श्रीबालाभुजङ्गस्तोत्रम्
श्रीनीललोहित उवाच-
जगद्योनिरूपां सुवेशीं च रक्तां गुणातीतसंज्ञां महागुह्यगुह्याम् ।
महासर्पभूषां भवेशादिपूज्यां महात्युग्रबालां भजेऽहं हि नित्याम् ॥ १॥
महास्वर्णवर्णां शिवपृष्ठसंस्थां महामुण्डमालां गले शोभमानाम् ।
महाचर्मवस्त्रां महाशङ्खःहस्तां महात्युग्रबालां
भजेऽहं हि नित्याम् ॥ २॥
सदा सुप्रसन्नां भृतासूक्ष्मसूक्ष्मां वराभीतिहस्तां धृतावक्षपुस्ताम् ।
महाकिन्नरेशीं भगाकारविद्यां महाट्युग्रबालां भजेऽहं हि नित्याम् ॥ ३॥
तिनीं तीकिनीनां रवां किङ्किःणीनां हहाहा हहाहा महालापशब्दाम् ।
तथैथै तथैथै महानृत्यनृत्यां महाट्युग्रबालां
भजेऽहं हि नित्याम् ॥ ४॥
ननाना रिरीरी महागीश शम्बू हुहूवू हुहूवू पशो रक्तपानाम् ।
धिमिन्धीं धिमिन्धीं मृदङ्गस्य शब्दां महात्युग्रबालां
भजेऽहं हि नित्याम् ॥ ५॥
महाचक्रसंस्थां त्रिमात्रास्वरूपां शिवार्धाङ्गभूतां महापुष्पमालाम् ।
महादुःखहर्त्रीं महाप्रेतसंस्थां महात्युग्रबालां
भजेऽहं हि नित्याम् ॥ ६॥
स्फुरत्पद्मवक्त्रां हिमांशोः कलापां महाकोमलाङ्गीं सुरेशेन मान्याम् ।
जगत्पालनैकाग्रचित्तां सुपुष्टां महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ७॥
महादैत्यनाशीं सुरान्नित्यपालीं महाबुद्धिराशिं कवीनां मुखस्थाम् ।
जटीनां हृदिस्थां मनूनां शिरःस्थां महात्युग्रबालां
भजेऽहं हि नित्याम् ॥ ८॥
भुजङ्गाख्यं महास्तोत्रं त्रिषु लोकेषु दुर्लभम् ।
महासिद्धिप्रदं दिव्यं चतुर्वर्गफलप्रदम् ॥ ९॥
सर्वक्रतुफलं भद्रे सर्वव्रतफलं तथा ।
सर्वदानोद्भवं पुण्यं लभते नात्र संशयः ॥ १०॥
विवादे कलहे घोरे महादुःखे पराजये ।
ग्रहदोषे महारोगे पठेत्स्तोत्रं विचक्षणः ॥ ११॥
सर्वदोषा विनश्यन्ति लभते वाञ्छितं फलम् ।
दूतीयागे पठेद्देवि सर्वशत्रुक्षयो भवत् ॥ १२॥
महाचक्रे पठेद्देवि लभते परमं पदम् ।
पूजान्ते पठते भक्त्या महाबलिफलप्रदम् ॥ १३॥
पितृगेहे तुर्यपथे शून्यागारे शिवालये ।
बिल्वमूले चैकवृक्षे रतौ मधुसमागमे ॥ १४॥
पठेत्स्तोत्रं महेशानि जीवन्मुक्तस्स उच्यते ।
त्रिकालं पठते नित्यं देवीपुत्रत्वमाप्नुयात् ॥ १५॥
इति श्रीकालानलतन्त्रतः श्रीबालाभुजङ्गस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran