श्रीबालादलम्
ॐ नमो भगवति बालापरमेश्वरि रविशशिवह्निविद्युत्कोटिनिभाकारे,
हारनूपुरकिरीटकुण्डलहेमसूत्रमुक्तादामभूषितसर्वगात्रे,
पीयूषवरप्रिये, ऋग्यजुस्सामादि निगमकोटिभिः
संस्तूयमानचरणारविन्दद्वयशोभिते,
किन्नरचारणयक्षविद्याधरसाध्यकिम्पुरुषादि
परिवृतमहेन्द्रमुखत्रिदशसङ्घैः
संसेव्यमाने, षट्कोट्यप्सरसां नृत्तसन्तोषिते,
अणिमाद्यष्टसिद्धिभिः पूजितपादाम्बुजद्वये,
खड्गकपालत्रिशूलभिण्डिपालशक्तिचक्रकुन्तगदापरिघचापबाणपाशवह्नि-
क्षेपणिकादिव्यायुधैः शोभिते, दुष्टदानवगर्व
शोषिणि, एकाहिक-द्व्याहिक-चातुर्थिकसांवत्सरिकादि
सर्वज्वरभयविच्छेदिनि,
राजचोराग्निजलविषभूतकृत्यानानाविधज्वरस्फोटकादिनानारूपेभ्यो
नानाभिचारेभ्यो नानापवादेभ्यः
परकर्ममन्त्रतन्त्रशल्यशून्यक्षुद्रादिभ्यः संरक्षिणि,
सकलदुरितसंहारकारिणि, सर्वमङ्गलदयासंवर्षिणि,
ललितोत्सङ्गनिवासिनि, महामाये श्रीपरमेश्वरि ममाभयं देहि देहि
दापय स्वाहा ॥
इति श्रीबालादलं सम्पूर्णम् ।
Proofread by PSA Easwaran