श्रीबालाकवचम् १
वाग्भवः पातु शिरसि कामराजः सदा हृदि ।
शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ १॥
ऐं क्लीं सीः वदने पातु बाला सर्वार्थसिद्धये ।
जिह्वां पातु महाहंसी स्कन्धदेशे तु भैरवी ॥ २॥
सुन्दरी नाभिदेशं तु शिरसि कमला सदा ।
भ्रुवौ नासाद्वयं पातु महात्रिपुरसुन्दरी ॥ ३॥
ललाटे सुभगा पातु कण्ठदेशे तु मालिनी ।
वाग्भवं पातु हृदये उदरे भगसर्पिणी ॥ ४॥
भगमालिनी नाभिदेशे लिङ्गे पातु मनोभवा ।
गुह्ये पातु महादेवी राजराजेश्वरी शिवा ॥ ५॥
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका ।
नारायणी सर्वगात्रे सर्वकाले शिवङ्करी ॥ ६॥
ब्रह्माणी पातु मां पूर्वे दक्षिणे पातु वैष्णवी ।
पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥ ७॥
आग्नेय्यां पातु कौमारी महालक्ष्मीस्तु नैरृते ।
वायव्यां पातु चामुण्डा इन्द्राणी पातु ईशके ॥ ८॥
आकाशे च महामाया पृथिव्यां सर्वमङ्गला ।
आत्मानं पातु वरदा सर्वाङ्गे भुवनेश्वरी ॥ ९॥
इति सिद्धयामलान्तर्गतं श्रीबालाकवचं सम्पूर्णम् ।
Proofread by PSA Easwaran