श्रीबालाकवचम् २
श्रीपार्वत्युवाच-
देवदेव महादेव शङ्कर प्राणवल्लभ ।
कवचं श्रोतुमिच्छामि बालाया वद मे प्रभो ॥ १॥
श्रीमहेश्वर उवाच-
श्रीबालाकवचं देवि महाप्राणाधिकं परम् ।
वक्ष्यामि सावधाना त्वं शृणुष्वावहिता प्रिये ॥ २॥
अरुणकिरणजालैः रञ्जिताशावकाशा
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकह्लारसंस्था
निवसतु हृदि बाला नित्यकल्याणशीला ॥ ३॥
(ऐं) वाग्भवः पातु शीर्षे (क्लीं) कामराजस्तथा हृदि ।
सौः शक्तिबीजं मां पातु नाभौ गुह्ये च पादयोः ॥ ४॥
ऐं क्लीं सौः वदने पातु बाला मां सर्वसिद्धये ।
हसकलह्रीं सौः पातु स्कन्धे भैरवी कण्ठदेशतः ॥ ५॥
सुन्दरी नाभिदेशेऽव्याच्चर्चे कामकला सदा ।
भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ॥ ६॥
ललाटे सुभगा पातु भगा मां कण्ठदेशतः ।
भगोदया तु हृदये उदरे भगसर्पिणी ॥ ७॥
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा ।
गुह्ये पातु महावीरा राजराजेश्वरी शिवा ॥ ८॥
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका ।
नारायणी सर्वगात्रे सर्वकार्यशुभङ्करी ॥ ९॥
ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा ।
पश्चिमे पातु वाराही ह्युत्तरे तु महेश्वरी ॥ १०॥
आग्नेय्यां पातु कौमारी महालक्ष्मीश्च नैरृते ।
वायव्ये पातु चामुण्डा चेन्द्राणी पातु चेशके ॥ ११॥
जले पातु महामाया पृथिव्यां सर्वमङ्गला ।
स्क्ल्रीं मां सर्वतः पातु सकलह्रीं पातु सन्धिषु ॥ १२॥
जले स्थले तथाऽऽकाशे दिक्षु राजगृहे तथा ।
क्षूं क्षें मां त्वरिता पातु सह्रीं सक्लीं मनोभवा ॥ १३॥
हंसः पायान्महादेवी परं निष्कलदेवता ।
विजया मङ्गला दूती कल्याणी भगमालिनी ।
जलामालिनिनित्या च सर्वदा पातु मां शिवा ॥ १४॥
इत्येतत्कवचं देवि बालादेव्याः प्रकीर्तितम् ।
सर्वस्वं मे तव प्रीत्या प्राणवद्रक्षितं कुरु ॥ १५॥
(श्रीरुद्रयामले)
(१. आकाशे पातु वरदा सर्वतो भुवनेश्वरी ॥ १॥
इदं तु कवचं नाम देवानामपि दुर्लभम् ।
पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः ॥ २॥
नामयो व्याधपस्तस्य न भयं च क्वचिद्भवेत् ।
न च मारीभयं तस्य पातकानां भयं तथा ॥ ३॥
गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम् ॥ ४॥
यदिदं कवचं ज्ञात्वा श्रीबालां यो जपेच्छिवे ।
स प्राप्नोति फलं सर्वं शिवसायुज्यसम्भवम् ॥ ५॥ इति पाठः)
इति श्रीबालाकवचं (२) सम्पूर्णम् ।
Proofread by PSA Easwaran