श्रीबालाष्टोत्तरशतनामावलिः ३
ॐ ऐं ह्रीं श्रीं अणुरूपायै नमः । महारूपायै नमः । ज्योतीरूपायै
नमः । महेश्वर्यै नमः । पार्वत्यै नमः । वररूपायै नमः ।
परब्रह्मस्वरूपिण्यै नमः । लक्ष्म्यै नमः । लक्ष्मीस्वरूपायै
नमः । लक्षायै नमः । लक्षस्वरूपिण्यै नमः । गायत्र्यै नमः ।
सावित्र्यै नमः । सन्ध्यायै नमः । सरस्वत्यै नमः । श्रुत्यै
नमः । वेदबीजायै नमः । ब्रह्मबीजायै नमः । विश्वबीजायै नमः ।
कविप्रियायै नमः । २०॥
ॐ इच्छाशक्त्यै नमः । क्रियाशक्त्यै नमः । आत्मशक्त्यै नमः ।
भयङ्कर्यै नमः । कालिकायै नमः । कमलायै नमः । काल्यै नमः ।
कङ्काल्यै नमः । कालरूपिण्यै नमः । उपस्थितिस्वरूपायै नमः ।
प्रलयायै नमः । लयकारिण्यै नमः । हिङ्गुलायै नमः । त्वरितायै
नमः । चण्ड्यै नमः । चामुण्डायै नमः । मुण्डमालिन्यै नमः ।
रेणुकायै नमः । भद्रकाल्यै नमः । मातङ्यै नमः । ४०॥
ॐ शिवशाम्भव्यै नमः । योगिन्यै नमः । मङ्गलायै नमः ।
गौर्यै नमः । गिरिजायै नमः । गोमत्यै नमः । गयायै नमः ।
कामाक्ष्यै नमः । कामरूपायै नमः । कामिन्यै नमः । कामरूपिण्यै
नमः । योगिन्यै नमः । योगरूपायै नमः । योगज्ञानायै नमः ।
शिवप्रियायै नमः । उमायै नमः । कात्यायन्यै नमः । चण्ड्यै
नमः । अम्बिकायै नमः । त्रिपुरसुन्दर्यै नमः । ६०॥
ॐ अरुणायै नमः । तरुण्यै नमः । शान्तायै नमः । सर्वसिद्ध्यै
नमः । सुमङ्गलायै नमः । शिवायै नमः । सिद्धमात्रे नमः ।
सिद्धिविद्यायै नमः । हरिप्रियायै नमः । पद्मावत्यै नमः ।
पद्मवर्णायै नमः । पद्माक्ष्यै नमः । पद्मसम्भवायै नमः ।
धारिण्यै नमः । धरित्र्यै नमः । धात्र्यै नमः । अगम्यायै नमः ।
गम्यवासिन्यै नमः । विद्यावत्यै नमः । मन्त्रशक्त्यै नमः । ८०॥
ॐ मन्त्रसिद्धिपरायणायै नमः । विराजे नमः । धारिण्यै नमः ।
धात्र्यै नमः । वाराह्यै नमः । विश्वरूपिण्यै नमः । परायै
नमः । पश्यायै नमः । अपरायै नमः । मध्यायै नमः ।
दिव्यनादविलासिन्यै नमः । नादाय नमः । बिन्दवे नमः । कलायै
नमः । ज्योतिषे नमः । विजयायै नमः । भुवनेश्वर्यै नमः ।
ऐङ्कारिण्यै नमः । भयङ्कार्यै नमः । क्लिंङ्कार्यै नमः । १००॥
ॐ कमलप्रियायै नमः । सौःकार्यै नमः । शिवपत्न्यै नमः ।
परतत्त्वप्रकाशिन्यै नमः । ह्रीङ्कार्यै नमः । आदिमायायै नमः ।
मन्त्रमूर्त्यै नमः । परायणायै नमः । १०८॥
इति श्रीबालाष्टोत्तरशतनामावलिः (३) समाप्ता ।
Proofread by PSA Easwaran