श्रीबालागायत्री
बालाशक्त्यै च विद्महे त्र्यक्षर्यै च धीमहि ।
तन्नः शक्तिः प्रचोदयात् ।
चतुर्विंशति सहस्रजपः । अपामार्गेण लाजेन आज्येन च होमः ।
तद्दशांशः, क्षीरेण तर्पणं तद्दशांशं, ब्राह्मणभोजनं
तद्दशांशम् । वन्ध्यायाः पुत्रोत्पत्तिः, कुक्षिरोगनिवृत्तिः,
शत्रुनाशः, राजवशीकरणं च फलम् ।
ऐं वागीश्वर्यै विद्महे क्लीं कामेश्वर्यै धीमहि ।
तत्रः शक्तिः प्रचोदयात् ।
(अर्धरात्रे)
ऐं त्रिपुरादेव्यै च विद्महे वागीश्वर्यै च धीमहि ।
तन्नो मुक्तिः प्रचोदयात् ।
इति श्रीबालागायत्री समाप्ता ।
Proofread by PSA Easwaran