अर्बुदाभगवतीस्तोत्रम्
श्यामां दिनाद्ययजनेरुण-पद्मरागां
देवीं प्रदोषसमये च हिरण्यवर्णाम् ।
संवित्प्रभां सकलमूर्तिषु निर्विकल्पां
तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ १॥
सौम्यां सदा हृदि सतां ललितस्वरूपां
क्रूरां च दुष्टमनसां धृतघोररूपाम् ।
शूलासिपात्र-फणिपाशकरां पराम्बां
तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ २॥
ब्रह्मादिपञ्च-समलङ्कृत -मञ्च-मध्यां
ज्ञानक्रियाबलवतीं जनिताण्डकोटिम् ।
कैवल्यधामफल-धारण-कल्पवल्लीं
तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ ३॥
सिद्धां वशिष्ठभृगुगौतम-सिद्धिदात्रीं
नित्याचलेश्वर-निरीक्षणचञ्चलाक्षीम् ।
सिंहाधिरूढसुमुखीं शशिखण्डमौलिं
तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ ४॥
वात्सल्यसारपरिपूर्ण-विशालनेत्रां
योगीशसेवित-कुलामृतवृष्टिरूपाम् ।
षट्पद्मकाननचरां प्रणव-द्विरेफां
तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ ५॥
श्रीमद् यतीन्द्र-परिभावित-ब्रह्मरूपां
गुह्योपदेशकुशलां गिरिगर्भविष्टाम् ।
श्रुत्यन्तगीतविभवां विरतिप्रहृष्टां
तामर्बुदां भगवतीं प्रणतोऽस्मि भक्त्या ॥ ६॥
अर्बुदाम्बां पदाम्भोजं यः स्मरेन् नियमान्वितः ।
अनेन श्लोकषट्केन भवेद्देवीप्रसादभाग् ॥
इति श्रीईश्वरनन्दगिरिविरचितं
अर्बुदाभगवतीस्तोत्रं सम्पूर्णम् ।
Proofread by Sunder Hattangadi