीं मन्त्ररूपां मोक्षदां मुक्तकेशिनीम् ।
मांसांशीं चन्द्रमौलिं च स्मरामि सततं शिवाम् ॥ ६॥
स्वयम्भुवां स्वधर्मस्थां स्वात्मबोधप्रकाशिकाम् ।
स्वर्णाभरणदीप्ताङ्गं बालां ज्ञानप्रदां भजे ॥ ७॥
हा हा हा शब्दनिरतां हास्यां हास्यप्रियां विभुम् ।
हुङ्काराद्दैत्यखण्डाख्यां श्रीबालां प्रणमाम्यहम् ॥ ८॥
इत्यष्टकं महापुण्यं बालायाः सिद्धिदायकम् ।
ये पठन्ति सदा भक्त्या गच्छन्ति परमां गतिम् ॥ ९॥
इति कुलचूडामणितन्त्रे श्रीबालामन्त्रगर्भाष्टकं सम्पूर्णम् ।
Proofread by PSA Easwaran