श्रीबालादेविप्रार्थना
देवि प्रसीद ।
देवि! यातं वयः । कालो जरादूतः प्रतीक्षते ।
अनुध्यायन् कर्म कृतं उदीक्षे जन्मसन्ततिम् ॥ १॥
जन्मन्यस्मिन्मत्पितरौ बन्धवो गुरुसत्तमाः ।
त्वदन्ति विद्याविनयशीलाढ्यं मामुपानयन् ॥ २॥
स्मरामि सर्वदा देवि तानव्याजकृपार्द्रितान् ।
एतज्जन्म कृतार्थं मे लब्धात्त्वत्पादसेवनात् ॥ ३॥
देहो वाणी मनो धीश्च कृतार्था मम भाग्यतः ।
विधेहि जीवितस्यान्ते त्वल्लग्ना वासनाः शुभाः ॥ ४॥
प्रसीद तत्त्वत्कृपया स्थिरत्वत्पदचिन्तनः ।
प्रसन्नधीरसम्मोहो नयेयं क्षणमन्तिमम् ॥ ५॥
लभेय जन्म यत्किञ्चित् यस्मिन्यायां त्वदन्तिकम् ।
विन्देय तादृशांस्तान्वा देशिकान्मद्धिते रतान् ॥ ६॥
इति श्रीबालादेविप्रार्थना समाप्ता ।
Proofread by PSA Easwaran