श्रीबालामकरन्दस्तवः
श्रीरुद्र उवाच-
शृणु देवि प्रवक्ष्यामि मकरन्दस्तवं शुभम् ।
गोप्याद्गोप्यतरं गोप्यं महाकौतूहलं परम् ॥ १॥
बालायाः परमेशान्याः स्तोत्रचूडामणिः शिवे ।
मकरन्दस्य स्तोत्रस्य ऋषिर्नारदसंज्ञकः ॥ २॥
छन्दोऽनुष्टुपुदाख्यातं श्रीबाला देवता स्मृता ।
ऐं बीजं शक्तिः सौः प्रोक्तं कीलकं क्लीं तथैव च ॥ ३॥
भोगमोक्षस्य सिद्ध्यर्थे विनियोगः प्रकीर्तितः ।
नमस्तेऽस्तु परां शक्तिं नमस्ते भक्तवत्सले ॥ ४॥
नमस्तेऽस्तु गुणातीतां बालां सिद्धिप्रदाम्बिकाम् ।
भवदुःखाब्धितरणीं परं निर्वाणदायिनीम् ॥ ५॥
धनदां ज्ञानदां सत्यां श्रीबालां प्रणमाम्यहम् ।
सिद्धिप्रदां ज्ञानरूपां चतुर्वर्गफलप्रदाम् ॥ ६॥
आधिव्याधिहरां वन्दे श्रीबालां परमेश्वरीम् ।
ऐङ्काररूपिणीं भद्रां क्लीङ्कारगुणसम्भवाम् ॥ ७॥
सौःकाररूपरूपेशीं बालां बालार्कसन्निभाम् ।
ऊर्ध्वाम्नायेश्वरीं देवीं रक्तां रक्तविलेपनाम् ॥ ८॥
रक्तवस्त्रधरां सौम्यां श्रीबालां प्रणमाम्यहम् ।
राजराजेश्वरीं देवीं रजोगुणात्मिकां भजे ॥ ९॥
ब्रह्मविद्यां महामायां त्रिगुणात्मकरूपिणीम् ।
पञ्चप्रेतासनस्थां च पञ्चमाकारभक्षकाम् ॥ १०॥
पञ्चभूतात्मिकां चैव नमस्ते करुणामयीम् ।
सर्वदुःखहरां दिव्यां सर्वसौख्यप्रदायिनीम् ॥ ११॥
सिद्धिदां मोक्षदां भद्रां श्रीबालां भावयाम्यहम् ।
नमस्तस्यै महादेव्यै देवदेवेश्वरि परे ॥ १२॥
सर्वोपद्रवनाशिन्यै बालायै सततं नमः ।
गुह्याद्गुह्यतरां गुप्तां गुह्येशीं देवपूजिताम् ॥ १३॥
हरमौलिस्थितां देवीं बालां वाक्सिद्धिदां शिवाम् ।
व्रणहां सोमतिलकां सोमपानरतां पराम् ॥ १४॥
सोमसूर्याग्निनेत्रां च वन्देऽहं हरवल्लभाम् ।
अचिन्त्याकाररूपाख्यां ओङ्काराक्षरूपिणीम् ॥ १५॥
त्रिकालसन्ध्यारूपाख्यां भजामि भक्ततारिणीम् ।
कीर्तिदां योगदां रादां सौख्यनिर्वाणदां तथा ॥ १६॥
मन्त्रसिद्धिप्रदामीडे सृष्टिस्थित्यन्तकारिणीम् ।
नमस्तुभ्यं जगद्धात्रि जगत्तारिणि चाम्बिके ॥ १७॥
सर्ववृद्धिप्रदे देवि श्रीविद्यायै नमोऽस्तु ते ।
दयारूप्यै नमस्तेऽस्तु कृपारूप्यै नमोऽस्तु ते ॥ १८॥
शान्तिरूप्यै नमस्तेऽस्तु धर्मरूप्यै नमो नमः ।
पूर्णब्रह्मस्वरूपिण्यै नमस्तेऽस्तु नमो नमः ॥ १९॥
ज्ञानार्णवायै सर्वायै नमस्तेऽस्तु नमो नमः ।
पूतात्मायै परात्मायै महात्मायै नमो नमः ॥ २०॥
आधारकुण्डलीदेव्यै भूयो भूयो नमाम्यहम् ।
षट्चक्रभेदिनी पूर्णा षडाम्नायेश्वरी परा ॥ २१॥
परापरात्मिका सिद्धा श्रीबाला श्ररणं मम ।
इदं श्रीमकरन्दाख्यं स्तोत्रं सर्वागमोक्तकम् ॥ २२॥
स्तोत्रराजमिदं देवि धारय त्वं कुलेश्वरि ।
पुण्यं यशस्यमायुष्यं देवानामपि दुर्लभम् ।
पाठमात्रेण देवेशि सर्वारिष्टं विनश्यति ॥ २३॥
इति रुद्रयामलतः श्रीबालामकरन्दस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran