आवरणदेवतासहित श्रीबालाध्यानम्
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः नमो भगवति बाले
त्रिपुरसुन्दरि इन्द्राग्नियमनिरृतिवरुणवायु -
कुबेरेशानशक्तिभिः सेविते सर्वाशापरिपूरकचक्रस्वामिनि ।
अनङ्गकुसुमानङ्गमेखलानङ्गमदनानङ्गमदनातुरानङ्ग-
रेखानङ्गवेगिन्यनङ्गाङ्कुशानङ्गमालिनीभिः वशिनी-कामेश्वरी-
मोदिनी-विमलारुणा-जयिनी-सर्वेश्वरी-कौलिनीभिश्च
परिवृते सर्वसौभाग्यदायकचक्रेशि । ब्राह्मी-माहेश्वरी-कौमारी-
वैष्णवी-वाराही-माहेन्द्री-चामुण्डी-महालक्ष्म्याख्यमातृभिः
असिताङ्ग-रुरु-चण्ड-क्रोधोन्मत्त-कपालभीषण-
संहाराख्यभैरवैश्चोपासिते । सर्वार्थसाधकचक्रेशि । साकिनी-
राकिणी-लाकिनी-काकिनी-डाकिनी-हाकिनी-याकिन्याख्ययोगिनीसंस्तुते
सर्वरक्षाकरचक्रेशि । रतिप्रीति-विजयाख्यशक्तिभिः गुरु-परमगुरु -
परमेष्ठिगुरुभिश्च पूजिते । सर्वसिद्धिप्रदचक्रेशि ।
हृदय-शिरस्शिखा-कवचनेत्रत्रयास्त्रशक्तिगुप्ते ।
सर्वानन्दमयचक्राधिष्ठात्रि ।
श्रीशिवकामेश्वराङ्कस्थे कामेश्वर्यङ्कवासिनि ।
धृतवरदाभयमुद्रे पुस्तकजपमालाहस्ते अरुणे कल्हारसंस्थे
श्रीबाले त्रिपुरसुन्दरि । परे भट्टारिके नमस्ते नमस्ते नमस्ते नमः
सौः क्लीं ऐं श्रीं ह्रीं ऐम् ।
इति आवरणदेवतासहित श्रीबालाध्यानं सम्पूर्णम् ।
Proofread by PSA Easwaran